॥ দেব্যাঃ কবচম্ ॥
अथ चण्डीकवचम् दुर्गाकवचम्
ॐ अस्य श्री चण्डी कवचस्य , ब्रह्मा ऋषिः , अनुष्टुप् छन्दः , चामुण्डा देवता ,अङ्गन्यासोक्तमातरो बीजम् , दिग्बन्धदेवतास्तत्त्वम् , श्रीजगदम्बाप्रीत्यर्थे , सप्तशती पाठाङ्गत्वेन जपे विनियोगः ॥
ॐ नमश्चण्डिकायै।
मार्कण्डेय उवाच ॥
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ॥ यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १॥
ब्रह्मोवाच
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ॥ देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २॥
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ॥ तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३॥
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ॥ सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥ ४॥
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ॥ उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५॥
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ॥ विषमे दुर्गमे चैव भयात्तार्म शरणं गताः ॥ ६॥
न तेषां जायते किंचिदशुभं रणसंकटे ॥ नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ ७॥
यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते ॥ ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः ॥ ८॥
प्रेतसंस्था तु चामुण्डा वाराही महिषासना ॥ ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥ ९॥
माहेश्वरी वृषारूढा कौमारी शिखिवाहना ॥ लक्ष्मीः पद्मासना देवी पद्महस्ता हरि प्रिया ॥ १०॥
श्वेतरूपधरा देवी ईश्वरी वृषवाहना ॥ ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ॥ ११॥
इत्येता मातरः सर्वाः सर्वयोग समन्विताः ॥ नानाभरणशोभाढ्या नानारत्नो पशोभिताः ॥ १२॥
दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः ॥ शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ १३॥
खेटकं तोमरं चैव परशुं पाशमेव च ॥ कुन्तायुधं त्रिशूलं च शाङ्गर्मायुधमुत्तमम् ॥ १४॥
दैत्यानां देहनाशाय भक्तानामभयाय च ॥ धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥ १५॥
नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ॥ महाबले महोत्साहे महाभयविनाशिनि ॥ १६॥
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवद्धिर्नि ॥ प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥ १७॥
दक्षिणेऽवतु वाराही नैऋर्त्यां खड्गधारिणी ॥ प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी ॥ १८॥
उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी ॥ ऊध्वर्म ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा ॥ १९॥
एवं दश दिशो रक्षेच्चामुण्डा शववाहना ॥ जया मे चाग्रतः पातु विजया पातु पृष्ठतः ॥ २०॥
अजिता वाम पाश्वेर् तु दक्षिणे चापराजिता ॥ शिखामुद्योतिनी रक्षेदुमा मूध्निर् व्यवस्थिता ॥ २१॥
मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी ॥ त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥ २२॥
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोद्वार्रवासिनी ॥ कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी ॥ २३॥
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ॥ अधरे चामृतकला जिह्वायां च सरस्वती ॥ २४॥
दन्तान् रक्षतु कौमरी कण्ठदेशे तु चण्डिका ॥ घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ २५॥
कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला ॥ ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ २६॥
नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी ॥ स्कन्धयोः खङ्गिनी रक्षेद् बाहू मे वज्रधारिणी ॥ २७॥
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ॥ नखाञ्छूलेश्वरी रक्षेत्कुक्षौरक्षेत्कुलेश्वरी ॥ २८॥
स्तनौरक्षेन्महादेवी मनःशोकविनाशिनी ॥ हृदये ललिता देवी उदरे शूलधारिणी ॥ २९॥
नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा ॥ पूतना कामिका मेढ्रं गुदे महिषवाहिनी ॥ ३०॥
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ॥ जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ॥ ३१॥
गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी ॥ पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ ३२॥
नखान् दंष्ट्राकराली च केशांश्चैवोध्वर्केशिनी ॥ रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ॥ ३३॥
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ॥ अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ ३४॥
पद्मावती पद्मकोशे कफे चूडामणिस्तथा ॥ ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥ ३५॥
शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा ॥ अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥ ३६॥
प्राणापानौ तथा व्यानमुदानं च समानकम् ॥ वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥ ३७॥
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ॥ सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ ३८॥
आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी ॥ यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ ३९॥
गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके ॥ पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ ४०॥
पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ॥ राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ ४१॥
रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ॥ तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ॥ ४२॥
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ॥ कवचेना वृतो नित्यं यत्र यत्रैव गच्छति ॥ ४३॥
तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः ॥ यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ॥ ४४॥
निर्भयो जायते मत्यर्म:: संग्रामेष्वपराजितः ॥ त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ॥ ४५॥
इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥ यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ॥ ४६॥
दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः ॥ जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः ॥ ४७॥
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ॥ स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् ॥ ४८॥
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ॥ भूचराः खेचराश्चैवजलजाश्चोपदेशिकाः ॥ ४९॥
सहजा कुलजा माला डाकिनी शाकिनी तथा ॥ अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ॥ ५०॥
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ॥ ब्रह्मराक्षसवेतालाः कुष्माण्डा भैरवादयः ॥ ५१॥
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥ मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम् ॥ ५२॥
यशसा वद्धर्ते सोऽपि कीर्ति मण्डितभूतले ॥ जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ॥ ५३॥
यावद्भूमण्डलं धत्ते सशैलवनकाननम् ॥ तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्र पौत्रिकी ॥ ५४॥
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ प्राप्नोति पुरुषो नित्यं महामाया प्रसादतः ॥ ५५॥
लभते परमं रूपं शिवेन सह मोदते ॥ ॐ ॥ ५६॥
॥ इति देव्याः कवचम् ॥