સનાતન સ્તોત્ર સંગ્રહ
Saraswati Devi
સનાતન દેવ

.. શ્રીસરસ્વતીકવચમ્ ..

॥ श्रीसरस्वतीकवचम् ॥
રચયિતા: પારંપરિક વાચન સંખ્યા: 1
23px
॥ श्रीसरस्वतीकवचम् ॥ भैरव उवाच  श‍ृणु देवि! प्रवक्ष्यामि वाणीकवचमुत्तमम् । त्रैलोक्यमोहनं नाम दिव्यं भोगापवर्गदम् ॥ १॥ मूलमन्त्रमयं साध्यमष्टसिद्धिप्रदायकम् । सर्वैश्वर्यप्रदं लोके सर्वाङ्गमविनिश्चितम् ॥ २॥ पठनाच्छ्रवणात् देवि! महापातकनाशनम् । महोत्पातप्रशमनं मूलविद्यामनोहरम् ॥ ३॥ यद्धृत्वा कवचं ब्रह्मा विष्णुरीशः शचीपतिः । यमोऽपि वरुणश्चैव कुबेरोऽपि दिगीश्वराः ॥ ४॥ ब्रह्मा सृजति विश्वं च विष्णुर्दैत्यनिसूदनः । शिवः संहरते विश्व जिष्णुः सुमनसां पतिः ॥ ५॥ दिगीश्वराश्च दिक्पाला यथावदनुभूतये । त्रैलोक्यमोहनं वक्ष्ये भोगमोक्षैकसाधनम् ॥ ६॥ सर्वविद्यामयं ब्रह्मविद्यानिधिमनुत्तमम् । त्रैलोक्यमोहनस्यास्य कवचस्य प्रकीर्तितः ॥ ७॥ विनियोगः - ऋषिः कण्वो विराट् छन्दो देवी सरस्वती शुभा । अस्य श्रीसरस्वती देवता, ह्रीं बीजं, ॐ शक्तिः, ऐं कीलकं, त्रिवर्गफलसाधने विनियोगः । ऋष्यादिन्यासः - कण्वऋषये नमः शिरसि । विराट् छन्दसे नमः मुखे । देवीसरस्वत्यै नमः हृदि । ह्रीं बीजाय नमः गुह्ये । ॐ शक्तये नमः नाभौ । ऐं कीलकाय नमः पादयोः । त्रिवर्गफलसाधने विनियोगाय नमः सर्वाङ्गे॥ ॐ ऐं ह्रीं ह्रीं पातु वाणी शिरो मे सर्वदा सती । ॐ ह्रीं सरस्वती देवी भालं पातु सदा मम ॥ ८॥ ॐ ह्रीं भ्रुवौ पातु दुर्गा दैत्यानां भयदायिनी । ॐ ऐं ह्रीं पातु नेत्रे सर्वमङ्गलमङ्गला ॥ ९॥ ॐ ह्रीं पातु श्रोत्रयुग्मं जगदभयकारिणी । ॐ ऐं नासा पातु नित्यं विद्या विद्यावरप्रदा ॥ १०॥ ॐ ह्रीं ऐं पातु वक्त्रं वाग्देवी भयनाशिनी । अं आं इं ईं पातु दन्तान् त्रिदन्तेश्वर पूजिताः ॥ ११॥ उं ऊं ऋं ॠं ऌं ॡं एं ऐं पातु ओष्ठौ च भारती । ओं औं अं अः पातु कण्ठं नीलकण्ठाङ्कवासिनी ॥ १२॥ कं खं गं घं ङं पायान्मे चांसौ देवेशपूजिता । चं छं जं झं ञं मे पातु वक्षो वक्षःस्थलाश्रया ॥ १३॥ टं ठं डं ढं णं पायान्मे पार्श्वौ पार्श्वनिवासिनी । तं थं दं धं नं मे पातु मध्ये लोकेशपूजिता ॥ १४॥ पं फं बं भं मं पायान्मे नाभिं ब्रह्मेशसेविता । यं रं लं वं पातु गुह्य नितम्बप्रियवादिनी ॥ १५॥ शं षं सं हं कटिं पातु देवी श्रीवगलामुखी । ऊरू ळं क्षं सदा पातु सर्वाविद्याप्रदा शिवा ॥ १६॥ सरस्वती पातु जङ्घे रमेश्वरप्रपूजिता । ॐ ह्रीं ऐं ह्रीं पातु पादौ पादपीठनिवासिनी ॥ १७॥ विस्मारितं च यत् स्थानं यद्देशो नाम वर्जितः । तत्सर्वं पातु वागेशी मूलविद्यामयी परा ॥ १८॥ पूर्वे मां पातु वाग्देवी वागेशी वह्निके च माम् । सरस्वती दक्षिणे च नैरृत्ये चानलप्रिया ॥ १९॥ पश्चिमे पातु वागीशा वायौ वेणामुखी तथा । उत्तरे पातु विद्या चैशान्यां विद्याधरी तथा ॥ २०॥ असिताङ्गो जलात् पातु पयसो रुरुभैरवः । चण्डश्च पातु वातान्मे क्रोधेशः पातु धावतः ॥ २१॥ उन्मत्तस्तिष्ठतः पातु भीषणश्चाग्रतोऽवतु । कपाली मार्गमध्ये च संहारश्च प्रवेशतः ॥ २२॥ पादादिमूर्धपर्यन्तं वपुः सर्वत्र मेऽवतु । शिरसः पादपर्यन्तं देवी सरस्वती मम ॥ २३॥ इतीदं कवचं वाणी मन्त्रगर्भं जयावहम् । त्रैलोक्यमोहनं नाम दारिद्र्यभयनाशनम् ॥ २४॥ सर्वरोगहरं साक्षात् सिद्धिदं पापनाशनम् । विद्याप्रदं साधकानां मूलविद्यामयं परम् ॥ २५॥ परमार्थप्रदं नित्यं भोगमोक्षैककारणम् । यः पठेत् कवचं देवि! विवादे शत्रुसङ्कटे ॥ २६॥ वादिमुखं स्तम्भयित्वा विजयी गृहमेष्यति । पठनात् कवचस्यास्य राज्यकोपः प्रशाम्यति ॥ २७॥ त्रिवारं यः पठेद् रात्रो श्मशाने सिद्धिमाप्नुयात् । रसैर्भूजे लिखेद् वर्म रविवारे महेश्वरि! ॥ २८॥ अष्टगन्धेर्लाक्षया च धूपदीपादितर्पणैः । सुवर्णगुटिकां तत्स्थां पूजयेत् यन्त्रराजवत् ॥ २९॥ गुटिकैषा महारूपा शुभा सरस्वतीप्रदा । सर्वार्थसाधनी लोके यथाऽभीष्टफलप्रदा ॥ ३०॥ गुटिकेयं शुभा देव्या न देया यस्य कस्यचित् । इदं कवचमीशानि मूलविद्यामयं ध्रुवम् ॥ ३१॥ विद्याप्रदं श्रीपदं च पुत्रपौत्रविवर्धनम् । आयुष्यकरं पुष्टिकरं श्रीकरं च यशः प्रदम् ॥ ३२॥ इतीदं कवचं देवि! त्रैलोक्यमोहनाभिधम । कवचं मन्त्रगर्भं तु त्रैलोक्य मोहनाभिधम् ॥ ३३॥ ॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये सरस्वती कवचम् ॥
પાઠ જપ: 0/108