சனாதன ஸ்தோத்திர மஞ்சரி
Gitam
ஸனாதன தே³வ

.. மங்க³லகீ³தம்  ..

॥ मङ्गलगीतम्  ॥
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 6
23px

॥ मङ्गलगीतम्  है ॥

श्रीकान्ताकुचकुम्भकुंकुमपरिरम्भोगुणानां निधिः।  पूर्वाचार्यगुणावबोधनकर श्रीपाञ्चरात्रागम: ॥

विश्वक्सेनविभीषणप्रभृतिभिः भक्तैस्सदा सेवितः । पायाद्वोभगवान् पुराणपरुषः कुर्याद् सदा मंगलम् ॥१॥

श्रीरामानुजभट्टरार्यशठकोपानन्तसंकर्षणैः श्रीसौदर्शनपाञ्चजन्यभरताचार्यादि सद्वैष्णवैः । वेदैश्शास्त्रपुराणवैष्णवकथालापैः सदा सेवितः, पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मंगलम् ॥ २॥

प्रासादध्वजदण्डमण्डपमहासौवर्णपीठोन्नतः प्राकाराञ्चितहेमरत्नमणिभिः जाज्वल्यमानो हरिः। नित्यं नित्यमहोत्सवं बहुविधं मासं च पक्षोत्सवं पायाद्वोभगवान् पुराणपुरुषः कृयाद् सदा मंगलम् ॥३॥

नानावेदपुराणशास्त्रविवभः श्रीपाञ्चरात्रागमः शास्त्राणामधिप समस्तफलदः श्रीवैष्णवैः शाश्वतैः । भक्तैः भागवतैरमर्त्यनिकरैरासेव्यमानोत्सुक: पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मंगलम् ॥ ४ ॥

विश्वामित्रपराशरशुकमुनिप्रह्लादरुमाङ्गदाः भारद्वाजवशिष्ठनीलहनुमान् श्रीवैनतेयादयः । एतैर्भागवतोत्तमैः प्रतिदिनं संसेव्यमानोत्सुकः पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मंगलम् ॥ ५ ॥

मीनो वामनसूकरौ नरमृगो कुर्मो महाभार्गबो- रामो यादवनायको रतिसखः कृष्णाश्च कल्क्यादयः । लोकानां परिपालनाय जगतो देवो जगद्रक्षकः । पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मंगलम् ॥६॥

श्रीरङ्गे गरुडाचले खगगिरौ सिंहाचले मन्दिरे वैकुण्ठे कनकाचले च निमिषे नारायणाख्याचले। लोकालोकमहाचले च निषधे पुण्याचलेष्टाश्रयः पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मंगलम् ॥ ७ ॥

श्रीलक्ष्मीकमलालयावसुमती रामा जगद्रक्षिणी कल्याणी सकलेश्वरी हरिसती भाग्यानुसन्धायिनी। शोभाङ्गी विमलेक्षणी विमलिनी नारायणीभिर्युतः । पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मंगलम् ॥ ॐ 

ஜப எண்ணிக்கை: 0/108