ஶ்ரீஸ்தவ꞉
श्रीस्तवः
श्रीवत्सचिहन मिश्ररनुगृहीतः
श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गळसूत्रताम् ॥१ ॥
स्वस्ति श्रीर्दिशतादशेषजगतां सर्गोपसर्गस्थिती: स्वर्ग दुर्गतिमापवर्गिकपदं सर्वं च कुर्वन्हरिः । यस्या वीक्ष्य मुखं तदिङ्गितपराधीनो विधत्तेऽखिलं क्रीडेयं खलु नान्यथाऽस्य रसदा स्यादैकरस्यात्तया ॥२ ॥
हे श्रीर्देवि! समस्तलोकजननीं त्वां स्तोतुमीहामहे युक्तां भावय भारती प्रगुणय प्रेमप्रधानां धियम् । भक्तिं बन्धय नन्दयाश्रितमिमं दासं जनं तावकं लक्ष्यं लक्ष्मि! कटाक्षवीचिविसृते स्ते स्याम चामी वयम् ॥ ३ ॥
स्तोत्रं नाम किमामनन्ति कवयो यद्यन्यदीयान्गुणान् अन्यत्र त्वसतोऽधिरोप्य फणितिस्सा तर्हि वन्ध्या त्वयि । सम्यक्सत्यगुणाभिवर्णनमथो ब्रूयुः कथं तादृशी वाग्वाचस्पतिनापि शक्यरचना त्वत्सद्गुणार्णोनिधौ ॥ ४ ॥
ये वाचां मनसां च दुर्ग्रहतया ख्याता गुणास्तावकाः तानेव प्रति साम्बू जिह्वमुदिता है मामिका भारती। हास्यं तत्तु न मन्महे न हि चकोर्येकाऽखिलां चन्द्रिकां नालं पातुमिति प्रगृह्य रसनामासीत सत्यां तृषि ।॥ ५ ॥
क्षोदीयानपि दुष्टबुद्धिरपि निरस्नेहोऽप्यनीहोऽपि ते कीर्ति देवि! लिहनहं न च विभेम्यज्ञो न जिहेमि च । दुष्येत्सा तु न तावता नहि शुना लीढापि भागीरथी दुष्येच्छ्वापि न लज्जते न च बिभेत्यार्तिस्तु शाम्येच्छुनः॥ ६ ॥
ऐश्वर्यं यदशेषपुंसि यदिदं सौन्दर्यलावण्ययोः रूपं यच्च हि मङ्गलं किमपि यल्लोके सदित्युच्यते । तत्सर्वं त्वदधीनमेव यदतश्श्रीरित्यभेदेन वा यद्वा श्रीमदितीदृशेन वचसा देवि! प्रथामश्नुते ॥ ७ ॥
देवि! त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते यद्यप्येव मथापि नैव युवयोस्सर्वज्ञता हीयते । यन्नास्त्येव तदज्ञतामनुगुणां सर्वज्ञताया विदुः व्योमाम्भोजमिदन्तया किल विदन्भ्रान्तोऽयमित्युच्यते॥८॥
लोके वनस्पतिबृहस्पतितारतम्यं यस्याः प्रसादपरिणाममुदाहरन्ति । सा भारती भगवती तु यदीयदासी तां देवदेवमहिषीं श्रियमाश्रयामः ॥ ९ ॥
यस्याः कटाक्षमृदुवीक्षणदीक्षणेन सद्यस्समुल्लसितपल्लवमुल्ललास। विश्वं विपर्ययसमुत्थविपर्ययं प्राक् तां देवदेवमहिषीं श्रियमाश्रयामः ॥ १०॥
यस्याः कटाक्षवीक्षाक्षणलक्ष्यं लक्षिता महेशास्स्युः । श्रीरङ्गराजमहिषी सा मामपि वीक्षतां लक्ष्मीः ॥११ ॥
॥ इति श्रीवल्साङ्कमिश्रविरचितः श्रीस्तवसम्पूर्णः ॥