সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

শ্রীকৃষ্ণলীলাশুকমুনিবিরচিতং শ্রীগণপতিস্তোত্রম্

श्रीकृष्णलीलाशुकमुनिविरचितं श्रीगणपतिस्तोत्रम्
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 2
23px
श्रीगणपतिस्तोत्रम् आस्ते घोरसमुद्रवासवदिशापारस्थलीगोपुरात् बाह्ये वामकरर्थकाशविषये माद्यं महान् पिप्पलः । आस्थानं यदुपान्तधन्यधरणीमास्थाय देवः स्वयं दन्तीन्द्राननविग्रहस्त्रिभुवनं पुष्णाति तैस्तैर्व रैः ॥ १॥ पुरप्रसरदद्भुतं प्रथितदानतिभ्यत्करं विभोरभिनवात्मजं वटतरुस्थलावासितम् । मुहुः फलितपिप्पलद्रुमतटीनिरूढास्पदं- महागजमदाननं मणिनिधानमाराधये ॥ २॥ परिमलपरिणम्रैः कम्रनानाप्रसूनै- रविरतमभिरामैरात्तभूषाविशेषम् । अपि च निचितलीलाकल्पशिल्पोपचारै- रुपचितमभिवन्दे दैवतं दन्तिवक्त्रम् ॥ ३॥ चलदलतटभूमिभूषणं मदकलकुञ्जरमञ्जुलाननम् । भजत भजत वृष्टिभि र्हरितहरेण करेण भूषितम् ॥ ४॥ आलोकय महाश्चर्यं मूले पिप्पलशाखिनः । लीलाकल्पतरुः कोऽपि खेलामुखगजायते ॥ ५॥ निष्पतन्निबिडामृतदिवमुदितेषु कलाङ्कितम् शिल्पभारधुराधुरन्धरचित्रभूषणभूषितं कल्पमानकृपाकटाक्षनिरीक्षिताखिलवैभवं पिप्पलद्रुमविद्रुमस्थलकल्पकद्रुममाद्रिये ॥ ६॥ वन्दे बहुलमाधुर्यकन्दलीललिताद्भुतम् । मन्देतरमहैश्वर्यमन्दिरं सिन्धुराननम् ॥ ७॥ मदजलविलुलितकटतटविलुठित- मधुकरपरिकरमुखरितपरिमलम् । अभिमतवरभरवितरणपरिणत- मदकलकरतलगजमुख जय जय ॥ ८॥ मन्देतरैश्वर्यमहाभिषेक- सन्दोहधार ---। -। -पप्रवाहम् । भिन्दानमन्तत्तिमिरं दशाननं वन्दामहे मत्तगजेन्द्रवक्त्रम् ॥ ९॥ वितरतु विजयोत्सवे ----- विजयमहानिधिरोजसां निधिः । अभिनवमदगन्धिसिन्धुराननं नम्रविपद्धनं महत् ----॥ १०॥ --। -। -सुधारानदाम्बुभारैः करम्बितं वः क ---रम्पिराबन् । अभीष्टवृष्टिं ----ष्टगाढं निधिर्गुणानां च पतिर्गणानाम् ॥ ११॥ निरवधिमदधारानिर्झरोभ्राम्यमाण- भ्रमरसमरलीलाधोरणीदत्तदृष्टिः । अभिमतवरदानव्यग्रहस्ताराविन्दो करिकलभमुखी नः कामधेनुं धिनोति ॥ १२॥ कल्पितानल्पभूषेण वेषेण बहुलश्रियम् । कल्पशाखिनमालम्बे करीन्द्रकलभाननम् ॥ १३॥ कारणं किमपि जन्मभागिनां पूरणं पुलकिताद्भुतश्रियाम् । पारणं भुवनसर्वसम्पदां वारणेन्द्रवदनं भजेमह ॥ १४॥ मदोत्कटकटाङ्गणभ्रमितमत्त भृङ्गाङ्गना- कलध्वनितधोरणीकलकलोत्सवास्वादिने । नमस्त्रिदशमण्डलीमुकुटकोटिकोटीतट- स्खलच्चरणपल्लवल्लमसहायधाम्ने नमः ॥ १५॥ मदपरिमलक्रीडाक्रोडीकृतभ्रमरच्चटा निबिडनिबिडश्रीमच्छुण्डातरङ्गितताण्डवम् । त्रिदशपरिषत्सेवादिव्याञ्जलिक्रमरञ्जितं द्विरदवदनं वेषं वन्दामहे भुवनश्रियः ॥ १६॥ विपल्लवान् चः पदपल्लवेन विधूनुतादानतकल्पशाखी । शिखामणिः शिल्पितसिन्धुरश्रीः श्वश्रेयसानां च गणश्रियां च ॥ १७॥ मददुर्दिननिर्दयादरव्यसनारूढमधुव्रजप्रजाम् । शिवयोरयि लोचनादृतां शिशिरां पश्यत विश्वतः श्रियम् ॥ १८॥ दृढमल्लिदलफुड्मलाग्रमालाभिरालिङ्गिननीलगात्रम् । विराजते धाम गजेन्द्रवक्त्रं नक्षत्रमालाभिरिवान्तरिक्षम् ॥ १९॥ मङ्गल्यदो हि मदसिन्धुमहाप्रवाहमङ्गीनिरर्गलपरिष्कृतपुष्कराग्रम् । तुङ्गानुभावमनुभावशतानुविद्धश‍ृङ्गारभारमवताच्छिचवैभवं वः ॥ २०॥ आलोकयालोकय लोचनाभ्यामाभ्यामुभाभ्यामभिरामसीमम् । धामाङ्कुरं कुञ्जरराजवीथिसमुल्लसद्वक्त्रविचित्रभावम् ॥ २१॥ नमो नम्रजगज्जन्तुचिन्तामणिनखाङ्घ्रये । मत्तहस्तीन्द्रवक्त्राय चित्राय महसे मुहुः ॥ २२॥ अविसरद्भ्मरीनिकरोद्भटं कटतटे कमनीयमदोत्कटे । गजमुखं गहनं भुवनश्रियामभिमतं भवतामभिवर्षतु ॥ २३॥ सर्वतः कुसुमसम्प्लवधारानिर्वृतेन महसा निरवद्यम् । गर्वहारि महसां गजवक्त्रं स्वर्वधूसततगीतमुपासे ॥ २४॥ अविरलमदधारं क्रीडाकडारमधुव्रत- व्रजविलुलितव्यक्तामोदप्रमोदितदिङ्मुखम् । हरिपुरवधूहस्तोद्वान्तप्रसूनपरम्परा- परिमलदिशे दत्तव्रीडं भजामि गजाननम् ॥ २५॥ सर्वगर्जितमदद्विपच्छटानिर्विवादगजराजसम्पदे । निर्वृतिप्रियतमाय तेजसे सर्वलोकसुहृदे नमो नमः ॥ २६॥ नमस्त्रिलोकीतिलकाङ्कुराय कराग्रविन्यस्तसमस्तलक्ष्मै । करीन्द्रवक्त्राय सुरेन्द्रमौलिमालावलीढप्रपदाय धाम्ने ॥ २७॥ सिन्धुरबन्धुरवदनं सीमश्यामाभिरामशिशिररुचाम् । बन्धुरबन्धुजनानां बहुमुखमभिमुखमहो महो जयति ॥ २८॥ दिनकरकरपरिरम्भाविजृम्भाविलसितं शिल्पविकल्पम् । समदृशि दृशि सुतरामभिरामं मदगजमुखमधिदैवमुदीयाम् ॥ २९॥ त्वामेकमवलम्ब्यैव स्वाराज्यं गमिता वयम् । मामेकमवलम्ब्यैव कारुण्यं गमितो भवान् ॥ ३०॥ अविकलकृपापाङ्गक्रीडातरङ्गितदिङ्मुखं मदागजमुखाकारं मन्देतरस्फुटदैभवम् । भवतु निभृताशेषश्रेयश्श्रयां नियतास्पदं त्रिभुवनदृशां दृप्तं भाग्याद्भुतं विजयाय वः ॥ ३१॥ भ्रमद्भ्रमरमण्डलीकलकलारवाडम्बर- स्फुरत्पुलकभूषणं श्रवणशूर्पदर्पोद्धतम् । जगज्जयजयध्वनितवैभवोज्जृम्भि प्रियप्रसरनिर्भरं भज गजाननक्रीडितम् ॥ ३२॥ आर्द्रचन्दनरसानुलिप्तयोराविभाति तव कुम्भयोर्द्वयम् । भुक्तिमुक्तिसुधयेव निर्भरं पूर्णयोः क्षरणवेगशङ्कया ॥ ३३॥ मत्तहस्तिमुखमस्ति वस्तु वो वाञ्छितानि वितरीतुमुद्यतम् । वाञ्छितं ललितकान्तिसम्पदां राशिना च मम मानसेन च ॥ ३४॥ कामात्कि रतु वः कामं धाम सामोद्भवाननम् । रामणीयकसर्वस्वं सर्वस्वं सर्वसम्पदाम् ॥ ३५॥ अयमस्मदीयसुकृताङ्कुरोऽगमो हरिदङ्गनाः शिशिरयन् दृशां श्रिया । विजयत्स्वयं विजयसिन्धुराननो विजयश्रियं दिशति विश्वतोमुखी ॥ ३६॥ शेषाभिरशेषाणामैश्वर्यविशेषबहुधाराणाम् । धुरि रचितपट्टबन्धं दैवं दन्तीन्द्रमुखमिदं जीयात् ॥ ३७॥ देव त्वदालोकनधन्यवृत्ति नेत्रद्वयं गात्रमिदं च मन्ये । किञ्चान्यदावेदयते जनोऽयं कृतार्थतां केलिकटाक्षलक्ष्म्या ॥ ३८॥ परिपूर्णमनोरथा वयं भवदालोकनकेलिसम्पदा । किमिवापरमत्र कीर्त्यते करुणासागरगर्भकिङ्करैः ॥ ३९॥ अथापि कथयामस्ते विस्तरेण गिरां विना । भगवन् करुणापाङ्गैः पाहि पाहीति पाहि माम् ॥ ४०॥ इति श्रीकृष्णलीलाशुकमुनिविरचितं श्रीगणपतिस्तोत्रं सम्पूर्णम् ।
পাঠ জপ: 0/108