সনাতন স্তোত্র মঞ্জরী
সূক্তম্
সনাতন দেব

॥ নীলা সূক্তম্ ॥

॥ नीला सूक्तम् ॥
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 1
23px

॥ नीला सूक्तम् ॥

ॐ श्रृण्वऺन्ति श्रो̲णाममृ̍तस्य गो̲पाम् । पुण्या̍मस्या̲मुप̍श्रृणोमि वा̲चम्᳚ । म̲हीं देवीं̲ विष्णु̍पत्नीमजू॒र्याम् । प्र॒तीची॑  मेनाᳩह॒विषा॑ यजामः । त्रे॒धा विष्णु॑रुरुगा॒यो विच॑क्रमे । म॒हीं दिवं॑ पृथि॒वीम॒न्तरि॑क्षम् । तच्छ्रो॒णैति॒श्रव॑ इ॒च्छमा॑ना । पुण्य॒ᳩ̲श्लोकं̲ यज॑मानाय कृण्व॒ती ।

ॐ  गृ॒णा॒हि॒ घृ॒तव॑ती सवित॒राधि॑पत्यैः॒ पय॑स्वती॒ रन्ति॒राशा॑नो अस्तु । ध्रु॒वा दि॒शां विष्णुप॒त्न्यघो॑रा॒ऽस्येशा॑ना॒सह॑सो॒या म॒नोता᳚ । बृह॒स्पति॑र्मात॒रिश्वो॒तवा॒युस॑न्धुवा॒नावाता॑ अ॒भिनो॑ गृणन्तु । वि॒ष्ट॒म्भो दि॒वोध॒रुणः॑ पृथि॒व्या अ॒स्येश्यां॑ना॒ जग॑तो॒ विष्णु॑पत्नी ।। ॐ म॒हा॒दे॒व्यै च वि॒द्महे॑ विष्णुप॒त्न्यै च॑ धीमहि । तन्नो॑ नीला प्रचो॒दया᳚त् ।।

ॐ  शान्तिः॒ शान्तिः॒ शान्तिः॑ ।।
॥ इति नीलासूक्तम् ॥
পাঠ জপ: 0/108