சனாதன ஸ்தோத்திர மஞ்சரி
கர்மகாண்ட₃
ஸனாதன தே³வ

.. அக்³நிஸ்தா²பனா விதி⁴꞉ ..

॥ अग्निस्थापना विधिः ॥
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 2
23px

॥ अग्निस्थापना विधिः ॥

कर्मपात्रनिर्माणविधिः

कर्मपात्र निर्माण आदौकर्मपात्रं विधाय निर्माणम् । ( पहिला कर्म पात्र बनाउने विधि )

तद्यथा

ॐ यद्देवा देवहेडनन्देवासश्चकृमा व्वयम् । अग्निर्म्मा तस्मादेनसो व्विश्वान्मुञ्चत्वᳩहसः ॥ ॐ यदि दिवा यदि नक्तमेनाᳩसि चकृमा व्वयम् । वायुर्मा तस्मादेनसो विश्वान्मुञ्चत्वᳩहसः ॥ ॐ यदि जाग्रद्यदि स्वप्नऽएना सिᳩचकृमा व्वयम् । सूर्यो मा तस्मादेनसो विश्वान्मुञ्चत्वᳩहसः ॥

इत्यादि मन्त्रैः देवानावाह्य

ॐ पवित्रे स्थो व्वैष्णव्यौ सवितुर्वः प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । देवीरापोऽअग्रेगुवोऽअग्रेपुवोग्रऽइममद्य यज्ञन्नयताग्रे यज्ञपतिᳮसुधातुं यज्ञपतिन्देवयुवम् ॥

इति मन्त्रेण कर्मपात्रे पवित्र क्षिपेत्

 ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्त्रवन्तु नः ॥ इति जलम्

ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरी सर्वभूतानां तामिहोपव्हये श्रियम् ॥ इति गन्धम्

ॐ अक्षन्नमीमदन्त ह्यवप्रियाऽअधूषत । अस्तोषत स्वभानवो विप्रा नविष्टया मती योजान्विन्द्र ते हरी ॥ इति अक्षतान्

ॐ यवोसि यवयास्मद्वेषो यवयारातीर्दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वा । शुन्धन्ताल्लोकाः पितृषदना पितृषदनमसि ॥ इति यवान्

ॐ तिलोऽसि सोमदैवत्यो गोसवो देवनिर्मितः । प्रत्नमद्भि पृक्तः स्वधया पितृँल्लोकान् प्रिणाहि नः ॥ इति तिलान्

ॐ श्रीश्च ते लक्ष्मीश्चपत्क्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् । इष्णन्निषाणामुम्मऽइषाण सर्व्वलोकम्मऽइषाण ॥ इति पुष्पं क्षिपेत्

ततः कुशत्रयसहितं कर्मपात्रोदकमादाय ॐ अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोऽपि वा । यःस्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥

ॐ पुण्डरीकाक्षः पुनातु । ॐ पुण्डरीकाक्षः पुनातु ।ॐ पुण्डरीकाक्षः पुनातु । इति पूजाद्रव्याणि आत्मानं च सिञ्चेत् ।

इति कर्मपात्रनिर्माणविधिः ।

पञ्चभूसंस्काराः भूरसीति भूमिशोधनम् 

ॐ भूरसि भूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्री । पृथिवीं यच्छ पृथिवीन्दृह पृथिवीं मा हिसीः ॥

अश्मा च म इति मृत्तिकास्थापनम् कुर्यात् ॐअश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे व्वनस्पतयश्च मे हिरण्यञ्च मेऽयश्च मे श्यामञ्च मे लोहञ्च मे सीसञ्च मे त्रपु च मे यज्ञेन कल्पन्ताम् ॥

एष वस्तोमेति दर्भ गृह्णीयात् - ॐ एष वःस्तोमो मरुतऽइयङ्गीर्मान्दार्य्य॑स्य मान्यस्य कारोः । एषायासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥

यद्देवेति दभैः परिसमूहनम् कुर्यात् - ॐ यद्देवा देवहेडनं देवासश्चकृमा व्वयम् । अग्निर्म्मा तस्मादेनसो व्विश्वान् मुञ्चत्वᳮहसः ॥

मानस्तोक इति उपलेपनं गोमयेन कुर्यात् ॐ मानस्तोके तनये मा नऽआयुषि मा नो गोषु मा नोऽअश्वेषु रीरिषः । मा नो वीरानुद्र भामिनो वधीर्हविष्मन्तः सदमित्त्वा हवामहे ॥

त्वामिद्धीत्युल्लेखनं स्फयेन स्रुवेण कुर्यात् ॐ त्वामिद्धि हवामहे सातौ व्वाजस्य कारवः । त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्व्वतः ॥

प्रथमा द्वितीयैरित्यादिभिः प्रागग्रमुदक्संस्थं रेखात्रयं खादिरेण हस्तमात्रेण खड्गाकृतिना स्फयेन स्रुवमूलेन वा कुर्यात् । ॐ प्रथमा द्वितीयैर्द्वितीयास्तृतीयैस्तृतीयाः सत्येन सत्यं यज्ञेन यज्ञो यजुभिर्षजूᳮषि सामभिः सामान्यृग्भिर्ऋचः । पुरोनु वाक्याभिः पुरोऽनुवाक्या याज्ज्याभिर्याज्ज्या व्वषट्कारैर्व्वषट्काराऽआहुतीभिराहुतयो मे कामान्त्समर्धयन्तु भूः स्वाहा ॥ ॐ दक्षिणामारोह त्रिष्टुप्त्वावतु बृहत्साम पञ्चदशस्तोमो ग्रीष्मऽऋतुः क्षत्रं द्रविणम् ॥ ॐ प्रतीचीमारोह जगती त्वावतु व्वैरूपᳮसाम सप्तदशस्तोमो वर्षाऽऋतुर्विड् द्रविणम् ॥ ॐ उदीचीमारोहानुष्टुप्त्वावतु व्वैराजᳮसामैकविᳮ शस्तोमः शरदृतुः फलं द्रविणम् । सदसस्पतिमित्यनामिकाङ्गुष्ठाभ्यां यथोल्लिखिताभ्यो रेखाभ्यस्त्रिरुद्धरणम् । ॐ सदसम्पतिमद्भूतं प्रियमिन्द्रस्य काम्यम् । सनि मेधामयासिषᳮस्वाहा ॥

व्रतकृणुतेति वेद्यां सुवेणोद्धृतपांसूननामिकाङ्गुष्ठाभ्यामुद्धृत्य तानैशान्यां क्षिपेत् । व्व्रतं कृणुत व्व्रतं कृणुताग्निर्ब्रह्माग्निमर्यज्ञो व्वनस्पतिर्वज्ञियः । दैवीं धियं मनामहे सुमडीकामभिष्टये वर्चाेधां यज्ञवाहसᳮसुतीर्था नोऽअसद्वशे । ये देवा मनो जाता मनो युजो दक्षक्रतवस्ते नोऽवन्तु ते नः पान्तु तेभ्यः स्वाहा ।।

शन्नो देवीरित्यभ्युक्ष्ययेत् – ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिसूवन्तु नः ॥

इति पंचभूसंस्काराः ।

स्वस्तिवाचनम् ॐ स्वस्ति नो मिमीतामश्विना भगः स्वस्ति देव्यदितिरनर्वणः । स्वस्ति पूषाऽअसुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना ॥ स्वस्तये वायुमुपब्रवामहै सोमं स्वस्ति भुवनस्य यस्पतिः । बृहस्पतिᳮसर्वगणᳮस्वस्तये स्वस्तयऽआदित्यासो भवन्तु नः ॥ विश्वेदेवा नोऽअद्या स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये । देवाऽअभवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वᳮहसः ॥ स्वस्ति मित्राव्वरुणा स्वस्ति पथ्ये न रेवति । स्वस्ति नऽइन्द्रश्चाग्निश्च स्वस्ति नोऽअदिते कृधि ।। स्वस्ति पन्थामनुचरेम सूर्याचन्द्रमसाविव । पुनर्ददताघ्नता जानता सङ्गमेमहि ॥ स्वस्त्ययनं तार्क्ष्यमरिष्टनेमिं महद्भूतं वायसं देवतानाम् । असुरघ्नमिन्द्रसखं समत्सु बृहद्यशो नावमिवारुहेम ॥ अᳮहोमुचमाङ्गिरसं गयं च स्वस्त्यात्रेयं मनसा च तार्क्ष्यम् । प्रयतपाणिः शरणं प्रपद्ये स्वस्ति संबाधेष्वभयं नोऽअस्तु ।। ' ततः आशुः शिशानः ' इति समग्रं पठेत् । इति स्वस्तिवाचनमन्त्रान् पठन् रङ्गवल्ली रचयेत् ।

   

पूर्वादिक्रमेण अष्टदिक्षु मध्यभागे च पूजनम् -

पृथिव्याः सधस्थादिति पूर्वे - ॐ पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वदाभराग्निं पुरीष्यमशिरस्वदच्छेमोऽग्निं पुरीष्यमङ्गिरस्वद् भरिष्यामः ॥

अग्निश्चेति दक्षिणे ॐ अग्निश्च पृथिवी च सन्नते ते मे सन्नमतामदो वायुश्चान्तरिक्षञ्च सन्नते ते मे सत्रमतामदऽ आदित्यश्च द्यौश्च सन्नते ते मे सन्नमतामदऽआपश्च व्वरुणश्च सन्नते ते मे सन्नमतामदः सप्तसᳮसदोऽअष्टमी भूतसाधनी सकामाँ२ऽअध्वनस्कुरु संज्ञानमस्तु मेऽमुना ।।

वायो ये त इति पश्चिमे - ॐ वायो ये ते सहस्रिणो रथासस्तेभिरागहि । नियुत्वान्त्सोमपीतये ॥

सोमो धेनुमित्युत्तरे - ॐ सोमो धेनुसोमोऽअर्वन्तमाशुᳮसोमो व्वीरं कर्मण्यं ददाति । सादन्यं विदथ्यᳮसभेयं पितृश्रवणं यो ददाशदस्मै ।।

अग्निन्दूतमित्याग्नेये –

ॐ अग्निन्दूतं पुरोदधे हव्यवाहमुपबुवे । देवाँऽ आसादयादिह ।।

कया नश्चित्र इति नैऋत्याम् - ॐ कया नश्चित्रऽआभुवदूती सदावृधः सखा । कया शचिष्ठया व्वृता ॥

वायुरनिलमिति वायव्ये – ॐ व्वायुरनिलममृतमथेदं भस्मान्तᳮशरीरम् । ॐ क्रतो स्मर क्लीबे स्मर कृतᳮस्मर ॥

ईशावास्यमित्यैशान्याम् - ॐ ईशावास्यमिदᳮसर्वं यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ।

ततस्तिसृभिर्मध्ये पूजनं कुर्यात् - ॐ सूर्यरश्मिर्हरिकेशः पुरस्तात्सविता ज्योतिरुदयाँ२ऽअजस्रम् । तस्य पूषा प्रसवे याति विद्वान्त्संपश्यन् विश्वा भुवनानि गोपाः ॥ ॐ प्रजापते न त्वदेतान्यन्न्यो विश्वा रूपाणि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नोऽअस्तु व्वयᳮस्याम पतयो रयीणाम् ॥ ॐ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषᳮस्वाहा ॥

इन्धनशोधनं स्थापन च - कस्त्वा सत्य इतीन्धनं शोधयेत् ॐ कस्त्वा सत्यो मदानां मᳮहिष्ठो मत्सदन्धसः । दृढाचिदारुजे वसु ॥

त्वामिद्धीति दारुकं स्थापयेत् ' पञ्च त्रीणि तथा त्रीणि पुनः पञ्च विधानतः । दारुकं स्थापयित्वा च योनिमुपरि कारयेत् ' ॐ त्वामिद्धि हवामहे सातौ व्वाजस्य कारवः । त्वां व्वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥

अग्निसंस्कारः , स्थापनं च -

कांस्य पात्रे निहितं तेनैव पिहितं अग्नि स्थण्डिलादाग्नेयभागे निधाय क्रव्यादांशं ॐ क्रव्यादाय नमः , इति नैर्ऋत्यदिशि क्षिपेत् । स्थण्डिले अग्निं पश्चादानीय तत्र अग्नावग्निरित्यग्निं शोधयेत् -

ॐ अग्नावग्निश्चरति प्रविष्टऽऋषीणां पुत्रोऽअभि शस्तिपावा ।

स नः स्योनः सुयजा यजेह देवेभ्यो हव्यᳮसदमप्रयुच्छन्त्स्वाहा ।।

मयि गृह्णामीति मन्त्रेण कांस्यपात्रे निहितं कांस्यपात्रेण पिहितमग्निं गृह्णाति । ॐ मयि गृह्णाम्यग्ने अग्निᳮरायस्योषाय सुप्रजास्त्वाय सुवीर्य्याय । मामु देवताः सचन्ताम् ।।

गर्भो अस्योषधीनामिति गर्भाधानम् - ॐ गर्भोऽअस्योषधीनां गर्भो व्वनस्पतीनाम् । गर्भो व्विश्वस्य भूतस्याग्ने गर्भोऽअपामसि ।। इत्यस्याग्नेर्गर्भाधानं करोमि 

विवस्वन्नादित्य इति पुंसवनम् ॐ व्विवस्वन्नादित्यैष ते सोमपीथस्तस्मिन्मत्स्व । श्रदस्मै नरो व्वचसे दधातन यथाशीर्दा दम्पती वाममश्नुतः । पुमान् पुत्रो जायते विन्दते व्वस्वधा विश्वाहारपऽएधते गृहे ॥ इत्यस्याग्नेर्जातकर्म करोमि । ( अत्र पिहितकांस्यपात्रस्योद्घाटनम् ) यदा पिपेषेति नामकरणम् - ॐ यदा पिपेष मातरं पुत्रः प्रमुदितो धयन् । एतत्तदग्ने अनृणो भवाम्यहतौ पितरौ मया । सम्पृचस्थ सं मा भद्रेण पृङ्क्त विपृच स्थ व्वि मा पाप्मना पङ्क्त ॥ इत्यस्याग्नेर्नामकरणं करोमि ।

पूषा पञ्चाक्षरेणेति निष्कमणम् - ॐ पूषापञ्चाक्षरेण पञ्चदिशऽउदजयत्ताऽउज्जेषᳮसविता षडक्षरेण षडृतूनुदजत्तानुन्जेषं मरुत: सप्ताक्षरेण सप्तग्राम्यान्पशूनुदजयँस्तानुज्जेषं बृहस्पतिरष्टाक्षरेण गायत्रीमुदजयत्तामुज्जेषम् ॥ इत्यस्याग्नेनिष्कमणं करोमि ।

अन्नपतेन्नस्येति अन्नप्राशनम् - ॐ अन्नपतेन्नस्य नो देह्यनमीवस्य शुष्मिणः । प्रप्रदातारं तारिषऽऊर्जं नो धेहि द्विपदे चतुष्पदे ।। इत्यस्याग्नेरन्नप्राशनं करोमि ।अग्न आयाहीति चूडाकरणम् - ॐ अग्नऽआयाहि वीतये गृणानो हव्यदातये । निहोता सत्सि बर्हिषि ॥ इत्यस्याग्नेश्चूडाकरणं करोमि ।

भद्रं कर्णेभिरिति कर्णवेधः ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाᳩसस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥ इत्यस्याग्नेः कर्णवेधं करोमि ।

अग्निरेकाक्षरेणेति उपनयनम् - ॐ अग्निरेकाक्षरेण प्राणमुदजयत्तामुज्जेषमश्विनौ द्वयक्षरेण द्विपदो मनुष्यानुदजयत्तां नुज्जेषं विष्णुस्त्र्यक्षरेण त्रीँल्लोकानुदजयत्तानुज्जेषᳮसोमश्चतुरक्षरेण चतुष्पदः पशूनुदजयत्तानुज्जेषम् पूषापञ्चाक्षरेण ॥ इत्यस्याग्नेरुपनयनं करोमि ।

ततो व्याहृतिसहितां गायत्रीं श्रावयेत् - ॐ भूर्भुवः स्वः व्वैश्वानराय विद्महे सप्तजिह्वाय धीमहि । तन्नो ऽअग्निः प्रचोदयात् ॥ इत्यग्निं गायत्रीं श्रावयामि ।

व्रतं कृणुतेति समावर्तनम् - ॐ व्व्रतं कृणुत व्व्रतं कृणुताग्निब्रह्माग्निर्यज्ञो व्वनस्पतिर्यजियः । दैवीन्धियं मनामहे सुमृडीकामभिष्टये व्वर्चोधां यज्ञवाहसᳮसुतीर्थानोऽअसद्वशे । ये देवा मनोजाता मनो युजो दक्षक्रतवस्ते नोऽवन्तु ते नः पान्तु तेभ्यः स्वाहा ॥ इत्यस्याग्नेः समावर्तनं करोमि ।

गावऽउपावतेति गोदानकर्म ॐ गावऽउपावतावतं मही यज्ञस्य रप्सुदा । उमा कर्णा हिरण्यया ॥

इत्यस्याग्नेर्गोदानकर्म करोमि ।

भगऽएवेति विवाह –

ॐ भगऽएव भगवाँ२ऽअस्तु देवास्तेन व्वयं भगवन्तः स्याम । तन्त्वा भग सर्व्वऽइज्जोहवीति स नो भग पुरऽएता भवेह ॥ इत्यस्याग्नेविवाहं करोमि ।

तत ऋतावानमित्यादि कण्डिकात्रयं पठेत् –

ॐ ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् । अजस्रं घर्ममीमहे । उपयामगृहीतोऽ सि व्वैश्वानराय त्वैष ते योनिर्व्वैश्वानराय त्वा । ॐ व्वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभि श्रीः । इतो जातो व्विश्वमिदं व्विचष्टे व्वैश्वानरो यतते सूर्येण । उपयामगृहीतोऽसि व्वैश्वानराय त्वैष ते योनिर्व्वैश्वानराय त्वा ॥

ॐ वैश्वानरो नऽऊतयऽआप्रयातु परावतः । अग्निरुक्थेन वाहसा । उपयामगृहीतोऽसि वैश्वानराय त्वैष ते योनिर्व्वैश्वानराय त्वा ।। इति पठित्वा अग्निर्मूर्धेति मन्त्रेण कुण्डे स्वाभिमुखं वन्हिं प्रवेशयेत् ।

ॐ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्याऽअयम् । अपाᳩरेताᳩसि जिन्वति ॥ इति कुण्डे स्थण्डिले वा अग्नि स्थापयेत् ।

स्थिरो भवेति प्रज्वालयेत् - ॐ स्थिरो भव व्वीड्वङ्गऽआशुर्भव व्वाज्यर्वन् । पृथुर्भव सुषदस्त्वमग्नेः पुरीषवाहणः ॥ ततोऽग्नि प्रार्थयेदनेन मन्त्रेण -

ॐ आवाहये त्वां पुरुषं महान्तं सुरासुरैर्वन्दितपादपद्मम् । ब्रह्मादयो यस्य मुखे वसन्ति विशस्व (प्रविश्य) कुण्डे सुरलोकनाथ ।।

ततोग्नेर्दक्षिणतस्त्रिभिर्दभैर्ब्रह्मासनमास्तीर्य ' हिरण्यगर्भ इतिपञ्चाशद्भिः कुशैर्ब्रह्मपवित्रकरणम् ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकऽआसीत् । स दाधार पृथिवींद्यामुतेमां कस्मै देवाय हविषा विधेम ।।

आ ब्रह्मन्निति ब्रह्माणमग्निप्रदक्षिणं कारयित्वा " अस्मिन् कर्मणि त्वं मे ब्रह्मा भव " इत्युक्त्वा उदङ्मुखमुपवेशयेत् ॐ आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामाराष्ट्रे राजन्यः शूरऽइषव्योतिव्याधी महारथो जायतां दोग्ध्री  धेनुर्वोढानड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य व्वीरो जायतां निकामे निकामे नः पर्जन्यो व्वर्षतु फलवत्यो नऽ ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् ॥

यस्य कूर्म इति होतुरासनम् - ॐ यस्य कुर्मो गृहे हविस्तमग्ने वर्धया त्वम् । तस्मै देवाऽअधिब्रुवन्नयञ्च ब्रह्मणस्पतिः ॥

अग्ने प्रेहीति अग्नेरुत्तरतो यजमानासनम् –

ॐ अग्ने प्रेहि प्रथमो देवयताञ्चक्षुर्देवानामुत मर्त्यानाम् । इयक्षमाणा भृगुभिः सजोषाः स्वर्यन्तु यजमानाः स्वस्ति ।

परीत्य भूतानीति अग्नेरुत्तरतो वायव्ये च प्रणीतार्थे आसनद्वयं कल्पयित्वा प्रणीताग्न्योर्मध्ये प्रोक्षण्यासनं च निदध्यात्-

ॐ परीत्य भूतानि परीत्य लोकान्परीत्य सर्वाः प्रदिशो दिशश्च । उपस्थाय प्रथमजामृतस्यात्मनात्मानमभिसंविवेश ॥

तत इन्द्र आसामिति वारणं ( तच्च दण्डेनसह द्वादशाङ्गुलदीर्घं चतुरङ्गुलविस्तारंचतुरङ्गुलखातं ) प्रणीतापात्रं वामहस्तेनादाय । ॐ इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुरऽएतु सोमः । देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् ॥

उदुत्तममिति दक्षिणहस्तेनोदकं संपूर्य वायव्यासने विधाय दक्षिणानामिकयाऽऽलभ्य कुशैराच्छाद्य ब्रह्मणो मुखमवलोक्य प्रणीतापात्रं प्रणीतासने निदध्यात् । ॐ उदुत्तमं व्वरुण पाशमस्मदवाधमं व्विमध्यमᳮश्रथाय । अथा व्वयमादित्य व्व्रते तवानागसोऽअदितये स्याम ॥

ततो ये ते शतमिति बर्हिर्मुष्टिमादाय ' ईशानादिप्रागग्रैवर्हिर्भिरुदक्संस्थमग्नेः परिस्तरणं कुर्यात् ॐ ये ते शतं व्वरुणं ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभिर्नोऽअद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा ॥

( ६ ) पात्रासादनम् तत्वा यामीति मन्त्रं पठित्वा यावद्भिः पदार्थैः प्रयोजनं भवति तावतः पदार्थान् द्वन्द्वशः प्राक्संस्थानुदगग्रानग्नेरुत्तरतः पश्चाद्वाऽऽसादयेत् । ॐ तत्त्वा यामि ब्रह्मणा व्वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशᳮस मा नऽआयुः प्रमोषीः ॥

त्र्यम्बकमिति पवित्रच्छेदनार्थानि प्रादेशपरिमितानि कुशतरुणानि दृढानि स्थापयेत् । ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिवबन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ ॐ पवित्रस्थो वैष्णव्यौ सवितुर्वः प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । देवीरापोऽअग्रेगुवोऽअग्रेपुवोग्रऽइममद्य यज्ञं नयताग्रे यज्ञपतिᳮसुधातुं यज्ञपतिं देवयुवम् ॥

इमं मे वरुण इति वारणं द्वादशाङ्गुलदीर्घं करतलसम्मितखातं पद्मपत्राकृति कमलमुकुलाकृति वा प्रोक्षणीपात्रम् ( न्युब्जम् ) - ॐ इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके ॥

घृतवतीति तैजसी मृन्मयी वा द्वादशाङ्गुलविस्तृता प्रादेशोच्चा आज्यस्थाली न्युजम् - ॐ घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुधे सुपेशसा । द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥

अन्नपतेन्नस्येति तादृश्येव चरुस्थाली न्युजम् - ॐ अन्नपतेऽन्नस्य नो देह्यनमीवस्य शुष्मिणः । प्रप्रदातारं तारिषऽऊर्जं नो धेहि द्विपदे चतुष्पदे ॥

ततः शादन्दद्भिरिति सम्मार्जनकुशास्त्रिप्रभृतयः ॐ शादन्दद्भिरवकान्दन्तमूलैर्मृदं व्वर्स्वैस्तेगान्दᳮष्ट्राभ्याᳩसरस्वत्याऽअग्रजिव्हं जिव्हायाऽउत्सादमवक्रन्देन तालु वाजᳮहनुभ्यामपऽआस्येन व्वृषणमाण्डाभ्यामादित्याँ२ऽ ॥ श्मश्रुभिः पन्थानं भ्रूभ्यां द्यावापृथिवी व्वर्तोभ्यां विद्युतङ्कनीनकाभ्या ᳩशुक्लाय स्वाहा कृष्णाय स्वाहा पार्याणि पक्ष्माण्यवार्याऽइक्षवोऽवार्याणि पक्ष्माणि पार्याऽइक्षवः ।

उपयामगृहीतोऽसीति उपयमनकुशाँस्त्रयोदश - ॐ उपयामगृहीतोऽस्यन्तर्यच्छ मघवन् पाही सोमम् । उरूष्य रायऽ एषो यजस्व॥

समिधाग्निमिति समिधस्तिस्र: पालाश्यः प्रादेशमात्र्यः पृथक् स्थापयेत् - ॐ समिधाग्निन्दुवस्यत घृतैर्बोधयतातिथिम् । आस्मिन्हव्या जुहोतन ॥

स्रुवः खादिरो हस्तमात्रोऽङ्गुष्ठपर्वमात्रखातः परिणाहवर्तुलपुष्करः ( न्युजः ) । गव्यम् आज्यम् । चरूश्चेत् त्रिप्रक्षालिता ब्रीहितण्डुलाः । पूर्णपात्रम्- ( षट् पञ्चाशदधिकशतद्वयमुष्टिपरिमितं ( २५६ ) परार्घ्यम् , बहुभोक्तृपुरुष आहारपर्यन्तमपराध्य तण्डुलाद्यन्नम् । ) अन्यानि चोपयुक्तानि वस्तून्यासाद्य - तत आसादिते द्वे कुशतरुणे गृहीत्वा अग्रतः प्रादेशमात्रं परिमाय तयोरुपरि आसासादितानि त्रीणि कुशतरुणानि तिर्यङ् निधाय पवित्रमूलेन पवित्रे प्रदक्षिणक्रमेणावेष्ट्य त्रयाणां मूलाग्राणि द्वयोर्मूलं च दक्षिणहस्तेन , पवित्रे च वामहस्तेन गृहीत्वा " पवित्रे स्थः ' इति मन्त्रेण प्रच्छिद्य द्वयोर्मूलं त्रीणि चोत्तरतः क्षिपेत् । देवस्य त्वेति द्वे पवित्रे प्रणीतापात्रे निधाय ।

ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । अग्नये जुष्टं गृह्णाम्यग्नीषोमाभ्यां जुष्टं गृह्णामि ॥

ततः प्रोक्षणीपात्रं प्रणीतासन्निधौ निधाय तत्र पात्रान्तरेण हस्तेन वा प्रणीतोदकमासिच्य पवित्राभ्यामुत्पूय पवित्रे प्रोक्षणीषु निधाय दक्षिणहस्तेन प्रोक्षणीपात्रमुत्थाप्य सव्ये कृत्वा तदुदकं दक्षिणहस्तानामिकाङ्गुष्ठाभ्यां त्रिरूर्ध्वं क्षिप्त्वा प्रणीतोदकेन प्रोक्षणीभिरद्भिरासादनक्रमेणैकैकशः प्रोक्ष्य असञ्चरे ( प्रणीताग्न्योरन्तराले ) प्रोक्षणीपात्रं निदध्यात् । ततो घृताच्यसीति आज्यस्थाल्यामासादितमाज्यं चरूँश्च प्रणीतोदकमासिच्य चरुस्थाल्यांनिदध्यात् ।

ॐ घृताच्यसि जुहूर्नाम्ना सेदं प्रियेण धाम्ना प्रियᳮ सदऽ आसीद घृताच्यस्युपभृन्नाम्ना सेदं प्रियेण धाम्ना प्रियᳮसदऽ आसीद घृताच्यसि ध्रुवानाम्ना सेदं प्रियेण धाम्ना प्रियᳮ सदऽआसीय । ध्रुवाऽ असदन्तृतस्य योनौ ता व्विष्णो पाहि यज्ञं पाहि मां यज्ञन्यम् ॥

ततो ब्रह्मा आज्यं चरुं च युगपदग्नावारोप्य ब्रह्माभावे स्वयं यजमानो वा ज्वलदुल्मकमादाय ( धृष्टिरसीति ) मन्त्रेणाऽऽज्यचर्वोः समन्ताद्भ्रामयित्वा अग्नौ क्षिपेत् । ॐधृष्टिरस्यपाग्नेऽ अग्निमामादं जहि निष्क्रव्यादᳮ सेधा देवयजं वह । ध्रुवमसि पृथिवीन्दृᳮ ह बह्मवनि त्वा क्षत्रवनि संजातवन्युपदधामि भ्रातृव्यस्य व्वधाय ॥

( ७) स्रुवसंस्कार : -सुचश्चम इति सुवग्रहणम् -

ॐ स्रुवचश्चमे चमसाश्चमे व्वायव्यानि चमे द्रोणकलशश्चमे ग्रावाणश्चमे धिषवणे चमे पूतभृच्च म आधवनीयश्चमे व्वेदिश्चमे ब्बर्हिश्चमेवभृथश्चमे स्वगाकारश्चमे यज्ञेन कल्पन्ताम् ॥ इति दक्षिणहस्तेनऋणु सुवमादाय 

पुनन्तु मेति, पूर्वाग्रमधोबिलमग्नौ तापयेत् 

पुनन्तु मा देवजना: पुनन्तु मनसा धियः । पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा ॥

ततो वामे पाणावुत्तानबिलं निधाय ' प्रत्युष्टᳮ रक्ष ' इति दक्षिणहस्तेन संमार्जनकुशैः प्रणीतोदकेन स्रुवप्रोक्षणं कुर्यात् ॐ प्रत्युष्टᳮरक्षः प्रत्युष्टाऽअरातयो निष्टप्तᳮ रक्षो निष्टप्ताऽ अरातयः उर्व्वन्तरिक्षमन्वेमि ॥

तत अनिशितोसीति दक्षिणहस्तधृतमध्यसम्मार्जनकुशानामग्रैर्मूलतोऽग्रपर्यन्तं मूलैरग्रमारभ्य अधस्तान्मूलपर्यन्तं, समृज्य ॐ अनिशितोसि सपत्नक्षिद्वाजिनं त्वा वाजेध्यायै सम्मार्ज्मि ॥

पुनन्तु मेति पुनः स्रुवं प्रतप्य - ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः । पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा ॥

शन्नो देवीरिति प्रणीतोदकेनाभिषिच्य ॐ शन्नो देवीरभिष्टयऽआपो भवन्तु पीतये । शंयोरभि स्रवन्तु नः ॥

तत्त्वा यामिति पुनः स्रुवं प्रतप्य - ॐ तत्त्वा यामि ब्ब्रह्मणा व्वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो व्वरुणेहबोध्युरुशᳮ समानऽआयुः प्रमोषीः ॥

तमुत्वेति स्रुवमुदङ्मुखमात्मनो दक्षिणतो कुशोपरि निदध्यात्तमु त्वा दध्यङ् ऋषिः पुत्रऽईधेऽअथर्वणः वृत्रहणं पुरन्दरम् ॥ तेजोऽसीति आज्यमुत्थाप्य चरोः पूर्वेण नीत्वा आज्यस्योत्तरतः स्थापयित्वा आज्यमग्नेः पञ्चादानीय स्थापयेत्। ॐ तेजोऽ सि शुक्रमस्यमृतमसि धामनामासि प्रियं देवानामनाधृष्टन्देवयजनमसि ।

तथैव चरुं चानीय पशुभिरित्यग्नेः प्रदक्षिणं कारयित्वा आज्यस्योत्तरतः स्थापयेत्।  ॐ पशुभिः पशूनाप्नोति पुरोडाशैर्हवीᳩष्या । छन्दोभिः सामिधेनीर्याज्याभिर्वषट्कारान् ॥

आपवस्वेत्याज्यावेक्षणम् - ॐ आपवस्व हिरण्यवदश्ववत्सोम वीरवत् । वाजं गोमन्तमा भर स्वाहा

प्रत्युष्ट रक्ष इति पूर्वपवित्राभ्यामाज्येन त्रिरुत्पवनम् ॐ प्रत्युष्टᳮ रक्षः प्रत्युष्टाऽ अरातयो निष्टप्तᳮरक्षो निष्टप्ताऽ अरातयः । उर्वन्तरिक्षमन्वेमि ॥

आ त्वा हार्षमिति अपद्व्यनिरीक्षणम्ॐ आ त्वाऽऽहार्षमन्तरमूर्ध्रुवस्तिष्ठाविचाचलिः । व्विशस्त्वा सर्वा वान्छन्तु मा त्वद्राष्ट्रमधिभ्रसत् ।

विष्णो रराटमिति द्वे पवित्रे आज्ये चरौ च निधाय ॐ व्विष्णो रराटमसि व्विष्णोः नप्त्रेस्थो विष्णोःस्यूरसि व्विष्णोध्रुवोसि । व्वैष्णवमसि व्विष्णवे त्वा ॥

देवस्य त्वेति प्रोक्षणीपात्रस्थपवित्राभ्यां पूर्ववत् प्रोक्षणीमुत्पूय तेनासादितवस्तुसेचनम्ॐ देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । अग्नीषोमाभ्यान्त्वा जुष्टं नियुनज्मि । अद्भ्यस्त्वौषधीभ्योऽनु त्वा माता मन्यतामनु पितानु भ्राता सगर्भ्योऽनु सखा सयूथ्यः । अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि ॥

धृष्टिरसीति ज्वलदुल्मुकमाज्यचर्वोरुपरि समन्तात् प्रदक्षिणक्रमेण भ्रामयित्वा अग्नौ क्षिपेत् - ॐ घृष्टिरस्यपाग्नेऽ अग्निमामादं जहि निष्क्रव्यादᳮ सेधा देवयजं वह । ध्रुवमसि पृथिवीन्दृᳮह ब्ब्रह्मवनि त्वा क्षत्रवनि सजातवन्युपदधामि भ्रातृव्यस्य व्वधाय ॥

ब्रह्माविष्णुप्रजापतीनां पूजनम् - तत्रादौ अर्ध संस्थाप्य आब्रह्मन् इति ब्रह्मार्चनं कुर्यात् ओं आब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामाराष्ट्रे राजन्यः शूरः इषव्योतिव्याधी महारथो जायतां दोग्ध्री धेनुर्वोढानड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य व्वीरो जायतां निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो नऽओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् ॥

इदं विष्णुरिति विष्ण्वर्चनम् - ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पाᳩसुरे स्वाहा ॥

प्रजापतेनेति प्रजापतिपूजनम्  ॐ  प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परिता बभूव । यत्कामास्ते जुहुमस्तन्नोऽअस्तु व्वयᳮस्याम पतयो रयीणाम् ॥

हिरण्यगर्भ इति हिरण्यं निधाय ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकऽआसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ अग्निपूजनम् - तदेवाग्निरित्यग्निमर्चयेत् - ॐ तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः । तदेव शुक्रं तद्ब्रह्म ताऽआपः स प्रजापतिः ॥ ततः पूर्वस्थापितसमिधस्तिस्रो विहाय अपरसमिदाधानम् ॐ समिधाग्निन्दुवस्यत घृतैर्बोधयतातिथिम् । आस्मिन्हव्या जुहोतन ।

ततः अग्नावेव पूर्वादिप्रदक्षिणक्रमेण ऋग्वेदादींश्च पूजयेत् ।

तत्र पूर्वे - ॐ अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधतमम् । ॐ ऋग्वेदाय नमः ।

दक्षिणे ॐ इषे त्वोर्जे त्वा व्वायवस्थ देवो वः सविता प्पार्पयतु श्रेष्ठतमाय कर्मणऽआप्यायध्वमघ्न्याऽइन्द्राय भागं प्रजावतीरनमीवाऽअयक्ष्मामावस्तेनऽईशत माघशᳮ सोध्रुवाऽअस्मिन् गोपतौ स्या त बह्वीर्यजमानस्य पशून्पाहि ॥  ॐ यजुर्वेदाय नमः ।

पश्चिमे ॐ अग्नऽआयाहि व्वीतये गृणानो हव्यदातये । निहोता सत्सि बर्हिषि ॥ ॐ सामवेदाय नमः ।

उत्तरे ॐ शन्नो देवीरभिष्टयऽआपो भवन्तु पीतये । शंयोरभिस्रवन्तु नः || ॐ अथर्ववेदाय नमः ।

आप्यायस्वेति चरुं ब्रह्मणे समर्पयेत् ॐ आप्यायस्व समेतु ते विश्वतः सोमव्वृष्ण्यम् । भवा व्वाजस्य सङ्गथे ॥

ततोऽग्निप्रार्थनम् ॐ नमो यज्ञपुरुष वैश्वानर परमात्मादेवता ब्रह्मा ऋषिः कपिलवर्ण उष्णिक् छन्दो रुद्रो देवता होमे विनियोगः ।

नारद उवाच ॐ प्राङ्मुखस्तु स्थितो वह्निः प्राङ्मुखा एव ऋत्विजः । प्राङ्मुखा देवताः सर्वाः कथं प्रत्यङ्मुखो भवेत् ॥

ब्रह्मोवाच  आवाहयेत्ततो वह्निं मन्त्रपूतेन वारिणा । अनलश्च जलं दृष्ट्वा भीतः प्रत्यङ्मुखो भवेत् ॥

नारद उवाच - पावकस्य तु किं रूपं को वर्णः किञ्च लक्षणम् । शिरोवाहूदराङ्घ्रीणां चक्षुः श्रोत्रमुखस्य च ॥

ब्रह्मोवाच पावकं द्विजरूपं च त्रिनेत्रं च चतुर्भुजम् । त्रिशिखं सप्तजिह्वं च पञ्चलक्षणसंयुतम् ॥ त्रिभागं तु मुखं तस्य अधिकं वक्त्रमुच्यते । उत्तरास्ये स्थितो विष्णुर्दक्षिणास्ये प्रजापतिः ॥ मध्यवक्त्रे तु ईशान एवं ब्रह्मप्रभाषितम् । मूर्ध्नि चैव त्वहं ब्रह्मा मुखे चैव तु शङ्करः ॥ जिह्वायां संस्थितो विष्णुर्दंष्ट्रायां च ग्रहाः स्मृताः । नासायां देवताः सर्वाश्चक्षुषीन्दुदिवाकरौ ।। ऋग्वेदो हृदयस्थाने बागुल्योर्यजुस्तथा । उदरे कटिगुह्येच सामवेदः प्रकीर्तितः ॥ अथर्वा जङ्घपादौ च ग्रीवौङ्कारस्तथैव च । पृष्ठे चैव तु गायत्री एवं स्यात्तु षडङ्गकम् ॥ हरकमल पिङ्गललोचन लोहिताक्षः सर्वपापप्रणाशन । इति वैश्वानरलक्षणम् ।

कस्य पुत्र, कस्य कुलोत्पन्नः, किं गोत्रम्, कः पिता, का माता इति कात्यायनवचनात्, शृङ्गीगोत्रम्, शण्डिल्यः पिता, अरणिर्माता, उदानकुक्षिमूर्ध्वमुखंललाटम् ।

काली कराली च मनोजवा च सलोहिता चैव सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वधरा च चण्डी लोलायमाना इति सप्तजिह्वाः ॥

त्रिशिखं च चक्रधरं साक्षसूत्रकमण्डलुम् । व्याघ्रहस्तं दिव्यपुष्पगन्धाभरणभूषितम् । अजास्कन्धसमारूढं कृष्णाजिनोत्तरीयकम् । ऋग्यजुः सामाथर्वाख्यवेदानां ध्वनिभूषितम् । होमार्थ प्रार्थयेऽहं त्वां चर्वाज्याभ्यां हुताशन । ( अमुककर्मणि) अमुकनामन् दिव्यरूप आवाहितो भव |

तावत्तिष्ठात्र में ब्रह्मन् यावत्कर्म समाप्यते ॥ ॐ चत्वारीति वैश्वानरमन्त्रस्य वामदेवऋषिस्त्रिष्टुप्छन्दो वैश्वानरो देवता अग्निप्रार्थने विनियोगः द्वे शीर्षे चत्वारि शृङ्गा त्रयोऽअस्य पादा सप्तहस्तासोऽअस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यो २॥ आविवेश । इति अग्निप्रार्थनम् ।

ततो गन्धपुष्यादिभिरन्नि पूजयेत् - १. आग्नेये - ॐ ब्रह्मणे नमः । २. नैर्ऋत्यै  - ॐ पौष्टिकाय नमः । ३. वायव्ये - ॐ बलवर्धनाय नमः । ४. ऐशान्ये - ॐ प्रजापतये नमः । ५. मध्ये - ॐ विष्णवे नमः ।

कर्मविशेषे अग्नेर्नामानि वायवीयसहितायाम् -

लौकिके पावको ह्यग्निः प्रथमः परिकीर्तितः । अग्निश्च अग्निश्च भरतो नाम गर्भाधाने विधीयते ॥ तथा पुंसवने चैव शुभे कर्मणि शोभनः । सीमन्ते मङ्गलोनाम प्रगल्भो जातकर्मणि ॥ नाम्नि वै पार्थिवो बह्निः प्राशने तु शुचिः स्मृतः । सभ्यनामाथ चूडायां व्रतदाने समुद्भवः ।। वेदारम्भे हरिर्नाम राजपुत्रः समावृते । गोदाने सूर्यनामा च केशान्ते ह्यग्निरुच्यते । वैश्वानरो विसर्गे तु विवाहे योजकस्तथा । चतुर्थीकर्मणि शिखी धृतिरग्निस्तु सामनि ॥ लक्षहोमे बह्निनाम कोटिहोमे हुताशनः। प्रायश्चित्ते विधिर्नाम पाकयज्ञे तु साहस : पूर्णाहुत्यां मृडो नाम शान्तिके दारुणस्तथा । पौष्टिके वैश्वानरो बलदश्चैव क्रोधाग्निश्चाभिचारिके ।। वश्यर्थे कामदो नाम वनदाहे तु वर्धनः । आवसथ्ये भवेदग्निर्होमे तु सम्प्रदायकः ॥ क्रव्यादो मृतभक्षी च समुद्रे वडवानलः । युगान्ते संक्षयो नाम संवर्तः प्रलये स्मृतः ।। ॥ इति ॥

तथा ग्रन्थान्तरे अग्निश्च भरतो नाम गर्भाधाने विधीयते । तथा पुंसवने चैव सीमन्ते जातकर्मणि ॥ नाम्नि वै पार्थिवो वह्निः प्राशने शुचिः स्मृतः। चूडायां मङ्गलो नाम ब्रतदाने समुद्भवः सूर्यनामा च विवाहे गोदाने योजकस्तथा । शान्तिके दारुणो नाम पौष्टिके बलवर्धनः ॥ आवसथ्ये भवेदग्निरग्निष्टोमे प्रदायकः । वनदाहे दूतकाख्यः प्रकोष्ठे जठरः स्मृतः ।। वायव्ये वरुणो नाम स्थावरे पावको भवेत् ॥ क्रव्यादो मृतदाहे च समुद्रे वडवानलः ॥ ' युगान्ते चाक्षयो नाम वत्सरे प्रलयं गतः ॥ ॥ इति ॥ ॥ वाचस्पतौ ॥ लौकिके पावको हुनः प्रथमः परिकीर्तितः । अगनिस्तु मारुतो नाम गर्भाधाने प्रकीर्तितः ॥ पुंसवे चमसो नाम शोभनः शुभकर्मसु । सीमन्ते ह्युनलो नाम प्रगल्भो जातकर्मणि ॥ पार्थिवो नामकरणे प्राशनेऽनस्य वै शुचिः । सभ्यनामा तु चूडाया व्रतादेशे समुद्धवः ।। गोदाने सूर्यनामा स्यात् केशान्ते याज्ञिकः स्मृतः । वैश्वानरो विसर्गे स्थात् विवाहे बलदः स्मृतः ॥ चतुर्थीकर्मणि शिखी धृतिरग्निस्तथापरे । आवसथ्यस्तथाधाने वैश्वदेवे तु पावकः ॥ ब्रह्माग्निर्गाहिपत्ये स्याद् दक्षिणागनिरथेश्वरः । विष्णुराहवनीये स्यादग्निहोत्रे त्रयो मताः ॥ लक्षहोमेऽभीष्टदः स्यात्कोटिहोमे महाशनः । एके घृतार्चिषं प्राहुरग्नध्यानपरायणाः ॥ रूद्रादी तु मृड़ो नाम शान्तिके शुभकृत्तथा । (आदिशब्दाल्लथुरुद्रशतरुद्रातिरुद्रा लक्ष्यन्ते ) पौष्िके बरदश्रेव क्रोधाग्निश्षाभिचारिके । वश्यार्थे वशकृत्रोक्तो वनदाहे तु पोषकः ॥ उदरे जठरो नाम क्रव्यादः शवभक्षके। समुद्र वाडवो ह्यग्निर्लये संवर्तकस्तथा ॥ सप्तविशतिसंख्याता अग्नयः कर्मसु स्मृताः ॥

॥ इति ॥

अथ ब्राह्मणवरणम् 

तत्रादौ कुश तिलजलयुतगन्धपुष्पा क्षतताम्बूलपूगीफलवत्रद्रव्याभरणादीन्यादाय हरि ॐ तत्सत् विष्णु ३ इत्यादिदेशकालादीन् सङ्कीर्त्य ( अमुक) गोत्र : (अमुक) प्रवरः (अमुक) शर्माहं मम (अमुक) कर्मणि कृताकृतावेक्षणादिरूपब्रह्मकर्मकर्तु तथा च (अमुक) कर्मणि प्रतिदेवतानां मुखे साज्यभागान्तमाहवनीयद्रव्य- युतहोमकर्मकर्तुं तथा च (अमुक) कर्मणि तत्तत्कर्म विहितोपयोग्याचारकर्मकर्तु तथा च (अमुक) कर्मणि चतुर्वेदोक्तमन्त्रजपपाठकर्मकर्तुं नानानामगोत्रान् नानानामशर्मणो ब्राह्मणान्  एभिश्चन्दनपुष्पाक्षतताम्बूलपूगीफलवासोद्रव्याभरणादिभिर्गणपति- ब्रह्माहोत्राचार्यत्वेन जापकपाठकत्वेन ऋत्विक्त्वेन च युष्मानहं वृणे  । ॐ वृताः स्म इति ब्राह्मणा ब्रूयुः ।

अथ ब्रह्मादि ऋत्विक्  प्रार्थना । ॐ यथा चतुर्मुखो ब्रह्मा सर्ववेदविशारदः । तथा त्वं मम यज्ञेऽस्मिन् ब्रह्मा भव द्विजोत्तम ॥ होतृप्रार्थना ॐ भगवन् सर्वधर्मज्ञ सर्वधर्मविदांवर । वितते मम यज्ञेऽस्मिन् होतृत्वं मे मखे कुरु ॥ आचार्य प्रार्थना ॐ आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः । तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत ॥ वेदपाठकानां प्रार्थना पूर्वदिशि ऋग्वेदपारायणार्थम् ॐ ऋग्वेदः पद्म पत्राक्षः गायत्रः सोमदैवतः । अत्रिगोत्रस्तु विप्रेन्द्र ऋत्विक्त्वं मे मखे भव ॥ दक्षिणदिशि यजुर्वेदपारायणार्थम् ॐ कातराक्षो यजुर्वेदस्त्रैष्टुभो विष्णुदैवतः । काश्यपेयस्तु विप्रेन्द्र ऋत्विक्त्वं मे मखे भव ॥ पश्चिमदिशि सामवेदपारायणार्थम् ॐ सामवेदस्तु पिङ्गाक्षो जागतः शक्रदैवतः । भारद्वाजस्तु विप्रेन्द्र ऋत्विषत्वं मे मखे भव ॥ उत्तरदिशि अथर्ववेदपारायणार्थम् ॐ बृहत्त्रोऽथर्ववेदोऽनुष्टुभो रुद्रदैवतः । वैशम्पायन विप्रेन्द्र ऋत्विक्त्वं मे मखे भव ॥ अमुक कर्मणि अमुक देवताया अमुकमन्त्रजपकर्मकर्तु त्वामहं वृणे इति जापकांश्च वृणुयात् । ततो ब्राह्मणान् मधुपर्कादिना संपूज्य प्रार्थयेत् ॐ ब्राह्मणाः सन्तु मे शस्ताः पापात्पान्तु समाहिताः । देवानां च पितॄणां च तृप्त्यर्थ पाठकाः कृताः ॥ येषां देहे स्थिता वेदाः पावयन्ति जगत्त्रयम् । रक्षन्तु सततं तेऽस्मान् जपयज्ञे व्यवस्थिताः ॥ ब्राह्मणा जङ्गमं तीर्थं त्रिषु लोकेषु विश्रुतम् । येषां वाक्यामृतेनैव शुद्धयन्ति मलिनो जनाः वेदानां चैव दातारः पातारः सर्वदेहिनाम् ॥ जपयज्ञैस्तथा होमैर्दानैश्च विविधैः पुनः । ॐ पावनाः सर्ववर्णानां ब्राह्मणा ब्रह्मरूपिणः । सर्वकर्मरता नित्यं वेदशास्त्रार्थकोविदाः ॥ श्रोत्रियाः सत्यवाचश्च वेदध्यानरताः सदा । यद्वाक्यामृतसंसिक्ता ऋद्धिं यान्ति नरद्रुमाः ॥ अङ्गीकुर्वन्तु कर्मेतत् कल्पद्रुमसमाशिषः। यथोक्तनियमैर्युक्ता मन्त्रार्थे स्थिरबुद्धयः ॥ यत्कृपालोचनात्सर्वा ऋद्धयो वृद्धिमाप्नुयुः । मम यज्ञे सदा पूज्याः सन्तु वै नियमान्विताः । अक्रोधनाः शौचपराः सततं ब्रह्मवादिनः । जपध्यानरता नित्यं प्रसन्नमनसः सदा ॥ अदुष्टभाषिणः सन्तु मा सन्तु परनिन्दकाः। ममापि नियमा हयेते भवन्तु भवतामपि ॥ इति ब्राह्मणप्रार्थनायां विशेषवाक्यानि ।  अथ पुण्याहवाचनम् गन्धपुष्पाक्षतताम्बूलपूगीफलद्रव्य वस्त्रादिभिस्त्रींश्चतुरः पञ्च वा ब्राह्मणान् सम्पूज्य हस्ते फलादिकं गृहीत्वा ॐ तत्सत् विष्णुरित्यादि देशकालौ स्मृत्वा अद्येहामुकगोत्रस्यामुकशर्मणो मम गृहेऽमुककर्मणि भो ब्राह्मणाः ॐ पुण्याहं भवन्तो ब्रुवन्तु इति त्रिः। श्रावयेत् । ते च ॐ पुण्याहम् । इति त्रिः प्रतिवचनं ब्रूयुः । ॐ पुनन्तु मा देवजनाः, पुनन्तु मनसा धियः पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा ॥  पुनः पूर्ववत् ॐ अथेहेत्याद्युच्चार्य भो ब्रह्मणाः ॐ स्वस्ति भवन्तो ब्रुवन्तु इति त्रिः श्रावयेत् । ॐ स्वस्तिः । इति त्रिः प्रतिवचनम् । ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्द्दधातु ॥ पुनः पूर्ववत् ॐ अद्येहेत्यादि उच्चार्य भो ब्रह्मणाः ॐ ऋद्धि भवन्तो ब्रुवन्तु इति त्रिः ॐ ऋद्धिः इति त्रिः प्रतिवचनम् । ॐ सत्त्रस्य ऋद्धिरस्यगन्म ज्योतिरमृताऽअभूम । दिवं पृथिव्या अध्यारुहामाविदाम देवान्त्स्वर्ज्योतिः ॥ पुनः पूर्ववत् ॐ अद्येहेत्याद्युच्चार्य - भो ब्रह्मणाः ॐ वृद्धि भवन्तो ब्रुवन्तु इति त्रिः । ॐ वृद्धिः । इति त्रिः प्रतिवचनम् । ॐ ज्यैष्ठ्यञ्च मऽआधिपत्यञ्च मे मन्युश्च मे भामश्च मेमश्च मेम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्षिमा च मे द्राघिमा च मे वृद्धञ्च मे वृद्धिश्च मे यज्ञेन 'कल्पन्ताम् ॥ पुनः पूर्ववत् ॐ अद्यहेत्याद्युच्चार्य भो ब्राह्मणाः ॐ कल्याणं भवन्तो ब्रुवन्तु । इति त्रिः । ॐ कल्याणम् । इति त्रिः प्रतिवचनम् । ॐ यथेमां वाचं कल्याणीमावदानि जनेभ्यः  । ब्रह्मराज न्याभ्या शूद्राय चार्याय च स्वाच चारणाय च । प्रियो देवानां दक्षिणायै दातुरिह भूयासमयं मे कामः समृद्धियतामुपमादो नमतु ॥ पुनः पूर्ववत् अहत्याद्युच्चार्य भो ब्राह्मणाः शान्ति भवन्तो ब्रुवन्तु । इति त्रिः ॐ शान्तिः । इति त्रिः प्रतिवचनम् । ॐ द्यौः शान्तिरन्तरिक्ष शान्तिः पृथिवी शान्तिराप शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिविश्वेदेवा शान्तिर्ब्रह्म शान्ति सर्व शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥ पुनः पूर्ववत् अथेहेत्याद्युच्चार्य भो ब्रह्मणाः श्रियं भवन्तो ब्रुवन्तु । इति त्रिः । श्रीः । इति त्रिः प्रतिवचनम् । ॐ मनसः काममाकूतिं वाचः सत्यमशीय । पशूनां रूपमन्नस्य रसो यशः श्रीः श्रयताम् ॥ इति पुण्याहवाचनम् । अथ दीपपूजा तत्र स्थिरो भवेति दीप प्रज्वालयेत् ॐ स्थिरो भव वीड्वङ्गऽश्राशुर्भव वाज्यर्वन् । पृथुर्भव सुखदस्त्वमग्नेः पुरीषवाहणः ॥ पृष्टो दिवीति पूजनम् ॐ पृष्टो दिवि पृष्टोऽअग्निः पृथिव्यां पृष्टो विश्वाsओषधीराविवेश ॥ वैश्वानरः सहसा पृष्टोऽअग्निः स नो दिवा सरिषस्पातु नक्तम् ॥ इति पाद्यादिभिरुपचारैः सम्पूज्य प्रार्थयेत् ॐ शुभं भवतु कल्याणमारोग्यं सुखसम्पदः ॥ सर्वशत्रुविनाशाय दीपज्योतिर्नमोऽस्तु ते । इति  अथ कलशपूजा तत्र वेद्या ईशानदिग्भागे अग्रण दध्यक्षतादिभूषितं कलशं धान्योपरि स्थापयित्वा पूजयेत् । तत्प्रकारश्च यथा भूरसीति भूमिशोधनम् ॐ भूरसि भूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्ती । पृथिवीं यच्छ पृथिवीं दृढ ह पृथिवीं मा हि सीः । धान्यमसीति धान्यं स्थापयेत् ॐ धान्यमसि धिनुहि देवान् प्राणाय त्वोदानाय त्वा व्यानाय त्वा । दीर्घामनु प्रसितिमायुषे धां देवो वः सविता हिरण्यपाणिः प्रतिगृभ्णात्वच्छिद्रेण पाणिना चक्षुषे त्वा महीनां पयोसि ॥ वैश्वानरः सहसा पृष्टोऽअग्निः स नो दिवा सरिषस्पातु नक्तम् ॥ आ जिघ्रकलशमिति धान्योपरि अब्रण' कलशं स्थापयेत् आ जिघू कलशं महया त्वा विशन्त्विन्दवः । पुनरुर्जा निवर्तस्व सा नः सहस्र धुक्ष्वोरुधारा पयस्वती पुनर्मा विशताद्रयिः ॥ वरुणस्योत्तम्भनमसीति कलशे तीर्थादिजलं प्रक्षिपेत् ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनी स्थो वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्यs ऋतसदनमासीद ॥ या ओषधीरिति सर्वोषधीः प्रक्षिपेत् ॐ याऽओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा । मनैनु बभू णामह शतं धामानि सप्त च ॥ हिरण्यगर्भ इति पञ्चरत्नानि ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आ सीत् । स दाधार पृथिवीं द्यामुतेमाङ्कस्मै देवाय हविषा या फलिनीरिति फलादीनि विधेम ॥ ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । वृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हसः ॥ ओषधय इति यवान् ॐ ओषधयः समवदन्त सोमेन सह राज्ञा । यस्मै कृणोति ब्राह्मणस्त राजन्पारयामसि ॥ गन्धद्वारामिति चन्दनम् ॐ गन्धद्वारां दुराधर्षा नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपव्हये श्रियम् ॥ काण्डाकाण्डादिति दूर्वा ॐ काण्डात्काण्डात्प्र रोहन्ती परुषः परुषस्परि । एवा नो दुर्वे प्रतनु सहस्रेण शतेन च ॥ स्योना पृथिवीति सप्तमृत्तिकाः ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः ॥ अश्वत्थेव इति पञ्चपल्लवैस्तन्मुखमाच्छाद्य ॐ अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता । गोभाजइत्किलासथ यत्सनवथ पूरुषम् ॥ बृहस्पते अतीति वस्त्रयुग्मेन कलशं वेष्टयेत् ॐ बृहस्पतेऽअति यदर्योऽअर्हाद्युमद्विभाति क्रतुमज्जनेषु । यद्दिदयच्छ्वसsॠत प्रजात तदस्मासु द्रविणं धेहिचित्त्रम् ॥ उपयामगृहीतोसि बृहस्पतये त्वेषते योनिर्बु हस्पते त्वा ॥ अम्बेsअम्बिके इति आम्रपल्लवैस्तन्मुखमाच्छाद्य ॐ अम्बेsअम्बिके म्बालिके न मा नयति कश्चन । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥ तत्त्वा यामीति कलशे वरुणमावाह्य पूजयेत् ॐ तत्त्वा यामि ब्रह्मणा वन्दमानस्तादाशास्ते यजमानो हविभिः । अहेडमानो वरुणेह बोध्युरूश स मा न श्रायुः प्रमोषीः ॥ ततः कलशे गङ्गादितीर्थान्यावाहयेत् ॐ सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः । आयान्तु यजमानस्य दुरितक्षयकारकाः ॥ कलशं स्पृष्ट्वाभिमन्त्रयेत् ॐ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥ कुक्षौ तु सागराः सप्त सप्तद्वीपा वसुन्धरा ॥ ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः ॥ अङ्गश्च सहिताः सर्वे कलशं तु समाश्रिताः । ततः कलशप्रार्थना ॐ देवदानवसंवादे मथ्यमाने महोदधौ । उत्पनोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम् ॥ त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः । त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ॥ शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः । आदित्या वसवो रुद्रा विश्वेदेवाः सपितृकाः । त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः । त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव ॥ सान्निध्यं कुरु देवेश प्रसन्नो भव सर्वदा । इति ।

अथ गणेशपूजा

हस्ते कुशयवजलान्यादाय - ॐ अद्यहेत्यादि (अमुक) कर्म निर्विघ्नपरिसमाप्त्य- र्थममुकर्माङ्गतया गणेशपूजमहं करिष्ये । इति सङ्कल्प्य, “गणानारत्वा" "हे हेरम्ब" इत्यादिमन्त्रैरावाहयेत् । ॐ गणानान्त्वा गणपति: हवामहे प्रियाणान्त्वा प्रियपति हवामहे निधीनान्त्वा निधिपति हवामहे वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम् ॥ ॐ हे हेरम्ब त्वमेयेहि अम्बिकाव्यम्बकात्मज । सिद्धि बुद्धिपते व्यक्ष लक्ष्यलाभयितः पितः ॥ नागस्य नागहार त्वं गणराज चतुर्भुज । भूषितः स्वायुधैर्दिव्यैः पाशाङ्कुशपरस्वधैः ॥ आवाहयामि पूजार्थ रक्षार्थ च मम क्रतोः । इहागत्य गृहाण त्वं पूजां ऋतुं च रक्ष माम् ॥ इत्यावाहच ॐ भूर्भुवः स्वः गणपतये सिद्धिबुद्धिसहिताय सायुधाय सवाहनाय सपरिवाराय इदमासनं समर्पयामि । ततः सहस्रशीर्षेत्यादिषोडशमन्त्रैः षोडशोपचारः पूजयेत् । तद्यथा- आसनम्, पाद्यम्, अर्घ्य, आचमनीयम्, यज्ञोपवीतम्, वस्त्रम्, चन्दनम्, दूर्वा, अक्षताः, धूप, दीप, नैवेदधम्, आचमनीयम्, ताम्बूलम्, वस्त्रालङ्कारादियल्लब्धम्, दक्षिणाद्रव्यम्, पादवन्दनम् । एभिः सम्पूज्य नारिकेलादिफलं सवस्त्रं पुरतः पात्रे निधाय स्तुतिं कुर्यात् ॐ रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षक । भक्तानामभयं कर्ता त्राता भव भवार्णवात् ॥ द्वैमातुर कृपासिन्धो षाण्मातुर जगत्प्रभो । वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद ॥ अनेन फलदानेन फलदोऽस्तु सदा मम । वक्रतुण्ड महाकाय कोटिसूर्य समप्रभ । अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ।। अथ रक्षाबन्धनपूजा यवदूर्वासर्षपचन्दनगोमयदधिसहितां रक्षां ताम्रपात्रे निधाय पात्रं स्पृशन् नारायण कवचं पठेत् ॐ पूर्वे रक्षतु गोविन्द आग्नेय्यां धरणीधरः । याम्यां रक्षतु वाराहो नारसिंहस्तु नैर्ऋते ॥ वारुण्यां केशवो रक्षेद्वायव्यां मधुसूदनः । उत्तरे श्रीधरो रक्षेदधस्तात्तु महीधरः ॥ एवं दशदिशो रक्षेद्वासुदेवो जनार्दनः । यज्ञाग्रे रक्षताच्छङ्खः पृष्ठे वै पद्ममुत्तमम् ॥ वामपार्श्वे गदा रक्षेद्दक्षिणे तु सुदर्शनः । उपेन्द्रः पातु ब्रह्माणमाचार्य पातु वामनः ॥ ऋग्वेदमच्युतो रक्षेद्यजुर्वेदमधोक्षजः । कृष्णो रक्षतु सामानमथर्वाणञ्च माधवः ॥ उपविष्टाँश्च विप्राँस्ताननिरुद्धोऽभिरक्षतु । यजमानं सपत्नीकं पुण्डरीकाक्ष एव तु ॥ रक्षाहीनं तु यत्स्थानं तत्सर्व रक्षताद्धरिः । वेदमन्त्रैश्च कर्तव्या रक्षा शुभ्रैस्तु सर्षपैः ॥ कृत्वा पोटलिकां पूर्व बध्नायाद्दक्षिणे करे । इति । ततो वक्षमाणमन्त्रः पूजयेत् ॐ रक्षोहणं वलगहनं वैष्णवीमिदमहन्तं वलगमुत्किरामि यं मे निष्ट्यो यममात्यो निचखानेदमहन्तं वलगमुत्किरामि यं मे समानो यमसमानो निचखानेदमहन्तं वलगमुत्किरामि यं मे सबन्धुर्य मसबन्धुनिचखानेदमहन्तं वलगमुत्किरामि यं मे सजातो यमसजातो निचखानोत्कृत्याङ किरामि ॥ ॐ स्वराडसि सपत्नहा सत्त्रराडस्यभिमातिहा जनराडसि रक्षोहा सर्वराजस्य मित्रहा ॥ ॐ रक्षोहणो वो वलगहनः प्रोक्षामि वैष्णवान्क्षोहणो वो वलगहनोवनयामि वैष्णवान्क्षोहगो वो वलगहनो वस्तृणामि वैष्णवान्क्षोहणौ वां वलगहनाऽउपदधामि वैष्णवी रक्षोहणौ वां वलगहनौ पर्यूहामि वैष्णवी वैष्णवमसि वैष्णवास्थ ॥ ॐ सप्तऋषयः प्रतिहिताः शरीरे सप्त रक्षन्ति सदम- प्रमादम् । सप्तापः स्वपतोलोकमीयुस्तत्र जागुतोऽअस्वप्नजौ सनसदौ च देवौ । इति रक्षाबन्धनपूजा । ततः कलशस्कन्धप्रदेशे ॐ गणपतिसूर्यदेवीशिवविष्णून्, विनायकदुर्गावाय्वाकाशाश्विनिकुमारान्, सूर्य- सोमभौमबुध बृहस्पतिशुक्रशनिराहुकेतून्, ईश्वरोमास्कन्दहरिब्रह्मेन्द्रयमकालचित्रगुप्तान्, अग्नि अप् भूमिविष्णु इन्द्र इन्द्राणी प्रजापतिसर्वब्रह्मणः इन्द्राग्नियमनिर्ऋतिवरुणवायुसोमेशन ब्रह्मानन्तान्, ध्रुवाद्यष्टवसून्, धात्रादिद्वादशादित्यान्, वीरभद्राद्येकादशरुद्वान्, गौर्यादिषोडशमातृः, आवहादिसप्तमरुतः, विनायकब्रह्मविष्णुरुद्रार्कवनस्पतीना- बाह्य यथामिलितोपचारै: (पञ्चोपचारैः षोडशोपचारैर्वा) पूजयेत् । अथ होमसङ्कल्पः कुशादिकमादाय ॐ तत्सत् विष्णुः ३ इत्यादिदेशकालादीन् सङ्कीर्त्य (अमुक) गोत्रस्य (अमुक) प्रवरस्य (अमुक) शर्मणो मम (अमुक) कर्मणि आधाराज्यभागपञ्चवारुणिहोमपूर्वकप्रधानभूतेभ्यो देवेभ्यो गणपत्यादिपाञ्चायनेभ्यो विनायकादिपञ्चलोकपालेभ्यः सूर्यादिनवग्रहेभ्य ईश्वराद्यधिदेवेभ्योऽग्न्यादिप्रत्यधिदेवेभ्य इन्द्रादिदशदिक्पालेभ्यो ध्रुवाद्यष्टवसुभ्यो धात्रादिद्वादशादित्येभ्यो वीरभद्राद्येकादशरुद्रेभ्यो गौर्यादिषोडशमातृभ्य आवहादिसप्तमरुद्द्भ्यो विनायकब्रह्मविष्णुरुद्रार्कवनस्पतिभ्यः ( प्रधानदेवेभ्यः ) तथा चतुः स्वस्तिभ्यः पयः पञ्चभ्यः षड्विष्णुभ्यो द्वादशदेवताभ्यो द्वादशशान्तिभ्यः षट्प्रातर्भ्यः षड्वातेभ्य स्त्र्यनडुद्भ्यः पञ्चभगेभ्यः पञ्चेन्द्रियेभ्यः पञ्चवरुणभ्यो गायत्र्यै सावित्र्यै सरस्वत्यै गृहमात्रेऽन्नपूर्णाय महालक्ष्म्यै महारिष्टविनाशिन्यै चण्ड्यं द्यौराल्यै वास्तुदेवाय भूमिदेवाय गैडुदेवाय क्षेत्रपालाय ग्रामदेवाय स्वर्गेन्द्राय पातालवासुकिम्यो मित्रलोकपालाय मान्धात्रे तीर्थराजाय वृतराजाय पुर्नादक्पा- लेभ्यस्तिथिभ्यो नक्षत्रेभ्यो वारेभ्यः करणभ्यो वातेभ्यो मेधेभ्यः समुद्रेभ्यो नदीभ्य इष्टदेवेभ्यः कुलदेवेभ्यः स्थापित देवेभ्यो भैरवाय भैरव्यं विन्ध्यवासिन्यै स्थानविशेषाधिपति देवताभ्यः सर्वदेवेभ्यः सर्वहोमपूरणार्थेभ्यः पञ्चपाण्डवेभ्यो भीमसेनाय पितृभ्यो वैश्वानराय उत्तराङ्ग भूर्भुवः स्वः अग्निवरुणसवितृ विष्णु विश्वेदेव मरुत्स्वर्क प्रजापतिः स्विष्टकृद्देवेभ्य इदमाज्यादिद्रव्यहोमं यथासंख्येन ब्राह्मणद्वारा अहं करिष्ये । इति होमसङ्कल्पः । तत उपयमनकुशान् वामहस्ते कृत्वोत्तिष्ठन् प्रजापति मनसा ध्यायन् समिद्धतमेऽग्नौ समिधाग्निमिति मन्त्रेण पूर्वस्थापितास्तित्त्रः समिधः प्रक्षिप्योपविश्य, ॐ समिधाग्नि दुवस्यत घृतैर्बोधयतातिथिम् । आस्मिन्हव्या जुहोतन ॥ पृष्टो दिवीति मन्त्रेण दक्षिण चुलुकेन सपवित्रप्रोक्षण्युदकमादाय, ॐ पृष्टो दिवि पृष्टोऽअग्निः पृथिव्यां पृष्टो विश्वाs ओषधीराविवेश । वैश्वानरः सहसा पृष्टोऽग्निः स नो दिवा सरिषस्पातु नक्तम् ॥ सुसमिद्धायेतिमन्त्रेण तज्जलेन प्रदक्षिणक्रमेणाग्निं पर्युक्ष्य ॐ सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन । अग्नये जातवेदसे ॥ पातितदक्षिणजानुः कुशेन ब्रह्मणान्वारब्धः समिद्धतमेऽग्नौ स्रुवेणाज्याहुतिर्जुहोति द्वादशाहुतिषु तत्तदाहुत्यनन्तरं खुवावस्थितहुत शेषघृतस्य प्रोक्षणीपात्रे प्रक्षेपः । तत्राधारादारभ्य अथ प्रजापत्यादिवनस्पत्यन्त होमः ॐ प्रजापतय इति प्रजापतिऋषिस्त्रिष्टुप्छन्दः प्रजापतिर्देवता आज्यहोमे विनियोगः । ॐ प्रजापतये स्वाहा । इदं प्रजापतये न मम । ( इति मनसा) प्रोक्षणीपात्रेऽपि । ॐ इन्द्रायेति प्रजापति ऋषिस्त्रिष्टुप्छन्द इन्द्रो देवता आज्यहोमे विनियोगः । ॐ इन्द्राय स्वाहा । इदमिन्द्राय न मम । ( इति आधारौ ) प्रोक्षणीपात्रेऽपि । ॐ अग्नय इति प्रजापतिऋषिस्त्रिष्टुप्छन्दोऽग्निर्देवता आज्यहोमे विनियोगः । (होमे श्रुवधारणप्रकार: अग्रेधृतोऽर्थनाशः स्यात् मध्ये चैव मृतप्रजा । मूले च म्रियते होता स्रुवस्तु कुत्र धार्यते ।। अग्र मध्याच्च यन्मध्यं मूलमध्याच्च मध्यतः । स्रुवं धारयते विद्वान् ज्ञातव्यं च सदा बुधैः ॥ तर्जनीं च बहिः कृत्वा कनिष्ठां च बहिस्ततः । मध्यमानामिकाङगुष्ठः स्रुवं धारयते द्विजः ॥ आहुतिप्रदानस्थल विचारः- अस्यान्तर्जुहुयाद् वह्नेः पण्डितः सर्वकर्मसु । बधिरत्वं कर्णहोमे नेने त्वन्धत्वमाप्नुयात । नासिकायां मनः पीडा शिरो होमे तु मृत्युदः । अङ्गज्ञानश्चाह- यत्र काष्ठं तत्र श्रोत्रं यत्र धूमोऽथ नासिका । यत्राल्पज्वलनं नेतं यतो भस्म ततः शिरः ॥ यत्र प्रज्वलितो वह्निस्तन्मुखं जातवेदसः । घृतधारास्ततो दद्याव्यावत् स्विन्नो भवेचरुः ॥ अन्यत्र च- "अदीप्तेन हतो होमः" इति । ) ॐ अग्नये स्वाहा। इदमग्नये न मम । प्रोक्षणीपात्रेऽपि । ॐ सोमायेति प्रजापतिऋषिस्त्रिष्टुप्छन्दः सोमो देवता आज्यहोमे विनियोगः । ॐ सोमाय स्वाहा । इदं सोमाय न मम । ( इति आज्यभागौ ) प्रोक्षणीपात्रेऽपि । ॐ भूर्भुवः स्वरिति महाव्याहृतीनां प्रजापतिऋषिरग्निवायुसूर्यो देवता गायत्र्यु ष्णिगनष्टुभ छदांसि अग्न्याधाने विनियोगः । ॐ भूः स्वाहा । इदमग्नये न मम । प्रोक्षणीपात्रेऽपि । ॐ भुवः स्वाहा । इदं वायवे न मम । प्रोक्षणीपात्रेऽपि । ॐ स्वः स्वाहा । इदं सूर्याय न मम । प्रोक्षणीपात्रेऽपि । एता महाव्याहृतयः । पञ्चवारुणिहोमः ॐ त्वन्नोऽअग्न इति वामदेवऋषिरग्नीवरुणौ देवते त्रिष्टुप्छन्दः प्रायश्चित्तहोमे विनियोगः । ॐ त्वन्नोऽअग्ने वरुणस्य विद्वान् देवस्य हेडोऽश्रवयासिसीष्ठाः । यजिष्ठो वन्हितमः शोशुचानो विश्वा द्वेषा गुं सि प्रमुमुग्ध्यस्मत्स्वाहा । इदमग्नीवरुणाभ्यां न मम । प्रोक्षणीपात्रेऽपि । ॐ स त्वन्न इति वामदेवऋषि स्त्रिष्टुप्छन्दः अग्नीवरुणौ देवते आज्यहोमे विनियोगः । ॐ स त्वन्नोऽअग्नेवमो भवोती नेदिष्ठोऽअस्याऽउषसो व्युष्टौ । अवयक्ष्व नो वरुण गुं रराणो वीहि मृडीक सुहवो नsएधि स्वाहा ॥ इदमग्नीवरुणाभ्यां न मम । प्रोक्षणीपात्रेऽपि । ॐ अयाश्चाग्न इति वामदेवऋषिस्त्रिष्टुप्छन्दोऽग्निर्देवता प्रायश्चित्तहोमे विनियोगः । ॐ अयाश्चाग्नेस्यनभिशस्तिपाश्च सत्यमित्त्वमयाऽअसि । अया नो यज्ञं वहास्यया नो धेहि भेषजः स्वाहा ॥ इदमग्नये न मम । प्रोक्षणीपात्रेऽपि । ॐ ये ते शतमिति वामदेवऋषिस्त्रिष्टुप्छन्दो वरुणः सविता विष्णुविश्वेदेवा मरुतः स्वर्का देवता प्रायश्चित्तहोमे विनियोगः । ॐ ये ते शतं वरुणं ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभिर्नो अद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा ॥ इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यो न मम । प्रोक्षणीपात्रेऽपि । ॐ उदुत्तममिति शुनःशेपऋषिस्त्रिष्टुप्छन्दो वरुणो देवता पाशान्मोचने विनियोगः । ॐ उदुत्तमं वरुण पाशमस्मदवाधमं विमध्यमं श्रथाय । अथावयमादित्यब्रते तवानागसोऽश्रदितये स्याम स्वाहा ॥ इदं वरुणाय न मम । प्रोक्षणीपात्रेऽपि । एताः प्रायश्चित्तसंज्ञकाः । इति पञ्चवारुणिहोमः । अथ प्रधानदेवताहोम:' ॐ गणानान्त्वा गणपति: हवामहे प्रियाणान्त्वा प्रियपति हवामहे निधीनान्त्वा निधिपति हवामहे वसो मम । श्रहमजानि गर्भधमा त्वमजासि गर्भधम् स्वाहा ॥ इदं गणपतये न मम । ॐ श्री कष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यञ्च । हिरण्येन सविता रथेना देवो याति भुवनानि पश्यन् स्वाहा ॥ इदं सूर्याय न मम । ( अथ प्रधानदेवता होमसूत्राणि गणेशो भास्करो देवी शिवो विष्णुश्च पञ्चमः । पञ्चायतननामानि कथिताः पञ्चदेवताः ॥ १ ॥ विनायकस्तथा दुर्गा वायुराकाश एव च नासत्यदत्री पञ्चैते लोकपालाः प्रकीर्तिताः ॥ २॥ सूर्य: सोमश्च भीमश्च बुधो जीवश्च भार्गवः । शनी राहुश्च केतुश्च कथिताश्च नवग्रहाः ॥ ३॥ ईश्वरश्च उमा स्कन्दो विष्णुर्ब्रह्मा शचीपतिः । यमः कालश्चित्रगुप्त इत्येता अधिदेवताः ॥४॥ अग्निरापो धरा विष्णुरिन्द्र ऐन्द्री प्रजापतिः । सर्पा ब्रह्मा क्रमात्प्रोक्ता नव प्रत्यधिदेवताः ॥ ५ ॥ इन्द्राग्नी यमनिर्ऋती वरुणो मरुतो विधुः । ईशो ब्रह्मा तथानन्तो दिक्पालाः परिकीर्तिताः ॥६॥ ध्रुवाद्यष्टवसुर्ज्ञेयो धात्रादित्यास्तु द्वादश वीर भद्राद्येकादश गौर्यादिमातृषोडश ॥७॥ आवाहादिमरुत्सप्त विनायकविधी हरिः । रुद्राश्चास्तथा प्रोक्तो वनस्पतिः क्रमेण हि ॥८॥ चतुः स्वस्तिः पयः पञ्च षड्विष्णुर्देव द्वादश । शान्तिर्द्वादश पप्रातः षड्वातास्तु क्रमेण हि ॥ ६ ॥ अनत्संज्ञको ज्ञेयो होमकर्मणि वै ध्रुवम् । पञ्चभगेन्द्रियाः पञ्च वरुणाः पञ्च एव च ॥ १०॥ गायत्री चैव सावित्री वाग्देवी गृहमातृकाः । अन्नपूर्णा महालक्ष्मी महारिष्टविनाशिनी ॥ ११ ॥ चण्डी द्यौराली विज्ञेया वास्तुभूम्यस्तथैव च । गैडुश्च क्षेत्रपालश्च ग्रामदेवास्ततः परम् ॥ १२॥ स्वगेन्द्रो वासुकिश्चैव मित्रलोकस्तथैव च । मान्धाता तीर्थ राजश्च व्रतराजस्ततः परम् ॥ १३॥ पुनदिक्पालका ज्ञेयास्तिथिनक्षत्रयोगकाः । वारश्च करणश्चैव वायुमेघसमुद्रकाः ॥ १४ ॥ नदीष्ट कुलदेवाश्च स्थापिता देवताः क्रमात् । भैरवो भैरवी विन्ध्यवासिनी स्थानदेवताः॥ १५ ॥ एषोह सर्वदेवाश्च शुक्रज्योतिस्तथैव च । पाण्डवाः पितरश्चव वैश्वानरः क्रमेण च ॥ १६ ॥ पूर्णपात्रं ततो दद्याद्वहिमस्ततः परम् । गोभूरत्नहिरण्यादि रौप्यवस्त्राणि चैव हि ॥१७॥ यानि द्विजमुख्येभ्यो यजमानो विशेषतः । इति होमसूत्राणि । चरुहोमे मुद्रा विचार- तिस्रोमुद्रास्तु सम्प्रोक्ता मृगी हंसी च सूकरी सूकरी करसङ्कोचाद् हंसी मुक्तकनिष्ठिका ॥ कनिष्ठातर्जनीहीना मृगीमुद्रा तिलाहुतौ । शान्तिकर्मणि सर्वत्र मृगी हंसी शुभे उभे ॥ अभिचारेषु सर्वेषु सूकरी तु प्रकीर्तिता । ) ॐ देवीर्द्वारऽइन्द्र सङघाते वीड्वीर्यामन्नवर्धयन् । आवत्सेन तरुणेन कुमारेण च मीवता पार्वाण रेणुककाट नुदन्तां वसुवने वसुधेयस्य व्यन्तु यज स्वाहा । इदं देव्यै न मम । ॐ नमः शम्भवाय च मयो भवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च स्वाहा । इदं शिवाय न मम । अत्र प्रणीतोदकस्पर्शः । ॐ विष्णो रराटमसि विष्णोः श्नप्त्रेस्थो विष्णोः स्यूरसि विष्णो वोसि वैष्णवमसि विष्णवे त्वा स्वाहा । इदं विष्णवे न मम । इति पाञ्चायनाः । अथ पञ्चलोकपाला: ॐ गणानान्त्वा गणपति हवामहे प्रियाणान्त्वा प्रियपति हवामहे निधीनान्त्वा निधिपति हवामहे वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम् स्वाहा । इदं विनायकाय न मम । ॐ अम्बे अम्बिकेम्बालिके न मानयति कश्चन । सस- स्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् स्वाहा ॥ इदं दुर्गायै न मम । ॐ वायो ये ते सहस्रिणो रथासस्तेभिरागहि । नियुत्वा न्त्सोमपीतये स्वाहा । इदं वायवे न मम । ॐ ऊधर्वा अस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोची ष्यग्नेः । द्युमत्तमा सुप्रतीकस्य सूनोः स्वाहा । इदमाकाशान मम । ॐ अश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसायाभिषिञ्चामि सरस्वत्यै भैषज्येन वीर्यायान्नाद्यायाभिषिञ्चामीन्द्रस्येन्द्रियेण बलाय श्रियै यशसेभिषिञ्चामि स्वाहा । । इदमश्विनीकुमाराभ्यां न मम । इति पञ्चलोकपालाः । अथ नवग्रहाः ॐ आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यञ्च । हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् स्वाहा ॥ इदं सूर्याय न मम । ॐ इमन्देवाऽअसपत्नः सुवध्वं महते क्षत्त्राय महते ज्येष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय । इदममुष्य पुत्रमनुष्यै पुनमस्यै विशsएष वोमी राजा सोमोस्माकं ब्राह्मणानां राजा स्वाहा ॥ इदं सोमाय न मम । ॐ श्रग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्याऽअयम् । अपां रेता सि जिन्वति स्वाहा ॥ इदं भौमाय न मम ॥ ॐ उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्ते सः सृजेथामयञ्च श्रस्मिन्त्सधस्थेऽप्रध्युत्तरस्मिन् विश्वेदेवा यजमानश्च सीदत स्वाहा ॥ इदं बुधाय न मम ॥ ॐ बृहस्पतेऽ अति यदर्योऽअर्हाद्युमविभाति ऋतुमज्जनेषु । यद्दीदयच्छ्वसsऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम् । उपयामगृहीतोसि बृहस्पतये त्वेषते योनिबृहस्पतये त्वा इदं बृहस्पतये न मम ॥ स्वाहा ॥ ॐ अन्नात्परिस तो रसं ब्रह्मणा व्यपिवत्क्षत्रं पयः सोमं प्रजापतिः । ऋतेन सत्यमिन्द्रियं विपानः शुक्रमन्धसइन्द्रस्येन्द्रियमिदं पयोमृतं मधु स्वाहा ॥ इदं शुक्राय न मम ॥ ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शंयोरभिसूवन्तु नः स्वाहा ॥ इदं शनैश्चराय न मम ॥ ॐ कया नश्चित्रsआभुवदूती सदावृधः सखा । कया शचिष्ठया वृता स्वाहा ॥ इदं राहवे न मम ॥ ॐ केतुकृण्वन्नकेतवे पेशो मर्या अपेशसे । समुषद्भि रजायथाः स्वाहा । इदं केतवे न मम ॥ इति नवग्रहाः ॥ ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् स्वाहा ॥ इदमीश्वराय न मम । अत्र प्रणीतोदकस्पर्शः १ । ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् । इष्णन्निषाणामुम्मऽइषाण सर्वलोकम्मs इषाण स्वाहा ॥ इदमुमायै न मम ॥ ॐ यदक्रन्दः प्रथमं जायमानऽउद्यन्त्समुद्रादुतवा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहूऽउपस्तुत्यं महि जातं तेऽप्रर्वन् स्वाहा ॥ इदं स्कन्दाय न मम । ॐ विष्णो रराटमसि विष्णोः श्नप्त्रेस्थो विष्णोः स्यूरसि विष्णो धुवोसि वैष्णवमसि विष्णवे त्वा स्वाहा ॥ इदं विष्णवे न मम ॥ ( रौद्रमासुरमाभिचारणिकं च मन्त्रमुक्त्वा पित्तयम्, आत्मानंच आलभ्य उपस्पृशेदयः" इति का० श्री० सू० वचनात् । ) ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरूचो वेनs आवः । स बुध्न्याऽउपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः स्वाहा ॥ ब्रह्मणे न मम ॥ ॐ व्रातारमिन्द्रमवितारमिन्द्र हवे हवे सुहव शूरमिन्द्रम् । व्यामि शक्रं पुरुहूतमिन्द्रस्वस्ति नो मघवा धात्विन्द्रः स्वाहा || इदमिन्द्राय न मम । ॐ यमाय त्वा मखाय त्वा सूर्यस्य त्वा तपसे । देवस्त्वा सविता मध्वा नक्तु पृथिव्याः सः स्पृशस्पाहि । श्रचिरसि शोचिरसि तपोसि स्वाहा ॥ इदं यमाय न मम । अत्र प्रणीतोदकस्पर्शः । ॐ कार्षिरसि समुद्रस्य त्वा क्षित्याऽउन्नयामि । समापोऽ अद्भिरग्मत समोषधीभिरोषधीः स्वाहा ॥ इदं कालाय न मम । अत्र प्रणीतोदकस्पर्शः । ॐ इन्धानास्त्वा शतः हिमा द्युमन्तः समिधीमहि । वयस्वन्तो वयस्कृतः सहस्वन्तः सहस्कृतम् । अग्ने सपत्नदम्भ- नमदब्धासोs श्रदाभ्यम् । चित्रावसो स्वस्ति ते पारमशीय स्वाहा ॥ इदं चित्रगुप्ता न मम । अत्र प्रणीतोदकस्पर्शः । इत्यधिदेवताः । अथ प्रत्यधिदेवताः ॐ अग्निन्दूतं पुरो दधे हव्यवाहमुपब्रुवे । देवां२ऽ आसाद- यादिह स्वाहा ॥ इदमग्नये न मम ॥ ॐ अप्स्वग्ने सधिष्टव सौषधीरनुरुध्यसे । गर्भे सञ्जायसे इदमद्भ्यो न मम । पुनः स्वाहा ॥ ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छानः शर्मसप्रथाः स्वाहा ॥ इदं भूम्यं न मम । ॐ इदं विष्णुविचक्रमे त्रेधा निदधे पदम् । समूढमस्यपा सुरे स्वाहा ॥ इदं विष्णवे न मम । ॐ इन्द्रआसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः । देवसेनानामभिभञ्जतीनाञ्जयन्तीनां मरुतो यन्त्वग्रम् स्वाहा ॥ इदमिन्द्राय न मम । ॐ अदित्यै रास्नासीन्द्राण्याऽउष्णीषः । पूषासि धर्माय दीष्व स्वाहा ॥ इदमिन्द्राण्यं न मम । ॐ प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परिता बभूव । यत्कामास्ते जुहुमस्तन्नोऽअस्तु वयस्याम पतयो रयीणाम् स्वाहा ॥ इदं प्रजापतये न मम । ॐ नमोस्तु सर्पेभ्यो ये के च पृथिवी मनु । येs अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः स्वाहा ॥ इदं सर्पेभ्यो न मम । ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेनsआवः सबुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः स्वाहा ॥ इदं ब्रह्मणे न मम । इति प्रत्यधिदेवताः अथ दशदिक्पाला: ॐ वातारमिन्द्रमवितारमिन्द्र हवे हवे सुहव शूरमिन्द्रम् । ह्वयामि शक्रं पुरुहूतमिन्द्र स्वस्ति नो मघवा धात्विन्द्रः स्वाहा ॥ इन्द्रमिन्द्राय न मम । ॐ अग्निदूतं पुरो दधे हव्यवाहमुपब्रुवे । देवाँ २s आसा- दयादिह स्वाहा ॥ इदमग्नये न मम । ॐ यमाय त्वा मखाय त्वा सूर्यस्य त्वा तपसे । देवस्त्वा सविता मध्वानक्तु पृथिव्याः सस्पृशस्पाहि । श्रचिरसि शोचिरसि तपोसि स्वाहा ॥ इदं यमाय न मम । अत्र प्रणीतोदकस्पर्शः । ॐ असुन्वन्तमयजमान मिच्छस्तेनस्येत्यामन्विहि तस्करस्य । अन्यमस्मदिच्छ सा तइत्यानमो देवि निर्ऋते तुभ्यमस्तु स्वाहा ॥ इदं निर्ऋतये न मम । अत्र प्रणीतोदकस्पर्शः ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनीस्थो वरुणस्य s ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदन मासीद स्वाहा ॥ इदं वरुणाय न मम । ॐ वायो ये ते सहसिणो रथासस्तेभिरागहि । नियुत्वान्त्सो मपीतये स्वाहा । इवं वायवे न मम । ॐ सोमो धेनुः सोमो अर्वन्तमाशुः सोमो वीरं कर्मण्यं ददाति । सादन्यं विदश्य सभेयं पितृश्रवणं यो ददाशदस्मै स्वाहा ॥ इयं सोमाय न मम ॐ तमीशानञ्जगतस्तस्थुषस्पति धियं जिन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदन्ध स्वस्तये स्वाहा ॥ इदमीशानाय न मम । अत्र प्रणीतोदकस्पर्शः । ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन s आवः । सबुध्न्याऽउपमाऽअस्य विष्ठाः सतश्च योनिमसतश्च विवः स्वाहा । इदं ब्रह्मणे न नमः । ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमि सर्वतस्पृत्वात्यतिष्ठद्दशाङ्गुलम् स्वाहा । इदमनन्ताय न मम । इति दशदिक्पालाः । अथाष्टवसवः ॐ सुगा वो देवाः सदना अकर्म य आजग्मेदः सवन- जुषाणाः । भरमाणा वहमाना हवीष्यस्मे धत्त वसवो वसू- नि स्वाहा ॥ इदं ध्रुवाद्यष्टवसुभ्यो न मम । अथ द्वादशादित्याः ॐ यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मूडयन्तः आवोर्वाची सुमतिर्ववृत्यादः होश्चिद्या वरिवोवित्तरासत् स्वाहा ॥ इयं धात्रादिद्वादशादित्येभ्यो न मम । अथैकादश रुद्राः ॐ य एतावन्तश्च भूयासश्च दिशो रुद्रा वितस्थिरे । तेषां सहसूयोजने वधन्वानि तन्मसि स्वाहा ॥ इवं वीरभद्राद्येकादशरुभ्यो न मम । अत्र प्रणीतोदकम्पशः ।   अथ षोडशमातरः ॐ गौरीमिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी । श्रष्टापदी नवपदी बभूवुषि सहस्राक्षरा परमे व्योमन् स्वाहा ॥ इदं गौर्यादिषोडशमातृभ्यो न मम । अथावहादिसप्तमरुतः ॐ मरुतो यस्य हि क्षये पाथा दिवोविमहसः । ससुगोपा-तमो जनः स्वाहा ॥ इदमावहादि सप्तमरुद्भ्यो न मम । अथ विनायकादि षट् ॐ गणानान्त्वा गणपति हवामहे प्रियाणान्त्वा प्रियपति हवामहे निधीनान्त्वा निधिपति हवामहे वसो मम । आहम- जानि गर्भधमा त्वमजासि गर्भधम् स्वाहा । इदं विनाकाय न मम । ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरचो वेनऽनावः स बुध्न्या उपमा श्रस्य विष्ठाः सतश्च योनिमसतश्च विवः S स्वाहा ॥ इवं ब्रह्मणे न मम । ॐ इदं विष्णुविचक्रमे त्रेधा निदधे पदम् । समूढमस्यपा सुरे स्वाहा ॥ इदं विष्णवे न मम । ॐ मा नस्तोके तनये मा नs आयुषि मा नो गोषु मानो s अश्वेषु रीरिषः । मा नो विरानुद्र भामिनो वधीर्हविष्मन्तः सदमित्वा हवामहे स्वाहा । इदं रुद्राय न मम । अत्र प्रणीतोदकस्पर्शः । ॐ अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म s श्श्रासन् । अर्कस्त्रिधातू रजसो विमानोजसो घर्मो हविरस्मि नाम स्वाहा ॥ इदमर्काय न मम । ॐ वनस्पते वीड्वङ्गी हि भूया अस्मत्सखा प्रतरणः सुवीरः । गोभिः सन्नद्धोऽ असि वीडयस्वास्थाता ते जयतु जेत्वानि स्वाहा । इदं वनस्पतये न मम । अथ विशेषकर्म अत्र विशेषोद्देश्याभिमतं कर्मकृत्वा तत्पश्चादेव वदुत्तरं कर्म कर्वन्ति  ॥ ( जुन उद्देश्य लिएर जुन कर्म गर्न लागिरहेको हो त्यस फर्मको प्रधान देवताको विशेष पूजा होम आदि जे जति गर्नु छ त्यो सबै गरिसकेर मात्र चतुः स्वस्त्वानि होम गर्नुपर्दछ ।) अथ चतुः स्वस्त्यादि होमः ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्व- वेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्द धातु स्वाहा । इदं चतुः स्तिभ्यो न मम । ॐ पयः पृथिव्यां पयsओषधीषु पयो दिव्यन्तरिक्षे पयोधाः । पयस्वतीः प्रदिशः सन्तु महघम् स्वाहा ॥ इदं पयपञ्चभ्यो न मम । ॐ विष्णोरराटमसि विष्णोः श्नप्ले त्यो विष्णोः स्यूरसि विश्णो वोसि वैष्णवमसि विष्णवे त्वा स्वाहा । इदं विष्णुभ्यो न मम । ॐ अग्निर्देवता वातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवता दित्या देवता मरुतो देवता बिश्वेदेवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता स्वाहा । इदं द्वादशदेवेभ्यो न मम । ॐ द्यौः शान्तिरन्तरिक्ष शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिविश्वेदेवाः शान्ति- ब्रह्म शान्तिः सर्व शान्तिः शान्तिरेव शान्तिः सामाशान्ति रेधि स्वाहा । इयं द्वादशशान्तिभ्यो न मम । ॐ प्रातरग्नि प्रातरिन्द्रः हवामहे प्रातमित्रावरुणा प्रात रश्विना । प्रातर्भगं पूषणं ब्रह्मणस्पति प्रातः सोममुत रुद्र हुवेम स्वाहा । इदं षट्प्रातयों न मम । ॐ समुद्राय त्वा वाताय स्वाहा सरिराय त्वा वाताय स्वाहा अनाधृष्याय त्वा वाताय स्वाहा प्रतिधृष्याय त्वा वाताय स्वाहा अवस्यवे त्वा वाताय स्वाहा शिमिदाय त्वा वाताय स्वाहा ॥ इदं पटवातेभ्यो न मम । ॐ अनड्वान्वयः पङ्क्तिश्छन्दो धेनुर्वयो जगती छन्दस्त्य विर्वयस्त्रिष्टुप्छन्दो दित्यावाड्वो विराट्छन्दः पञ्चाविर्वयो गायत्री छन्दस्त्रिवत्सोवय ऽउष्णिक्छन्दस्तुर्यवाड्वयोनुष्टुप्छन्दो लोकन्ता ऽ इन्द्रम् स्वाहा । इवं त्र्यनदुद्भ्यो न मम । ॐ भगs एव भगवाँ २s अस्तु देवास्तेन वयं भगवन्तः स्याम । तं त्वा भग सर्व ऽ इज्जोहवीति स नो भग पुरएता भवेह स्वाहा ॥ इदं पञ्चभ्यो न मम ॐ प्राणाय स्वाहापानाय स्वाहा व्यानाय स्वाहा चक्षुषे स्वाहा श्रोत्राय स्वाहा वाचे स्वाहा मनसे स्वाहा ॥ हवं पञ्चेन्द्रियेभ्यो न मम । ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनी स्थो वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य s ऋतसदनमासीद स्वाहा ॥ इदं पञ्चवरुणेभ्यो न मम । ॐ गायत्री त्रिष्टुब्जगत्यनुष्टुप्पङक्त्या सह । बृहत्यष्णिहा ककुप्सूचीभिः शम्यन्तु त्वा स्वाहा ॥ इवं गायत्र्यं न मम । ॐ उपयामगृहीतोसि सावित्रोसि चनोधास्वनोधाऽअसि चनो मयि धेहि । जिन्व यज्ञं यज्ञपतिंभगाय देवा यत्वा सवित्रे स्वाहा || इदं सावित्र्ये न मम । ॐ सरस्वती योन्याङ्गर्भ मन्तरश्विभ्यां पत्नी सुकृतं बिर्भात । श्रप रसेन वरुणो न साम्नेन्द्रः श्रियं जनयन्नप्सु राजा स्वाहा ॥ इथं सरस्वत्यै न मम । 'गृहा मा बिभीत मा वेपध्वमूर्जं बिभूत एमसि । ऊर्ज बिभूवः सुमनाः सुमेधा गृहानैमि मनसा मोदमानः स्वाहा ॥ इदं गृहमात्रे न मम । ॐ अन्नपतेनस्य नो देह्यनमीवस्य शुष्मिणः । प्रप्रदातारं तारिषऽऊर्जं नो धेहि द्विपदे चतुष्पदे स्वाहा ॥ इदमन्नपूर्णा न मम । ॐ श्रीश्चते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् । इष्णन्निषाणामुम्मऽइषाण सर्वलोकम्मs इषाण स्वाहा ॥ इदं महालक्ष्म्यै न मम । ॐ देवीर्द्वारsइन्द्र सङ्घाते वीड्वीर्यामन्नबर्धयन् । आवत्सेन तरुणेन कुमारेण च मीवता पार्वाण रेणुककाट नुदन्तां वसुवने वसुधेयस्य व्यन्तु यज स्वाहा ॥ इदं महारिष्ट विनाशिन्यं न मम । ॐ अम्बेsअम्बिकेम्बालिके न मानयति कश्चन । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् स्वाहा ॥ इदं चण्ड न मम ॐ द्यौरासीत्पूर्वचित्तिरश्वऽआसीद्धृहद्वयः । अविरासीत् पिलिप्पिला राविरासीत् पिशङ्गिला स्वाहः ॥ इदं चौरात्यं न मम । ॐ वसोः पवित्रमसि शतधारं वसोः पवित्रमसि सहसू- धारम् । देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुप्वा कामधुक्षः स्वाहा ॥ इदं वास्तुदेवाय न मम । ॐ भूम्या आखूनालभतेन्तरिक्षाय पावान् कशान्दिग्भ्यो नकुलान्वभू कानवान्तरदिशाभ्यः स्वाहा ॥ पावान् दिवे इदं भूमिदेवाय न मम । ॐ नमः शम्भवाय च मयो भवाय च नमः शङ्कराय च मयस्काराय च नमः शिवाय च शिवतराय च स्वाहा ॥ इदं गैडुदेवाय न मम । ॐ क्षत्रस्य योनिरसि क्षत्रस्य नाभिरसि । मा त्वा हि सीन्मा मा हि सीः स्वाहा ॥ इदं क्षेत्रपालाय न मम । ॐ यद्ग्रामे यदरण्ये यत्सभायां यदिन्द्रिये । यदेनश्चकुमा वयमिदन्तदवयजामहे स्वाहा ॥ इवं ग्रामदेवाय न मम । ॐ त्रातारमिन्द्रमवितारमिन्द्र हवे हवे सूहवः शूरमिन्द्रम् । ह्वयामि शक्रं पुरुहूतमिन्द्रः स्वस्ति नो मघवा धात्विन्द्रः स्वाहा ॥ इदं स्वर्गेन्द्राय न मम । ॐ नमोस्तु सर्पेभ्यो ये के च पृथिवीमनु । येऽश्रन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः स्वाहा ॥ इदं पातालवासुकिभ्यो न मम । ॐ मित्रोन एहि सुमित्रधऽइन्द्रस्योरुमा विश दक्षिणमुशन्नु- शन्तः स्योनः स्योनम् । स्वान भाजाङ्घारे वम्भारे हस्त सुहस्त ऋशानवे ते वः सोमक्रयणास्तान्क्षध्वं मा वो दभन् स्वाहा ॥ इदं मित्रलोकपालाय न मम । ॐ राजन्तमध्वराणाङ्गोपामृतस्य दीदिविम् । वर्धमान स्वे दमे स्वाहा ॥ इनं मान्धात्रे न मम । ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः । तेषा सहसूयोजनेव धन्वानि तन्मसि स्वाहा ॥ इयं तीर्थराजाय न मम । ॐ वृतेन दीक्षामाप्नोति दीक्षयाप्नोति दक्षिणाम् । दक्षिणा श्रद्धामाप्नोति श्रद्धया सत्यमाप्यते स्वाहा ॥ इद वृतराजाय न मम । ॐ प्राच्य दिशे स्वाहार्वाच्यै दिशे स्वाहा दक्षिणायै दिशे स्वाहार्वाच्य दिशे स्वाहा प्रतीच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहोदीच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहोर्ध्वायै दिशे स्वाहार्वाच्य दिशे स्वाहावाच्य दिशे स्वाहार्वाच्यै दिशे स्वाहा । इदं पुनदिवपालेभ्यो न मम । ॐ अग्नेः पक्षतिर्वायोर्निपक्षतिरिन्द्रस्य तृतीया सोमस्य चतुर्थ्यादित्यै पञ्चमीन्द्राण्यं षष्ठी मरुता सप्तमी बृहस्पतेरष्ट म्यर्यम्णो नवमी धातुर्दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यमस्य त्रयोदशी स्वाहा ॥ इदं तिथिभ्यो न मम । ॐ नक्षत्रेभ्यः स्वाहा नक्षत्रियेभ्यः स्वाहाहोरात्रेभ्यः स्वाहार्धमासेभ्यः स्वाहा मासेभ्यः स्वाहा ऋतुभ्यः स्वाहार्त्तवेभ्यः स्वाहा संवत्सराय स्वाहा द्यावापृथिवीभ्या स्वाहा चन्द्राय स्वाहा सूर्याय स्वाहा रश्मिभ्यः स्वाहा वसुभ्यः स्वाहा रुद्रेभ्यः स्वाहादित्येभ्यः स्वाहा मरुद्भ्यः स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा मूलेभ्यः स्वाहा शाखाभ्यः वनस्पतिभ्यः स्वाहा पुष्पेभ्यः स्वाहा फलेभ्यः स्वाहौषधीभ्यः स्वाहा ॥ इदं नक्षत्रेभ्यो न मम । ॐ योगे योगे तवस्तरं वाजे वाजे हवामहे ॥ सखाय इन्द्रमूतये स्वाहा ॥ इदं योगेभ्यो न मम । ॐ आदित्यं गर्भं पयसा समधि सहसूस्य प्रतिमां विश्व- रूपम् । परिवृद्धि हरसा माभिमः स्थाः शतायुषं कृणुहि चीयमानः स्वाहा ॥ इदं वारेभ्यो न मम । ॐ भद्रं कर्णेभिः शृणुयाम 'देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेमहि देवहितं यदायुः स्वाहा इदं करणेभ्यो न मम । ॐ वायो ये ते सहस्रिणो रथासस्ते भिरागहि । नियुत्वा- न्त्सोमपीतये स्वाहा ॥ इदं वातेभ्यो न मम । ॐ वाताय स्वाहा धूमाय स्वाहान्भाय स्वाहा मेघाय स्वाहा विद्योतमानाय स्वाहा स्तनयते स्वाहावस्फूर्जते स्वाहा वर्षते स्वाहावर्षते स्वाहोत्रं वर्षते स्वाहा शीघं वर्षते स्वहो- द्गृह्णते स्वाहोद्गृहीताय स्वाहा प्रुष्णते स्वाहा शीकायते स्वाहा प्रुष्वाभ्यः स्वाहा -हादुनीभ्यः स्वाहा निहाराय स्वाहा ॥ इदं मेधेभ्यो न मम । ॐ समुद्रं गच्छ स्वाहान्तरिक्षं गच्छ स्वाहा देवः सवितारं गच्छ स्वाहा मित्रावरुणौ गच्छ स्याहाहोरात्रे गच्छ स्वाहा छन्दासि गच्छ स्वाहा द्यावापृथिवी गच्छ स्वाहा यज्ञं गच्छ स्वाहा सोमं गच्छ स्वाहा दिव्यं नमो गच्छ स्वाहाग्नि वैश्वा- नरङ्गच्छ स्वाहा मनोमे हार्दि यच्छ दिवं ते धूमो गच्छतु स्वर्ज्योतिः पृथवीं भस्मना पुण स्वाहा ॥ इदं समुद्रेभ्यो न मम । ॐ नदीभ्यः पौञ्जिष्ठमृक्षीकाभ्यो नैषादं पुरुषव्याघ्राय दुर्मदं गन्धर्वाप्सरोभ्यो वात्यं प्रयुग्भ्यउन्मत्तः सर्पदेवजने- भ्योप्रतिपदमयेभ्यः कितवमीर्यताया 5 अकितवं पिशाचेभ्यो विदलकारों यातुधानेभ्यः कण्टकीकारीम् स्वाहा ॥ S इवं नवीभ्यो न मम । ॐ इष्टो यज्ञो भृगुभिराशीर्वा वसुभिः । तस्य न इष्टस्य प्रीतस्य द्रविणेहागमेः स्वाहा ॥ इष्टदेवाय न मम । ॐ कुलायिनी घृतवती पुरन्धिः स्योने सीद सबने पृथिव्याः । अभि त्वा रुद्रा वसवो गृणन्त्विमा ब्रह्म पीपिहि सौभगाया- श्विनाध्वर्यू सादयतामिह त्वा स्वाहा ॥ इदं कुलदेवाय न मम । यत्र स्थापितो यो देव स्तत्तन्मन्त्रेण होमयेत् ॐ नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च स्वाहा ॥ इयं भैरवाय न मम । ॐ देवीर्द्वार 5 इन्द्र सङ्घाते वीड्वीर्यामन्नवर्धयन् । आवत्सेन तरुणेन कुमारेण च मीवता पार्वाण रेणुककाटन्तु - दन्तां वसुवने वसुधेयस्य व्यन्तु यज स्वाहा ॥ इदं भैरव्यं न मम । ॐ अम्बे s अम्बिकेम्बालिके न मानयति कश्चन । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् स्वाहा ॥ इयं विन्ध्यवासिन्ये न मम । यत्र स्थानविशेषाधिष्ठितो यो देवो देवी वा तत्तन्मन्त्रेण होमयेत् । ॐ एषोह देवः प्रदिशो न सर्वाः पूर्वो ह जातः सsउ गर्भेs अन्तः । सएव जातः स जनिष्यमाणः प्रत्यङ्जना स्तिष्ठति सर्वतोमुखः स्वाहा ॥ इदं सर्वभ्यो देवेभ्यो न मम । ॐ शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योति- माँश्च । शुक्रश्च ऋतपाश्चात्य हाः स्वाहा ॥ इदं सर्वहोमपूरणार्थेभ्यो न मम । ॐ राजन्तमध्वराणागोपामृतम्य दीदिविम् । वर्धमान स्वे दमे स्वाहा ॥ इदं पञ्चपाण्डवेभ्यो न मम । ॐ उग्रश्च भीमश्च ध्वान्तश्च धुनिश्च सासवांश्चाभि- युग्वा च विक्षिपः स्वाहा ॥ इदं भीमसेनाय न मम । ॐ पितृभ्यः स्वधायिभ्यः स्वधा नमः पितामहेभ्यः स्वधा- विभ्यः स्वधा नमः प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः । अक्षन् पितरोमीमदन्त पितरोतीतृपन्त पितरः पितरः शुन्धध्वम् स्वाहा ॥ इदं पितृभ्यो न मम । अत्र प्रणीतोदक स्पर्शः । ॐ ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् । अजसूङ्- धर्ममीमहे । उपश्रामगृहीतोसि वैश्वानराय त्वेष ते योनिवँश्वा- नराय त्वा स्वाहा ॥ इदं वैश्वानराय न मम । ॐ वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानाम मिश्रीः । इतो जातो विश्वमिदं विचष्टे वैश्वानरो यतते सूर्येण । उपयामगृहीतोसि वैश्वानराय त्वैष ते योनिर्वैश्वानराय त्वा स्वाहा । इदं वैश्वानराय न मम । ॐ वैश्वानरो नsऊतयsया प्रयातु परावतः अग्निरुक्थेन वाहसा । उपयामगृहीतोसि वैश्वानराय त्वैष ते योनिवैश्वानराय त्वा स्वाहा ॥ इदं वैश्वानराय न मम । ॐ आकाशे यानि तीर्थानि यानि तीर्थानि भूतले । पाताले यानि तीर्थानि सर्व तीर्थं नमोऽस्तुते स्वाहा ॥ ॐ आकाशे सन्ति ये देवा ये देवाः सन्ति भूतले । पाताले सन्ति ये देवाः सर्वदेव नमोऽस्तु ते स्वाहा ॥ ॐ आकाशे यानि लिङ्गानि यानि लिङ्गानि भूतले । पाताले यानि लिङ्गानि सर्वलिङ्ग नमोऽस्तु ते स्वाहा ॥ ततो हुतशेषहविर्द्रव्यं गृहीत्वा ब्रह्मान्वारब्धः स्विष्टकृद्धोमं कुर्यात्  ( यद्यपि प्रचलित पद्धतिहरूमा प्रजापतिहोमसम्मको सम्पूर्ण होम समाप्ति भएपछि सबैभन्दा पछाडि 'स्विष्टकृद् होम' राखिएको छ तापनि "प्राइमहाव्याहृतिभ्यः स्विष्टकृद् धन्यच्वेदाज्या द्धविः" अर्थात् आज्यनिदेखि अतिरिक्त चर आदि अन्य हविहरू पनि भएको यज्ञमा महा व्याहृतिहोमभन्दा अगाडि स्विष्टकृद्धोम गर्नु भन्ने सूत्र वचन र शिष्ट प्रयोग पनि देखिएकोले यहाँ पनि महाव्याहृतिहोमभन्दा अगाडि स्विष्टकृद्धोम राखिएको छ । ) ॐ अग्नये स्विष्टकृते स्वाहा। इदमग्नये स्विष्टकृते न मम ततः संस्रवप्राशनम् । ततो महाव्याहृत्यादि उत्तराङ्गहोम । तद्यथा ॐ महाव्याहृतीनां प्रजापतिऋषिरग्निवायसूर्या देवता गायत्र्युष्णिगनुष्टुभन्छन्दांसि अग्न्याधाने विनियोगः । ॐ भूः स्वाहा । इदमग्नये न मम । प्रोक्षणीपात्रेऽपि । ॐ भुवः स्वाहा। इवं वायवे न मम प्रोक्षणीपात्रेऽपि । ॐ स्वः स्वाहा । इवं सूर्याय न मम । प्रोक्षणीपात्रेऽपि। एता महाव्याहृतयः । ॐ स्वन्नोऽअग्न इति वामदेवऋषिरग्नीवरुणौ देवते त्रिष्टुप्छन्द आज्यहोमे विनियोगः । ॐ त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽग्रवयासिसीष्ठाः । यजिष्ठो वन्हितमः शोशुचानो विश्वा द्व ेषा सि प्रमुमुग्ध्यस्मत् स्वाहा ॥ इदमग्नीवरुणाभ्यां न मम । प्रोक्षणीपात्रेऽपि । ॐ सत्यन्नोऽअग्न इति वामदेवऋषिरग्नीवरुणौ देवते त्रिष्टुप्छन्द आज्यहोमे विनियोगः । ॐ स त्वन्नो अग्नेवमो भवोती नेदिष्ठो 5 अस्याs उषसो व्युष्टौ । अवयव नो वरुण रराणो वीहि मृडीक सुहवो न एधि स्वाहा । इदमग्नीवरुणाभ्यां न मम । प्रोक्षणीपात्रेऽपि । ॐ अयाश्चान्न इति वामदेवऋबिरग्निर्देवता त्रिष्टुप्छन्दः प्रायश्चित्तहोमे विनियोगः । ॐ अयाश्चाग्नेस्यनभिशस्तिपाश्च सत्यमित्वमयाs असि । अया नो यज्ञं वहास्यया नो धेहि भेषजः स्वाहा ॥ इदमग्नये न मम । प्रोक्षणीपात्रेऽपि । ॐ ये ते शतमिति वामदेव ऋषि स्त्रिष्टुप्छन्दो वरुणः सविताविष्णु विश्वेदेवा मरुतः स्वर्का देवता प्रायश्चित्तहोमे विनियोगः । ॐ ये ते शतं वरुणं ये सहसं यज्ञियाः पाशा वितता महान्तः । तेभिर्नो अद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा ॥ इयं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वकैभ्यो न मम । प्रोक्ष- णीपात्रेऽपि । ॐ उदुत्तममिति शुनःशेपऋविस्त्रिष्टुपछन्दो वरुणो देवता पाशान्मोचने विनियोगः । ॐ उदुत्तमं वरुण पाशमस्मदवाधमं विमध्यमं श्रथाय । अथावयमादित्यव्रते तवानागसो अदितये स्याम स्याहा ॥ इदं वरुणाय न मम । प्रोक्षणीपात्रेऽपि । ॐ प्रजापतय इति प्रजापतिऋषि स्त्रिष्टुप्छन्दः प्रजापतिर्देवता आज्यहोमे विनियोगः । ॐ प्रजापतये स्वाहा । इदं प्रजापतये न मम । ( इति मनसा ) एवं होमं समाप्याग्नेः स्थापितदेवतानां चोत्तरपूजनं कार्यम् ॐ अथेत्यादि पूर्वसङकल्पसिद्धिरस्तु मम कृतस्यामुककर्मणः साङ्गता सिद्धयर्थं स्थापितदेवतानां मृडानेश्चोत्तरपूजनं करिष्ये । इति सङकल्प्य ॐ अग्ने नय सुपथा रायेऽअस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम 5 उक्ति विधेम ॥ (ॐ मृडाग्नये नमः । इति गन्धाद्युपचारैः सम्पूज्य स्थापितदेवताश्च गन्धाद्युपचारः । सम्पूजयेत् । अनया पूजया मृडाग्निः स्थापितदेवताश्च प्रीयन्तां न मम इति) ततो होता- ॐ अथेत्यादि कृतस्यामुककर्मणः परिपूर्णतासिद्धयर्थं पूर्णाहूति होम विय्ये । इति सकल्प्य ॐ मूर्धानन्दिवोऽ अतिं पृथिव्याः वैश्वानरमृतs आजात- ग्निम्। कवि समाजमतिथिञ्जनानामासन्ना पावञ्जनयन्त देवा: स्वाहा ॥ इति पूर्णाहुति होमयेत् । सुवश्च मऽइति स्रुवपूजनम् ॐ स्त्रवश्च मे चमसाश्च मे वायव्यानि च मे द्रोणकलशश्च मे ग्रावाणश्चमेधिषवणे च मे पूतभृच्चम आधवनीयश्च मे वेदिश्च मे वहश्च मेवभृथश्च मे स्वगाकाराश्च मे यज्ञेन कल्पन्ताम् ॥ अथ पूर्णपात्रदानम् रौप्यं ता मृण्मयं वा यत्संभवं पात्रं फलवस्त्रद्रव्यसहितं षट्पञ्चाशदधिकद्विशत- मुष्टिपरिमितं बहुभोक्तृपुरुषाहारपरिमितं वा तण्डुलयुतं पूर्णपात्रमादाय पूर्णादवति पूर्णपात्रं ब्राह्मणं च त्रिः सम्पूज्य ॐ पूर्णादव परापत सुपूर्णा पुनरापत । वस्नेव विक्रीणा वहाऽइषमूर्जः शतक्रतो । ॐ अद्येत्यादि अस्मिन्नमुककर्माङ्गभूत होमकर्मणि कृताकृतावेक्षणरूप ब्रह्मकर्म- प्रतिष्ठार्थमिदं पूर्णपात्रं प्रजापतिदैवतं यथानामगोत्राय यथानामशर्मणे ब्राह्मणाय तुभ्य- महं संप्रददे । इति सङ्कल्प्य पूर्णपात्रं ब्रह्मणे दद्यात् । ॐ स्वस्तीति प्रतिवचनम् । ततः प्रणीताविमोक: ॐ सुमित्रिया न आप ओषधयः सन्तु । इतिमन्त्रेण पवित्राभ्यां प्रणीतोदकेन कर्तुः शिरः सम्मृज्य ॐ दुर्मित्रियास्तस्मै सन्तु योस्मान् द्वेष्टि यञ्च वयं द्विष्मः । इति मन्त्रेणैशान्यां प्रणीतापात्रं न्युब्जीकुर्यात् । ततस्तरणक्रमेणैव बहिरुत्थाप्य आज्येनाभिधार्य 'देवा गातुविद' इति पठित्वा हस्तेनैव होमयेत् । ॐ देवा गातुविदो गातुं वित्त्वा गातुमित । मनसस्पतs इमन्देव यज्ञ स्वाहा वाते धाः स्वाहा ॥ इति बर्हिहोमः । अथ महाबलिः माषतण्डुलाद्यन्नकुङकुमादिगन्धरक्तपुष्पादियुतं सदीपं सबस्त्रं सदक्षिणं सजलं बल क्षेत्रपालाय दद्यात् । तत्र मन्त्रः ॐ क्षेत्रपालाय भूतप्रेतपिशाचराक्षसशाकिनीडाकिनी वेतालादिपरिवारयुताय इमं बलिसमर्पयामि, भो भो क्षेत्रपाल ! इमं बलि गृहाण, मम यजमानस्य आयुः कर्ता क्षेमकर्ता वरदस्तुष्टिदो भव । इति पठित्वा बल शूद्रेण ब्राह्मणेन वा चतुष्पथे विसर्जयेत् । तत आचार्यः प्रक्षालितपाणिपाद आचामेत् । यज्ञान्तगोदानम् यजमानोऽग्नेः पश्चिमभागे प्राङ्मुख उपविश्य उदशमुखेभ्य आचार्य ऋत्विगादिभ्यो दक्षिणां दद्यात् । तत्रादी गोपूजनम् ॐ नमो गोभ्यः श्रीमतीभ्यः सौरभेयिभ्य एव च । नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः ॥ ॐ इरावती धेनुमती हि भूतः सूयवसिनी मनवे दशस्या । व्यस्कन्ना रोदसी विष्णवे ते दाधर्थं पृथिवीमभितो मयूखैः स्वाहा ॥ इति मन्त्रद्वयेन गां त्रिः सम्पूज्य, ॐ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यञ्च । हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥ इति मन्त्रेण ब्राह्मणं त्रिः सम्पूजयेत् । ततः कुशजलेन गामभ्युक्ष्य गोपुच्छं गृहीत्वा पूर्व' तर्पयित्वा पश्चात् स्वशिरसि अभिषिचेदनेन मन्त्रेण ॐ मनो मे तर्पयत वाचं मे तर्पयत प्राणं मे तर्पयत चक्षुर्मे तर्पयत श्रोत्रं मे तर्पयतात्मानं मे तर्पयत प्रजां मे तर्पयत पशून्मे तर्पयत गणान्मे तर्पयत गणा मे मा वितृषन् । ततः कुशादिसहितं गोपुच्छमादाय ॐ तत्सत् विष्णुः ३ इत्यादि देशकालौ स्मृत्वा (अमुक) गोत्र: (अमुक) प्रवरः (अमुक) शर्मा (श्रीरमुक) देवताप्रीतये | अमुक) कर्माङ्गत्वेन कृतस्य यथालब्धय वारैः पूजनपूर्वकहवनकर्मणः साङ्गतासिद्धये अस्य कर्मणः साद्गुण्यफला- वाप्तये इमां गां रुद्रदेवतां तत्प्रत्याम्नायीभूतं (अमुक) द्रव्यम् (अमुक वैवतं वा ) (अमुक) गोत्राय (अमुक) शर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे । प्रार्थना ॐ कपिले सर्वदेवानां पूजनीयासि रोहिणी । तीर्थदेवमयी यस्मात्तस्माच्छान्तिं प्रयच्छ मे । ततो दानप्रतिष्ठार्थं कुशादिसहितं द्रव्यमादाय ॐ अद्य कृतैतदमुककर्मणः साङगतासिद्धिद्वारा श्रीपरमेश्वरप्रीतये गोदानप्रतिष्ठार्थमिदं द्रव्यं रजतखण्डं चन्द्रदैवतं (तामूखण्डं श्रीसूर्यदेवतं वा ) (अमुक) गोत्राय (अमुक) शर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे । बाह्मणश्व ॐ स्वस्तीत्युक्त्वा कोदादिति कामस्तुति पठेत् ॐ कोदात् कस्माऽअदात् कामोदात् कामायादात् । कामोदाता कामः प्रतिग्रहीता कामैतत्ते ॥ इति अथ मेधाकरणम् घृतपूर्ण स्रुवे नारिकेलपूगीफलादिकं चन्दनपुष्पाणि च निधाय घृतधारां पातयन्।  होमयेदेभिर्मन्त्रैः ॐ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनि मेधामया सिष स्वाहा ॥ ॐ यां मेधां देवगणाः पितरश्चोपासते । तया मामद्य मेधयाग्ने मेधाविनं कुरू स्वाहा ॥ ॐ मेधां मे वरुणो ददातु मेधामग्निः प्रजापतिः । मेधामिन्द्रश्च वायुश्च मेधां धाता ददातु मे स्वाहा ॥ ॐ प्राकृतिर्माग्न प्रयुजः स्वाहा वाचो विधुतिमग्निं प्रयुजः स्वाहा प्रजापतये मनवे स्वाहाग्नये वैश्वानराय स्वाहा ॥ ॐ सप्त ते अग्ने समिधः सप्तजिव्हाः सप्त ऋषयः सप्तधाम प्रियाणि । सप्तहोनाः सप्तधा त्वा यजन्ति सप्त योनीरापृणस्व घृतेन स्वाहा ॥ ॐ पूर्णादव परापत सुपूर्णा पुनरापत । वस्नेव विक्री- णावहाऽइषमूर्ज] शतक्रतो ॥ ॐ इदं मे ब्रह्म च क्षवञ्चोभे श्रियमश्नुताम् । मयि देवा दधतु श्रियमुत्तमां तस्यैते स्वाहा ॥ शेषचरुहोमः तत्रादौ एघोसीति वस्त्रहोमः, अभ्यादधामीति शेषचरहोमः यजमानः सपरिवारो बन्धुवर्गः सह घृताक्तवस्त्रचन्दनपुष्पफलचर्वादिभिरग्नि सम्पूजयेवनेन मन्त्रेण ॐ एधोस्येधिषीमहि समिदसि तेजोसि तेजो मयि धेहि । समाववति पृथिवी समुषाः समुसूर्यः समुविश्वमिदं जगत् । वैश्वानरञ्ज्योतिभूयासं विभून्कामान्व्यश्नवै भूः स्वाहा ॥ इति वस्त्रहोमः । ततः शेषचरुहोमः ॐ अभ्यादधामि समिधमग्ने वृतपते त्वयि । वृतञ्च श्रद्धाञ्चोपैमीन्धे त्वा दीक्षितोऽअहम् || ॐ यत्र ब्रह्म च क्षवञ्च सम्यञ्चौ चरतः सह । तँल्लोकं पुण्यं प्रज्ञेषं यत्र देवाः सहाग्निना ॥ ॐ यवेन्द्रश्च वायुश्च सम्यञ्चौ चरतः सह । तँल्लोकं पुण्यं प्रज्ञेषं यत्र सेदिर्न विद्यते स्वाहा ॥ इति शेषचरुहोमः । ततः सुवेण भस्म किञ्चिद् गृहीत्वा अवशिष्टाज्येन पिष्ट्वा ततिलकं हस्तेन स्पृष्ट्वाभिमन्त्रयेदनेन मन्त्रेण । ॐ अग्नये गायत्त्राय त्रिवृते राथन्तरायाष्टाकपालऽइन्द्राय वैष्टुभाय पञ्चदशाय बार्हतायैकादशकपालो विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो द्वादशकपालो मित्राववरुणा- भ्यामानुष्टुभाभ्या कविः शाभ्यां वैराजाभ्यां पयस्या बृहस्पतये पाङ्क्ताय विणवाय शाक्वराय चरुः सवित्रs श्रौष्णिहाय वय शाय रैवताय द्वादशकपालः प्राजापत्यश्चरूरदित्यै बिष्णुपत्न्यै चरुरग्नये वैश्वानराय द्वादशकपालोनुमत्या ऽ श्रष्टाकपालः ॥ ततो यजमानस्य तिलकं कुर्यात् । ॐ व्यायुष जमदग्नेः । इति ललाटे ॐ कश्यपस्य त्र्यायुषम् । इति प्रीवायाम् । ॐ यद्देवेषु त्र्यायुषम् इति दक्षिणबाहुमूले। ॐ तन्नो अस्तु त्र्यायुषम् । इति हृदि । ततो यजमानो घृते छायां निरीक्ष्य तं ब्राह्मणाय दद्यात् । तत्र क्रमः । ( रौप्य- पात्रे ताम्रपत्रे) कांस्यपात्रे वा घृतं सुवर्ण च निधाय तेजोसि ध्रुवासि इति मन्त्रद्वयं पठ्न छायां निरीक्षेत । घृतच्छाया तेजोसीति परमेष्ठीऋषिर्गायत्री छन्दः आज्यं देवता आज्यावेक्षणे विनियोगः । ॐ तेजोसि शुक्रममृतमायुष्पाs आयुर्मे पाहि । देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे ॥ ॐ धू वासि ध वोयं यजमानोस्मिन्नायतने प्रजया पशुभिभूयात् । घृतेन द्यावापृथिवी पूर्येथामिन्द्रस्य छदिरसि विश्वजनस्य छाया । तत आज्यं स्पृष्ट्वा पठेत्

ॐ अलक्ष्मीर्यच्च दौस्थ्यं मे सर्वगात्रेष्ववस्थितम् । तत्सर्वं शमयाज्य त्वं लक्ष्मी पुष्टिं च वर्धय ॥ ॐ आज्यं तेजः समुद्दिष्टमाज्यं पापहरं शुभम् । आज्यं सुराणामाहारमान्य लोकाः प्रतिष्ठिताः ॥ ॐ नमोऽन्तरिक्षं दिव्यं वा यन्मे किल्विषमागतम् । सर्वं तदाज्यसंस्पर्शात् प्रणाशमुपगच्छतु ॥ ततो दूर्वा स्पृष्ट्वा पठेत् ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि । एवा नो दुर्वे प्रतनु सहस्रेण शतेन च ॥ ॐ या क्षीरसागरोत्पन्ना दूर्वा पीयूषसम्भवा । तत्संस्पर्शनमात्रेण हयायुर्वृ द्धिर्यशोबलम् ॥ ततस्तदाज्यपात्रं कुशतिलजलसहितमादाय ॐ अथेहेत्यादि मम दुःस्वप्नदुर्निमित्तादिसर्वारिष्टोपशमनपूर्वकमसमानतेजः प्रज्ञाशौर्य यशोबलायुर्लक्ष्मी पुष्टिवर्धनार्थमिदमाज्यं मृत्युञ्जयदैवतं ( रौप्यं ताम्रं वा ) कांस्यपात्रं चन्द्रदैवतं सुवर्णमग्निदेवतं (अमुक) गोत्राय (अमुक) शर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे । ततो महामृत्युञ्जयः प्रीयतामिति संप्रायं दानप्रतिष्ठां दद्यात् । (य) अथ भूयसीदक्षिणा विसर्जनं च तत्रादौ भूयसीदक्षिणादानम् ॐ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥ इति देयम् ब्राह्मणं च त्रिः सम्पूज्य कुशादिसहितं दक्षिणाद्रव्यमादाय हरिः ॐ तत्सद्विष्णुरित्यादि पूर्वसङ्कल्पमुच्चार्य (अमुक) गोत्र: (अमुक) शर्माहं कृतस्यामुककर्मणो (अमुकदेवताप्रीतये कृतस्य पूजनहवनादिकर्मणः) न्यूनातिरिक्त- परिपूरणार्थं यथोक्तफलप्राप्त्यर्थमिदं दक्षिणार्थममुक द्रव्यममुक दैवतं नानानामगोत्रेभ्यो नानानामशर्मभ्यो ब्राह्मणेभ्यो दीनानाथेभ्यश्च यथायोग्यभागं विभज्य यथाकाले दातुमहमुत्सृजे । इति जले उत्सृजेत् । अथ सिद्धान्नदानम् ( आमान्नदानं वा) ॐ अद्येहामुकगोत्रोऽमुकशर्माहं कृतस्यामुककर्मणो यथावत्फलप्राप्तये नानानाम- गोत्रान्नानानामशर्मणो ब्राह्मणान् यथोपपन्नेनान्नेन भोजयिष्ये ( आमान्नपक्षे-सन्तोष- यिष्ये) । ततो विसर्जनम् ततः कर्ता देवायार्घ्यं निवेद्य स्वबन्धुवर्गेर्ब्राह्मणैश्च सह यज्ञे देवेषु च पुष्पाक्षता: क्षिपन् यानि कानीति मन्त्रेण यज्ञप्रदक्षिणं कुर्यात् ॐ यानि कानि च पापानि जन्मान्तरकृतानि च । तानि तानि प्रणश्यन्तु प्रदक्षिणपदे पदे ॥ इति प्रदक्षिणीकृत्य नमस्कुर्यात् । ततः पुष्पाक्षतैः ब्रह्माणं संपूज्य 'उत्तिष्ठ ब्रह्मणस्पते' इति विसृज्य उत्थापयेत् ॐ उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे । उपप्रयन्तु मरुतः सुदानव इन्द्रप्राशुर्भवा सचा ॥ ततो यान्तु देवेति पुष्पाक्षर्तरभ्यर्च्य देवान् विसर्जयेत् ॐ • यान्तु देवगणाः सर्वे पूजामादाय पार्थिवीम् । इष्टकामप्रसिद्धयर्थं पुनरागमनाय च ॥ • गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर । यत्र ब्रह्मादयो देवास्तत्र गच्छ हुताशन ॥ ॐ आवाहनं न जानामि न जानामि विसर्जनम् ।। पूजां चैव न जानामि क्षमस्व परमेश्वर ॥ ततो यस्य स्मृत्येति अच्युतं नमस्कुर्यात् ॐ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ ॐ अच्युताय नमः ३ । ततः कर्मपात्रावशिष्टजलादिकमादाय ॐ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतस्वभावात् "करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पये तत् ॥ एतत्कर्म श्रागमस्तु । इतीश्वरं ध्यात्वोत्सृजेत् । तताऽञ्जल वध्वा ॐ चतुभिश्च चतुभिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्द्वाभ्यां स मेविष्णुः प्रसीदतु ॥ ॐ विष्णवे नमः ३ । तत्सद्ब्रह्मार्पणमस्त्विति कर्मेश्वरापणं कुर्यात् (र) अथाभिषेकः प्रसादग्रहणं च तत्राभिषेकः । आचार्यादयो ब्राह्मणाः शान्तिकलशोदकेन पोराणिक वैदिकैश्च मन्त्रैर्यजमानस्याभिषेकं कुर्युः । तत्रादौ पौराणिका मन्त्राः ॐ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः । वासुदेवो जगन्नाथ स्तथा सङ्कर्षणो विभुः ॥ प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ॥ २ आखण्डलोऽग्निर्भगवान् यमो वै निर्ऋतिस्तथा । वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः । ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु ते सदा ॥ कीर्तिलक्ष्मोधू तिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः ॥ बद्धिर्लज्जा वपुः शान्तिस्तुष्टिः कान्तिश्च मातरः । एतास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः । देवदानवगन्धर्वायक्षराक्षसपन्नगाः ॥ ऋषयो मनवो गावो देवमातर एव च । देवपत्न्यो द्रुमा नागा दैत्येश्चाप्सरसो गणाः ॥ अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च । औषधानि च रत्नानि कालस्यावयवाश्च ये ॥ सरितः सागराः शैला स्तीर्थानि जलदा नदाः । एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥ इति पौराणिका मन्त्राः । अथ वैदिका मन्त्राः ॐ देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्या- म् । अश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसायाभिषिञ्चामि सरस्वत्यै भैषज्येन विर्यायान्नाद्यायाभिषिञ्चामीन्द्रस्येन्द्रियेण बलाय श्रियै यशसेभिषिञ्चामि ॥ ( यजु: - २०१४ ) ॐ कोसि कतमोसि कस्मै त्वा काय त्वा । सुश्लोकसुमङ्गल सत्यराजन् ॥ शिरो मे श्रीर्यशो मुखंत्विषिः केशाश्च श्मश्रूणि । राजा मे प्राणो अमृत सम्राट् चक्षुवराट् श्रोत्रम् ॥ (यजुः - २०१५ ) ॐ जिह्वामेभद्रं वाङ्महो मनो मन्युः स्वराड् भाम। मोदाः प्रमोदाs अङ्गुलीरङ्गानि मित्रं मे सहःः । 1 (यजु: - २०१६) ॐ बाहू मे बलमिन्द्रियः हस्तौ मे कर्म वीर्यम् । श्रात्मा क्षत्रमुरो मम ॥ ( यजु: - २०१७ ) ॐ पृष्टीमें राष्ट्रमुदरम8 सौ ग्रीवाश्च श्रोणी । ऊरू अरत्नी जानुनी विशो मेङ्गानि सर्वतः ॥ (यजुः २०४८ ) ॐ नाभिमें चित्तं विज्ञानं पायुर्मेपचित्तिर्भसत् । श्रानन्द नन्दावाण्डौ मे भगः सौभाग्यं पसः । जङ्घाभ्यां पद्भ्यां धर्मोस्मि विशि राजा प्रतिष्ठितः । (यजुः २०१६ ) ॐ प्रतिक्षत्रे प्रतितिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रतितिष्ठामि गोषु । प्रत्यङ्गेषु प्रतितिष्ठाम्यात्मन् प्रतिप्राणेषु प्रतितिष्ठामि पुष्टे प्रतिद्यावापृथिव्योः प्रतितिष्ठामि यज्ञे । (यजुः २०1१० ) ॐ त्रया देवाऽएकादश त्रयस्त्रिः शाः सुराधसः । बृहस्पति पुरोहिता देवस्य सवितुः सवे । देवा देवैरवन्तु मा ।। (यजुः २०१११) ॐ प्रथमा द्वितीयद्वितीयास्तृतीयैस्तृतीयाः । सत्येन सत्यं यज्ञेन यज्ञो यजुभिर्यजुषि सामभिः सामान्यूग्भिर्ऋचः पुरोनु- वाक्याभिः पुरोनुवाक्या याज्याभिर्याज्या वषट्कारैर्वकाराऽ आहु- तिभिराहुतयो मे कामान्त्समर्धयन्तु भूः स्वाहा ॥ (यजुः २०१२ ) ॐ द्यौः शान्तिरन्तरिक्षः शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः वनस्पतयः शान्तिविश्वेदेवाः शान्ति- ब्रह्म शान्तिः सर्वः शान्तिः शान्तिरेव शान्तिः सामाशान्ति रेधि ॥ (यजुः (३६।१७) ॐ सर्देवहितं पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदः शतं जीवेम शरदः शतः शृणुयाम शरदः शतं प्रब्रवाम शरदः शतमदीनाः स्याम शरदः शतं भूयश्च शरदः शतात् ॥ (यजुः ३६।२४) ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्व- वेदाः । स्वस्ति नस्ताक्ष्यों अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्द धातु । (यजुः २५।१६) ॐ विश्वानि देव सवितर्दुरितानि परासुव । यद्भद्रं तन्न आसु ॥ (यजुः ३०१३) ॐ यथेमां वाचं कल्याणीमावदानि जनेभ्यः ब्रह्मराज- न्याभ्या शूद्राय चार्याय च स्वाय चारणाय च । प्रियो देवानां दक्षिणायै दातुरिह भूयासमयं मे कामः समृध्यतामुपमादो नमतु ॥ (यजुः २६२ ) इत्यभिषेकः ॥ अथ प्रसादग्रहणम् तत आचार्यादयो हस्ते प्रसादादिकं गृहित्वा 'आब्रह्मन्' इत्याद्याशीर्वादमन्त्रान् ॐ आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामाराष्ट्र राजन्यः शूरsइषव्योतिव्याधी महारथो जायतान्दोग्ध्री धेनुर्वो- ढानड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायतां निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो नsओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् । (यजुः - २२१२२) ॐ दीर्यास्त ओषधे खनिता यस्मै च त्वा खनाम्य- हम् । अथोत्वन्दीर्घायुर्भूत्वा शतवल्शा विरोहतात् ॥ (यजुः- १२1१०० ) कामाः ॥ ॐ पुनस्त्वादित्या रुद्रा वसवः समिन्धतां पुनर्ब्रह्माणो वसुनीथ यज्ञैः । घृतेन त्वं तन्वं वर्धयस्व सत्याः सन्तुयजमानस्य (यजु: - १२।४४ ) ॐ मनसः काममाकूतिं वाचः सत्यमशीय । पशूनां रूप- मन्नस्य रसो यशः श्रीः श्रयताम् ॥ ( यजुः- ३६१४ ) ॐ आयुष्यं वर्चस्य रायस्पोषमौद्भिदम् । इदः हिरण्यं वर्चस्व जैत्रायाविशतादुमाम् ॥ (यजु: - ३४।५० ) ॐ न तद्रक्षा सि न पिशाचास्तरन्ति देवानामोजः प्रथमज हघेतत् । यो बिर्भात दाक्षयणः हिरण्यः स देवेषु कृणुते दीर्घमायुः स मनुष्येषु कृणुते दीर्घमायुः ॥ (यजुः- ३४।५१) अथ रक्षाबन्धनम् ॐ येन बद्धो बलीराजा दानवेन्द्रो महाबल । तेन त्वां प्रतिबध्नामि रक्षे मा चल मा चल । ॐ त्वं यविष्ठ दाशुषो नँ: पाहि शृणुधी गिरः ॥ रक्षा तोकमुतत्मना ॥ ॥ इति ॥ ततस्तिलककरणम् ॐ त्र्यायुषज्जमदग्नेः । इति ललाटे । ॐ कश्यपस्य त्र्यायुषम् । इति प्रीवायाम् । ॐ यद्देवेषु त्र्यायुषम् । इति दक्षिणबाहुमूले । ॐ तन्नोऽस्तु त्र्यायुषम् । इति हृदि । ॐ स्वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु गोवाजिहस्ति धनधान्यसमृद्धिरस्तु । ऐश्वर्यमस्तु विजयोsस्तु रिपुक्षयोऽस्तु सन्तान वृद्धिसहिता हरिभक्तिरस्तु ॥ इत्याशीर्वादपुरःसरं ब्राह्मणहस्तेन प्रसादादिकं गृहीत्वा ब्राह्मणान् भोजयित्वा स्वयमपि सुहृद्युक्तो भुञ्जीत ।

॥ इत्यग्निस्थापनविधिः ॥

ஜப எண்ணிக்கை: 0/108