दन्तधावनम् - (दन्तधावन)
ॐ तद्विष्णोः परमं पद ᳮसदा पश्यन्ति सूरयः दिवीव चक्षुराततम् ।
समस्तपरिवाराय श्रीमते नारायणाय नमः दन्तधावनार्थे तुलसीपत्र समर्पयामि ।
जिह्वानिर्लेखनम् – (जिब्रो साफ गरिदिने)
ॐ तद्विप्रासो विपण्यवो जागृवा सस्ममिन्धते विष्णोर्यत्परमं पदम्।
समस्तपरिवाराय श्रीमते नारायणाय नमः जिह्वानिर्लेखनार्थे तुलसीपत्रं समर्पयामि ।
गण्डूषणम् – (कुल्ला गराउने)
ॐ द्वासुपर्णौ सयुजौ सखायौ समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्यनश्नन्नन्यो अभिचाकशीति ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः गण्डूषणं समर्पयामि इति त्रिवारम् आचमानीयं जलं समर्पयेत् ।
मुखप्रक्षालनम् – (मुख धोइदिने)
ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्ने विष्णुः प्रचोदयात् ।
समस्तपरिवाराय श्रीमते नारायणाय नमः मुखप्रक्षालनार्थे शुद्धोदकं समर्पयामि ।
ततः शुद्धपात्रे चन्दनैः अष्टकोण विलिख्य तन्मध्ये मूलमन्त्रं विलिख्य, तदुपरि तुलसीदलानि निक्षिप्य वस्त्रेण आच्छाद्य तदुपरि स्नानार्थं भगवन्तं ( शालग्राम प्रतिमां वा) स्थापयेत्।
अनु- शुद्धपात्रमा चन्दनले अष्टदल बनाएर बीचमा मूलमन्त्र लेखेर त्यसमाथि तुलसीपत्र राखी वस्त्र बिच्छ्याएर त्यहाँ भगवान् (शालग्राम वा प्रतिमा) लाई राख्ने।
स्नानीयम् – (स्नानीय जलले स्नान गराउने) -
ॐ तस्माद्यज्ञात्सर्व्वहुतः सम्भृतम्पृषदाज्यम् ।
पशूंस्ताँश्चक्रे व्वायव्यानारण्याग्राम्याश्च ये॥
समाहृतैः स्वर्णघटैश्च स्वच्छैः स्वर्लोकस्रोतस्विनिदिव्यतीर्थैः ।
स्नानं कुरुष्वाच्युतदिव्यमूर्ते देवाग्रजानां निधनप्रदायिन् ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः सर्वाङ्गे स्नानीयं समर्पयामि ।
पञ्चामृतस्नानम्
दुग्धस्नानम् – (दूधले स्नान गराउने)
पयः पृथिव्यां पयओषधीषु पयो दिव्यन्तरिक्षे पयोधाः ।
पयस्वतीः प्रदिशः सन्तु मह्यम् ॥
कामधेनुसमुद्भूतं सर्वेषां जीवनं परम् ।
पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः दुग्धस्नानं समर्पयामि ।
शुद्धोदकस्नानम् – (शुद्ध जलले स्नान गराउने)
शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्विनाः श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ॥
शुद्धं यत्सलिलं दिव्यं गङ्गाजलसमं स्मृतम् ।
समर्पितं मया भक्त्या शुद्धस्नानाय गृह्यताम् ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः शुद्धोदकस्नानं समर्पयामि ।
दधिस्नानम् – (दहिले स्नान गराउने)
ॐ दधिक्राव्णोऽअकारिषं जिष्णोरश्वस्य वाजिनः ।
सुरभिनो मुखाकरत्प्रणऽआयू ᳩ षितारिषत् ॥
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् ।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः दधिस्नानं समर्पयामि ।
दधिस्नानान्ते शुद्धोदकस्नानं समर्पयामि। (ॐ शुद्धवालः...... फेरि शुद्धजल)
घृतस्नानम् – (घ्यूले स्नान गराउने)
ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृतेश्रितो घृतम्बस्य धाम ।
अनुष्वधमा वह मादयस्व स्वाहा कृतं वृषभ वक्षि हव्यम् ॥
नवनीतसमुत्पन्नं सर्वसंतोषकारकम् ।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥
समस्त परिवाराय श्रीमते नारायणाय नमः घृतस्नानं समर्पयामि ।
घृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि। ॐ शुद्धवाल ....... फेरि शुद्धजल)
मधुस्नानम् ( महले स्नान गराउने)
ॐ मधुव्वाताऽऋतायते मधुक्षरन्ति सिन्धवः माध्वीर्नः सन्त्वोषधीः ।
ॐ मधुनक्तमुतोषसो मधुमत्पार्थिव ᳮ रजः । मधु द्यौरस्तु नः पिता ॥
ॐ मधुमान्नो वनस्पति मधुमारऽअस्तु सूर्यः। माध्वीर्गावो भवन्तु नः ॥
पुष्परेणुसमुत्पन्नं सुस्वादु मधुरं मधु ।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः मधुस्नानं समर्पयामि ।
मधुस्नानान्ते शुद्धोदकस्नानं समर्पयामि। ॐ शुद्धवालः..... फेरि शुद्धजल)
शर्करास्नानम् - (सख्खरले स्नान गराउने)
ॐ अपारसमुद्वयस सूर्ये सन्त ᳮ समाहितम् ।
अपारसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टङ्गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥
इक्षुरससमुद्भूतं शर्करां पुष्टिदां शुभाम् ।
मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ॥
समस्त परिवाराय श्रीमते नारायणाय नमः शर्करास्नानं समर्पयामि ।
शर्करास्नानान्ते शुद्धोदकस्नानं समर्पयामि। ॐ शुद्धवालः.... फेरि शुद्धजल)
वस्त्रम् - (वस्त्र अर्पण गर्ने)
ॐ तस्माद्यज्ञात्सर्वहुतऋचः सामानि जज्ञिरे ।
छन्दा ᳩ सिजज्ञिरे तस्माद्यजुस्तस्मादजायत ॥
शुद्धस्त्वमात्मा पुरुषः पुराणो जगत्सुत त्वं सुरलोकनाथ।
वस्त्राणि गृह्णीष्व मयार्पितानि दुकूलकौशेयसुपट्टकानि ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः वस्त्रं समर्पयामि ।
उपवस्त्रम् – (उपवस्त्र अर्पण गर्ने)
ॐ सुजातो ज्योतिषा सह शर्म्म वरूथमासदत्स्वः ।
वासो अग्ने विश्वरूपसंव्ययस्व विभावसो ।
उपवस्त्रं प्रयच्छामि देवाय परमात्मने ।
भक्त्या समर्पितं देव प्रसीद परमेश्वर ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः उपवस्त्रं समर्पयामि ।
यज्ञोपवीतम् – (जनै अर्पण गर्ने)
ॐ तस्मादश्वाऽअजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाताऽअजावयः ॥
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः यज्ञोपवीतं समर्पयामि ।
चन्दनम् – (ऊर्ध्वपुण्ड्रम्) (ऊर्ध्वपुण्ड्र लगाइदिने)
ॐ तं यज्ञं बर्हिषि प्रौक्षन्पुरुषञ्जातमग्रतः ।
तेन देवाऽअयजन्त साध्या ऋषयश्च ये ॥
आनन्दनो यः सुमतां परात्मा तापत्रयस्योपशमश्च यस्मात् ।
तस्मै प्रयच्छामि सुचन्दनं वै काश्मीरकर्पूरविभावितं च ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः ऊर्ध्वपुण्ड्रार्थे चन्दनं समर्पयामि ।
पुष्प - माला-तुलसीदलानि - (पुष्प, माला, तुलसी अर्पण गर्ने)
ॐ यत्पुरुषं व्यदधुः कतिधाव्यकल्पयन् ।
मुखङ्किमस्यासीत्किम्बाहू किमूरू पादाऽउच्येते ॥
यः सर्वगन्धोऽखिलविश्वरूपस्तस्मै प्रसूनानि समर्पयामि ।
कदम्बजातीवकुलोद्भवानि कुशेशय श्रीतुलसीदलानि ॥
समस्त परिवाराय श्रीमते नारायणाय नमः पुष्प माला-तुलसीदलानि समर्पयामि ।
धूपः - (धूप अर्पण गर्ने)
ॐ ब्राह्मणोऽस्य मुखमासीद्बाहूराजन्यः कृतः ।
ऊरूतदस्य यद्वैश्यः पद्भ्या ᳩ शूद्रोऽअजायत ।
धूपं दशाङ्गं शुभगन्धकञ्च गोसर्पिषाक्तं हृदयप्रियं च ।
समर्पये दिव्यनभास्पदाय क्षीराब्धिजासेवितसत्पदाय ॥
समस्त परिवाराय श्रीमते नारायणाय नमः दशाङ्गधूपं समर्पयामि ।
दीपः (दीप देखाउने)
ॐ चन्द्रमा मनसो जातश्चक्षोः सूर्योऽअजायतश्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥
आदित्यचन्द्राग्निप्रकाशकाय वै सदा चिदानन्दमयाव्ययाय च ।
स्वाज्येन युक्तं शुभवर्त्तिभूषितं दीपं प्रयच्छामि तमः प्रणाशकम् ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः दीपं दर्शयामि ।
हस्तौ प्रक्षालयेत् (हात शुद्धि गर्ने)
ततो घृतदधिमधुकर्पूरान्वितं मधुपर्क भगवते निवेदयेत् -
(घ्यू, दहि, मह र कपूर मिलाएर मधुपर्क समर्पण गर्ने) :
योऽसौभवांस्तिष्ठति सर्वदेहे नारायणः सर्वजगत्प्रधानः ।
गृहाण चैवं सुरलोकनाथ भक्तोपनीतं मधुपर्कसंज्ञम् ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः मधुपर्क समर्पयामि ।
नैवेद्यम् (नैवेद्य निवेदन गर्ने) -
नैवेद्ये तुलसीपत्र निक्षिप्य चक्रमुद्रा, सुरभिमुद्रां च प्रदर्श्य मूलमन्त्र जपन् तुलसीपत्रसहित ग्रासमुद्रया भगवन्तं भोजयामि इति भावयन् नैवेद्य निवेदयेत्।
(नैवेद्यमा तुलसीपत्र राखी चक्रमुद्रा र सुरभिमुद्रा देखाई मूलमन्त्र जप्दै तुलसीपत्र लिएर ग्रासमुद्राद्वारा 'भगवान्लाई भोजन गराउँदैछु' भन्ने भावनाले भोग लगाउने)
ॐ प्राणाय स्वाहा, ॐ अपानाय स्वाहा, ॐ व्यानाय स्वाहा, ॐ उदानाय स्वाहा, ॐ समानाय स्वाहा । ॐ नाभ्याऽआसीदन्तरिक्ष ᳮ शीर्णोद्यौः समवर्तत ।
पद्भ्याम्भूमिर्दिशः श्रोत्रात्तथालोकाँ३ऽअकल्पयन् ॥
त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये।
गृहाण सुमुखो भूत्वा प्रसीद पुरुषोत्तम ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः नैवेद्य निवेदयामि ।
पुनराचमनम् – नैवेद्यान्ते पुनराचमनीयं समर्पयामि समस्तपरिवाराय श्रीमते नारायणाय नमः ।
ताम्बूलम् (ताम्बूल समर्पण गर्ने)
ॐ यत्पुरुषेण हविषा देवायज्ञमतन्वत ।
वसन्तोस्यासीदाज्यङ्ग्रीष्मऽइध्मः शरद्धविः ॥
एलादिपूगीफलचन्द्रसंयुतं प्रशस्तदेशोद्भवसौरभास्पदम् ।
ताम्बूलपत्र भगवन् समर्पये भवप्रवाहोपरमाय तेऽच्युत ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः ताम्बूलं समर्पयामि ।
दक्षिणा (दक्षिणा समर्पण गर्ने)
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
सदाधार पृथिवीन्द्यामुतेमां कस्मै देवाय हविषा विधेम ॥
दक्षिणा प्रेमसहिता यथाशक्तिसमर्पिता तव तुष्टिकरीमेनां गृहाण पुरुषोत्तम ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः दक्षिणां समर्पयामि ।
नीराजनम् - (आरार्तिक्यम्) (आरती गर्ने)
ॐ सप्तास्यासन्परिधयस्त्रिः सप्तसमिधः कृताः ।
देवायद्यज्ञन्तन्वानाऽअबध्नन्पुरुषं पशुम् ॥
सुवर्तिकर्पूरविदीपितेन सुवर्णपात्रे विनियोजितेन ।
नीराजये त्वामहमप्रमेय दिव्येन दीपेन दिवप्रदेन ॥
आरती
श्रितकमलामुखमण्डल धृतकुण्डल ए ।
कलितललितवनमाल जय जय देव हरे ॥१॥
दिनमणिमण्डलमण्डन भवखण्डन ए।
मुनिजनमानसहंस जय जय देव हरे ॥२॥
कालियविषधरगञ्जन जनरञ्जन ए।
यदुकुलनलिनदिनेश जय जय देव हरे ॥३॥
मधुमुरनरकविनाशन गरुडासन ए।
सुरकुलकेलिनिदान जय जय देव हरे ॥४॥
अमलकमलदललोचन भवमोचन ए ।
त्रिभुवनभवननिधान जय जय देव हरे ॥५॥
जनकसुताकृतभूषण जितदूषण ए।
समरशमितदशकण्ठ जय जय देव हरे ॥६॥
अभिनवजलधरसुन्दर धृतमन्दर ए ।
श्रीमुखचन्द्रचकोर जय जय देव हरे ॥७॥
तव चरणे प्रणता वयमिति भावय ए ।
कुरु कुशलं प्रणतेषु जय जय देव हरे॥८॥
श्रीजयदेवकवेरिदं कुरुते च मुदम् ।
मङ्गलमुज्वललगीतं जय जय देव हरे ॥९॥
समस्तपरिवाराय श्रीमते नारायणाय नमः नीराजनं समर्पयामि ।
हस्तौ प्रक्षालयेत् (हात शुद्धि गर्ने)
पुष्पाञ्जलिः - (पुष्पाञ्जलि गर्ने)
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
तेह नाकम्महिमानः सचन्त यत्र पूर्व्वे साध्याः सन्ति देवाः ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः पुष्पाञ्जलिं समर्पयामि ।
हरि: ॐ तद्विष्णो: परमं पद ꣳ सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम् तद्विप्रासो विपन्यवो जागृवा ꣳ स: समिन्धते विष्णोर्यत्परमं पदम् ।
पर्याप्त्याऽनन्तरायायसर्वस्तोमोतिरात्र उत्तममहर्भवतिसर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेव तेनाप्नोति सर्वं जयति ।
हरि: ॐ शान्ति:३ ।- (यजुर्वेद)
सुगन्धवल्ली शतपत्रजाती सुवर्णचम्पावकुलोद्भवानि ।
गृहाण देवेश मयार्पितानि प्रभो हरे श्रीतुलसीदलानि ॥
पितरं मातरं दारान्पुत्रान्वन्धून्सखीन्गुरून् ।
रत्नानि धनधान्यानि क्षेत्राणि च गृहाणि च ॥
सर्वधर्मांश्च संत्यज्य सर्वकामांश्च साक्षरान् ।
लोकविक्रान्तचरणौ शरणं ते व्रजं विभो ॥
त्वमेव माता च पिता त्वमेव
त्वमेव वन्धुश्च गुरुस्त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव ॥
पिताऽसि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिक:
कतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥
तस्मात्प्रणम्य प्रणिधाय कायं
प्रसादये त्वामहमीशमीडयम् ।
पितेव पत्रस्य सखेव सख्यु:
प्रिय: प्रियायार्हसि देव सोढुम् ॥
मनोवाक्कायैरनादिकालप्रवृत्तानन्ताकृत्यकरण कृत्याकरणभगवदपचार भागवतापचारासह्यापचाररूप नानाविधानन्तापचारान् आर ब्धकार्यान् अनारब्धकार्यान्कृतान्क्रियमाणान्करिष्यमाणांश्च ।
सर्वानशेषत: क्षमस्व । अनादिकालप्रवृत्तविपरीतज्ञानमात्मविषयं कृत्स्नजगद्विषयं च विपरीतवृत्तं चाशेषविषयमद्यापि वर्तमानं वर्तिष्यमाणं च सर्वक्षमस्व ।
मदीयानादि कर्मप्रवाहप्रवृत्तां भगवत्स्वरूपतिरोधानकरीं विपरीतज्ञानजननीं स्वविषयायाश्च भोग्यबुद्धेर्जननीं देहेन्द्रियत्वेन भोग्यत्वेन सूक्ष्मरूपेण चावस्थितां दैवी गुणमयीं मायां दासभूतं शरणागतोऽस्मि तवास्मि दास: इति वक्तारं मां तारय ॥
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥१॥
उदारास्सर्वएवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितस्स हि युक्तात्मामामेवानुत्तगां गतिम् ॥२॥
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते।
वासुदेवसर्वमितिसमहात्मा सदुर्लभ: ॥३॥
इति श्लोक त्रयोदितज्ञानिनं मां कुरूष्व ॥