ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
ಶ್ರೇಣೀ
ಸನಾತನ ದೇವ

.. ಋಣಹರಗಣೇಶಸ್ತೋತ್ರಂ ..

॥ ऋणहरगणेशस्तोत्रम् ॥
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 1
23px

ऋणहरगणेशस्तोत्रम्

कैलासपर्वते रम्ये शम्भुं चन्द्रार्धशेखरम् । षडाम्नायसमायुक्तं पप्रच्छ नगकन्यका ॥ १॥ पार्वत्युवाच - देवेश परमेशान सर्वशास्त्रार्थपारग । उपायं ऋणनाशस्य कृपया वद साम्प्रतम् ॥ २॥ श्रीशिवः - सम्यक्पृष्टं त्वया भद्रे लोकानां हितकाम्यया । तत्सर्वं सम्प्रवक्ष्यामि सावधानावधारय ॥ ३॥ ॐ अस्य श्रीऋणहरमहागणपतिस्तोत्रस्य सदाशिव ऋषिः- अनुष्टुप्छन्दः- श्रीऋणहर महागणपतिर्देवता । ग्लौं बीजम् । गः शक्तिः । गों कीलकम् । मम ऋणनाशने जपे विनियोगः- ॐ गणेश अङ्गुष्ठाभ्यां नमः । ऋणं छिन्धि तर्जनीभ्यां नमः । वरेण्यं मध्यमाभ्यां नमः । हुं अनामिकाभ्यां नमः । नमः कनिष्ठिकाभ्यां नमः । फट् करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासाः । ध्यानं - सिन्दूरवर्णं द्विभुजं गणेशं लम्बोदरं पद्मदले निविष्टम् । ब्रह्मादिदेवैः परिसेव्यमानं सिद्धैर्युतं तं प्रणमामि देवम् ॥ पञ्चपूजाः । सृष्ट्यादौ ब्रह्मणा सम्यक् पूजितः फलसिद्धये । सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ १॥ त्रिपुरस्यवधात् पूर्वं शम्भुना सम्यगर्चितः । सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ २॥ हिरण्यकशिप्वादीनां वधार्ते विष्णुनार्चितः । सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ३॥ महिषस्य वधे देव्या गणनाथः प्रपूजितः । सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ४॥ तारकस्य वधात् पूर्वं कुमारेण प्रपूजितः । सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ५॥ भास्करेण गणेशो हि पूजितश्च स्वसिद्धये। सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ६॥ शशिना कान्तिवृद्ध्यर्थं पूजितो गणनायकः । सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ७॥ पालनाय च तपसां विश्वामित्रेण पूजितः । सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ८॥ इदं ऋणहरं स्तोत्रं तीव्रदारिद्र्यनाशनम् । एकवारं पठेन्नित्यं वर्षमेकं समाहितः ॥ ९॥ दारिद्र्यं दारुणं त्यक्त्वा कुबेरसमतां व्रजेत् । फडन्तोऽयं महामन्त्रः सार्धपञ्चदशाक्षरः ॥ १०॥ मन्त्रो यथा- ॐ गणेश ऋणं छिन्धि वरेण्यं हुं नमः फट् । इमं मन्त्रं पठेदन्ते ततश्च शुचिभावनः ॥ ११॥ एकविंशति सङ्ख्याभिः पुरश्चरणमीरितम् । सहस्रावर्तनात्सम्यक् षण्मासं प्रियतां व्रजेत् ॥ १२॥ बृहस्पतिसमो ज्ञाने धने धनपतिर्भवेत् । अस्यैवायुतसङ्ख्याभिः पुरश्चरणमीरितम् ॥ १३॥ लक्षमावर्तनात्सम्यग्वाञ्छितं फलमाप्नुयात् । भूतप्रेतपिशाचानां नाशनं स्मृतिमात्रतः ॥ १४॥ इति श्रीकृष्णयामलतन्त्रान्तर्गतं ऋणहरगणपतिस्तोत्रं सम्पूर्णम् ।
ಜಪ ಎಣಿಕೆ: 0/108