సనాతన స్తోత్ర నిధి
శ్రేణీ
సనాతన దేవ

శ్రీవిఘ్నేశ్వర అష్టోత్తరశతనామస్తోత్రం

श्रीविघ्नेश्वर अष्टोत्तरशतनामस्तोत्रम्
రచయిత: పారంపరిక వీక్షణలు: 4
23px

श्रीविघ्नेश्वराष्टोत्तरशतनामस्तोत्रम्

विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः । स्कन्दाग्रजोऽव्ययो पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥ १॥ अग्निगर्भच्छिदिन्द्रश्रीप्रदो वाणीबलप्रदः । सर्वसिद्धिप्रदश्शर्वतनयः शर्वरीप्रियः ॥ २॥ सर्वात्मकः सृष्टिकर्ता देवोऽनेकार्चितश्शिवः । शुद्धो बुद्धिप्रियश्शान्तो ब्रह्मचारी गजाननः ॥ ३॥ द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः । एकदन्तश्चतुर्बाहुश्चतुरश्शक्तिसंयुतः ॥ ४॥ लम्बोदरश्शूर्पकर्णो हरिर्ब्रह्म विदुत्तमः । कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥ ५॥ पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः । अकल्मषस्स्वयंसिद्धस्सिद्धार्चितपदाम्बुजः ॥ ६॥ बीजपूरफलासक्तो वरदश्शाश्वतः कृतिः । द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥ ७॥ श्रीदोऽजोत्पलकरः श्रीपतिः स्तुतिहर्षितः । कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ॥ ८॥ चन्द्रचूडामणिः कान्तः पापहारी समाहितः । आश्रितश्श्रीकरस्सौम्यो भक्तवाञ्छितदायकः ॥ ९॥ शान्तः कैवल्यसुखदस्सच्चिदानन्दविग्रहः । ज्ञानी दयायुतो दान्तो ब्रह्म द्वेषविवर्जितः ॥१०॥ प्रमत्तदैत्यभयदः श्रीकण्ट्ःओ विबुधेश्वरः । रमार्चितोविधिर्नागराजयज्ञोपवीतकः ॥११॥ स्थूलकण्ठः स्वयङ्कर्ता सामघोषप्रियः परः । स्थूलतुण्डोऽग्रणीर्धीरो वागीशस्सिद्धिदायकः ॥ १२॥ दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान् । शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ॥ १३॥ स्वलावण्यसुधासारो जितमन्मथविग्रहः । समस्तजगदाधारो मायी मूषकवाहनः ॥१४॥ हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः । अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुं ॥ १५॥ तुष्टाव शङ्करः पुत्रं त्रिपुरं हन्तुमुत्यतः । यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ॥१६॥ दूर्वादलैर्बिल्वपत्रैः पुष्पैर्वा चन्दनाक्षतैः । सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ॥ इति श्रीविघ्नेश्वराष्टोत्तरशतनामस्तोत्रम् 
జప గణన: 0/108