சனாதன ஸ்தோத்திர மஞ்சரி
Aadi Shankaracharya
ஸனாதன தே³வ

.. தோடகாஷ்டகம் ..

॥ तोटकाष्टकम् ॥
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 5
23px

शङ्करं शङ्कराचार्यं केशवं बादरायणम्। सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः॥ १ ॥

नारायणं पद्मभुवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् ॥ २ ॥

श्री शङ्कराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम् तं तोटकं वार्तिककारमन्यानस्मद्गुरून् सन्ततमानतोऽस्मि॥ ३ ॥

विदिताखिलशास्त्रसुधाजलधे महितोपनिषत् कथितार्थनिधे। हृदये कलये विमलं चरणं भव शङ्कर देशिक मे शरणम्॥ ४ ॥

करुणावरुणालय पालय मां भवसागरदुःखविदूनहृदम्। रचयाखिलदर्शनतत्त्वविदं भव शङ्कर देशिक मे शरणम्॥ ५ ॥

भवता जनता सुहिता भविता निजबोधविचारणचारुमते। कलयेश्वरजीवविवेकविदं भव शङ्कर देशिक मे शरणम्॥ ६ ॥

भव एव भवानिति मे नितरां समजायत चेतसि कौतुकिता। मम वारय मोहमहाजलधिं भव शङ्कर देशिक मे शरणम्॥ ७ ॥

सुकृतेऽधिकृते बहुधा भवतो भविता समदर्शनलालसता। अतिदीनमिमं परिपालय मां भव शङ्कर देशिक मे शरणम्॥ ८ ॥

जगतीमवितुं कलिताकृतयो विचरन्ति महामहसश्छलतः। अहिमांशुरिवात्र विभासि गुरो भव शङ्कर देशिक मे शरणम्॥ ९ ॥

गुरुपुङ्गव पुङ्गवकेतन ते समतामयतां न हि कोऽपि सुधीः। शरणागतवत्सल तत्त्वनिधे भव शङ्कर देशिक मे शरणम्॥ १० ॥

विदिता न मया विशदैककला न च किञ्चन काञ्चनमस्ति गुरो। द्रुतमेव विधेहि कृपां सहजां भव शङ्कर देशिक मे शरणम्॥ ११ ॥

॥ इति श्री तोटकाचार्यविरचितं श्री तोटकाष्टकं सम्पूर्णम् ॥

ஜப எண்ணிக்கை: 0/108