சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

ஸந்தானக³ணபதிஸ்தோத்ரம்

सन्तानगणपतिस्तोत्रम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 2
23px

सन्तानगणपतिस्तोत्रम्

श्रीगणेशाय नमः । नमोऽस्तु गणनाथाय सिद्धिबुद्धियुताय च । सर्वप्रदाय देवाय पुत्रवृद्धिप्रदाय च ॥ १॥ गुरुदराय गुरवे गोप्त्रे गुह्यासिताय ते । गोप्याय गोपिताशेषभुवनाय चिदात्मने ॥२॥ विश्वमूलाय भव्याय विश्वसृष्टिकराय ते । नमो नमस्ते सत्याय सत्यपूर्णाय शुण्डिने ॥ ३॥ एकदन्ताय शुद्धाय सुमुखाय नमो नमः । प्रपन्नजनपालाय प्रणतार्तिविनाशिने ॥ ४॥ शरणं भव देवेश सन्ततिं सुदृढा कुरु। भविष्यन्ति च ये पुत्रा मत्कुले गणनायक ॥ ५॥ ते सर्वे तव पूजार्थं निरताः स्युर्वरोमतः । पुत्रप्रदमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ॥ ६॥ इति सन्तानगणपतिस्तोत्रं सम्पूर्णम् ।
ஜப எண்ணிக்கை: 0/108