সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

॥ মৃত্যুঞ্জয়স্তোত্রম্ ॥

॥ मृत्युञ्जयस्तोत्रम् ॥
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 2
23px

मृत्युञ्जयस्तोत्रम्

॥ मार्कण्डेय उवाच ॥

 नारायणं सहस्राक्षं पद्मनाभं पुरातनम् । प्रणतोऽस्मि हृषीकेशं किं मे मृत्युः करिष्यति  ॥ १ ॥

गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् । केशवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति  ॥ २ ॥

वासुदेवं जगद्योनिं भानुवर्णमतीन्द्रियम् । दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति  ॥ ३ ॥

शङ्खचक्रधरं देवं छद्मरूपिणमव्ययम् । अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति  ॥ ४

वाराहं वामनं विष्णुं नरसिंहं जनार्दनम् । माधवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति  ॥ ५

पुरुषं पुष्करं पुण्यं क्षेमबीजं जगत्पतिम् । लोकनाथं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति  ॥ ६

भूतात्मानं महात्मानं यज्ञयोनिमयोनिजम् विश्वरुपं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति  ॥ ७ ॥

सहस्रशीर्षसं देवं व्यक्ताऽव्यक्तं सनातनम् । महायोगं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति  ॥ ८ ॥

इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनः । अपयातस्ततो मृत्युर्विष्णुदूतैश्च पीडितः ॥ ९ ॥

इत्येन विजितो मृत्युर्मार्कण्डेयेन धीमता । प्रसन्ने पुण्डरीकाक्षे नृसिंहं नास्ति दुर्लभम् ॥ १० ॥

मृ्त्य्वष्टकमिदं पुण्यं मृत्युप्रशमनं शुभम् । मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ॥ ११ ॥

य इदं पठते भक्त्या त्रिकालं नियतः शुचिः । नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ॥ १२ ॥ हृत्पद्ममध्ये पुरुषं पुरातनं (पुराणम्) नारायणं शाश्वतमादिदेवम् । संचिन्त्य सूर्यादपि राजमानं मृत्युं स योगी जितवांस्तदैव ॥ १३ ॥

 

॥श्रीनरसिंह पुराणे अन्तर्गत मार्कण्डेयमृत्युञ्जयो नामस्तोत्र॥

 

 

পাঠ জপ: 0/108