सनातन स्तोत्र संग्रह
शिव स्तोत्रम्
सनातन देव

॥ शिवरक्षास्तोत्रम् ॥

stotra-40eabaf1
रचयिता: पारंपरिक पाठ संख्या: 8
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
23px

विनियोगः 

अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः। श्रीसदाशिवो देवता।अनुष्टुप् छन्दः। श्रीसदाशिवप्रीत्यर्थे शिवरक्षास्तोत्रजपे विनियोगः॥

ध्यानम्  चरितं देवदेवस्य महादेवस्य पावनम्। अपारं परमोदारं चतुर्वर्गस्य साधनम्॥

गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम्। शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः॥

कवचम् गङ्गाधरः शिरः पातु फालमर्धेन्दुशेखरः। नयने मदनध्वंसी कर्णो सर्पविभूषणः॥१॥

घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः। जिह्वां वागीश्वरः पातु कन्धरं शितिकन्धरः॥२॥

श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः। भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक्॥३॥

हृदयं शङ्करः पातु जठरं गिरिजापतिः। नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः॥४॥

सक्थिनी पातु दीनार्तशरणागतवत्सलः। ऊरू महेश्वरः पातु जानुनी जगदीश्वरः ॥५॥

जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः। चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः॥६॥

फलश्रुतिः एतां शिवबलोपेतां रक्षां यः सुकृती पठेत्। स भुक्त्वा सकलान् कामान् शिवसायुज्यमाप्नुयात्॥

ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये। दूरादाशु पलायन्ते शिवनामाभिरक्षणाम्॥

अभयङ्करनामेदं कवचं पार्वतीपतेः। भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम्॥

इमां नारायणः स्वप्ने शिवरक्षां यथाऽदिशत्। प्रातरूत्थाय योगीन्द्रो याज्ञवल्क्यस्तथाऽलिखत्॥

॥ इति श्रीमद्याज्ञवल्क्यमुनिप्रोक्तं शिवरक्षास्तोत्रं सम्पूर्णम् ॥

पाठ जप: 0/108