సనాతన స్తోత్ర నిధి
Nrisimha Stotram
సనాతన దేవ

.. శ్రీలక్ష్మీనృసింహ సుప్రభాతం ..

॥ श्रीलक्ष्मीनृसिंह सुप्रभातम् ॥
రచయిత: పారంపరిక వీక్షణలు: 1
23px

श्री यादगिरि लक्ष्मीनृसिंह सुप्रभातम् श्री वङ्गीपुरम् नरसिंहाcआर्यरचित । कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल! कर्तव्यं दैवमाह्निकम् ॥ १॥

उत्तिष्ठोत्तिष्ठ गोविंद उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गळं कुरु ॥ २॥

यादाद्रिनाथशुभमन्दिरकल्पवल्लि पद्मालये जननि पद्मभवादिवन्द्ये । भक्तार्तिभञ्जनि दयामयदिव्यरूपे लक्ष्मीनृसिंहदयिते तव सुप्रभातम् ॥ ३॥

ज्वालानृसिंह करुणामय दिव्यमूर्ते योगाभिनन्दन नृसिंह दयासमुद्र! । लक्ष्मीनृसिंह शरणागतपारिजात यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ ४॥

श्रीरङ्गवेङ्कटमहीधरहस्तिशैल श्री यादवाद्रिमुखसत्त्वनिकेतनानि । स्थानानि तेकिल वदन्ति परावरज्ञाः यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ ५॥

ब्रह्मादयस्सुरवर मुनिपुङ्गवाश्च त्वां सेवितुं विविधमङ्गळवस्तुहस्ताः । द्वारे वसन्ति नरसिंह भवाब्धिपोत यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ ६॥

प्रह्लाद नारद पराशर पुण्डरीक व्यासादिभक्तरसिका भवदीयसेवाम् । वाञ्छन्त्यनन्यहृदया करुणासमुद्र यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ ७॥

त्वद्दास्यभोगरसिकाश्शठजिन्मुखार्याः रामानुजादिमहनीयगुरुप्रधानाः । सेवार्थ मत्र भवदीयगृहाङ्गणस्थाः यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ ८॥

भक्ता स्त्वदीयपदपङ्कजसक्तचित्ताः काल्यं विधाय तवकन्दर मन्दिराग्रे । त्वद्दर्शनोत्सुकतया निबिडं श्रयन्ते यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ ९॥

दिव्यावतारदशके नरसिंह ते तु दिव्यावतारमहिमा नहि देवगम्यः । प्रह्लाददानवशिशोःकिल भक्तिगम्यः यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ १०॥

श्रीयादवाद्रिशिखरे त्वमहोबिलेऽपि सिंहाचले च शुभमङ्गळशैलराजे । वेदाचलादि गिरि मूर्धसु सुस्थितोसि यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ ११॥

काम्यार्थिनो वरदकल्पक कल्पकं त्वां सेवार्थिनः स्सुजनसेव्यपदद्वयं त्वाम् । भक्त्या विनम्र शिरसा प्रणमन्ति सर्वे यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ १२॥

त्वन्नाममन्त्रपठनेन लुठन्ति पापाः त्वन्नाममन्त्रपठनेन लुठन्ति दैत्याः । त्वन्नाममन्त्रपठनेन लुठन्तिरोगाः यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ १३॥

लक्ष्मीनृसिंह! जगदीश! सुरेश! विष्णो जिष्णो! जनार्दन! परात्पर विश्वरूप । विश्वप्रभातकरणाय कृतावतार यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ १४॥

त्वन्नाममन्त्र पठन।म्किलसुप्रभात।म् अस्माकमस्तु तवcआस्तु cअ सुप्रभातम् । अस्मत्समुद्धरणमेव विcइत्रगाध यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ १५॥

त्वत् पूजका परिव्रुढा परिcआरकाश्cअ नित्यार्cअनाय विधिवद्विहित स्वक्रुत्याः । यत्तस्त्वदीय शुभगह्वर मन्दिराग्रे यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ १६॥

प्राभातकीमुपcइतिम् परिकल्पयन्तः कुण्डाश्cअ पूर्णजलकुम्भमुपाहरन्तः । श्रीवैष्णवाः समुपयान्तिहरे! नृसिंह यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ १७॥

सूर्योऽभ्युदेति विकसन्ति सरोरुहाणि नीलोत्पलानि हि भवन्ति निमीलितानि । प्राग्दिङ्मुखेरुणगभस्तिगणोऽभ्युदेति यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ १८॥

मन्दानिलस्सुर नदीकमलोदरेशु मन्दंविगाह्य शुभसौरभ मादधानः । हर्षप्रकर्षमुपयाति cअ सेवितुं त्वां यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ १९॥

तारागणोवियति मज्जति सुप्रभाते सूर्येणसाकमवलोकयितुं त्वदीयम् । श्रीसुप्रभातमवभासित सर्वलोकं यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ २०॥

पक्षिस्वनाश्cअपरितःपरिसम्पतन्ति कूजन्तिकोकिलगणाःकलकंठरावैः । वाcआ विशुद्धकलयानुवदन्तिकीराः यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ २१॥

पल्लीषु वल्लवजनाःस्वगृहाङ्गणेषु धेनूर्दुहन्ति विनिभान्ति विशेषदृष्ट्या । गोपालबाल इव भक्तहृदम्बुजेषु यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ २२॥

गाढांधकारपटलम् गगनंजहाति मोहान्धकार इव सन्मनुजम् समस्तम् । रागोविराग इव संविशति प्रकामं यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ २३॥

निद्राजहाति हि जनान् सुमुनिं यधावत् प्रज्ञाप्युदेति हि जनेषु मुनौयधावत् । सक्तिर्जनेषु हि यथा cअ मुनौविरक्तिः यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ २४॥

फुल्लानिपङ्कजवनानि विशुद्धसत्त्व फुल्लानि सज्जनमनःकमलानि यद्वत् । भाश्शुद्धसत्वमिव भाति विदिक्षु दिक्षु यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ २५॥

ब्रह्मास्वयंसुरगणैस्सहलोकपालैः धामप्रविश्य तव मण्डपगोपुराढ्यम् । पञ्cआङ्गशुद्धिमभिवर्णयति त्वदीयां यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ २६॥

विख्यातवैद्यजन वञ्cअकरोगजाल विख्यातवैद्य इति रोगनिपीडितास्त्वाम् । निश्cइत्यधाम तव दूरत आपतन्ति यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ २७॥

भूतग्रहादि बलवत्तर तापयुक्ताः बाणावतीमुख महोग्रपिशाcअ विद्धाः । स्नाताःप्रदक्षिणविधा वुपयान्तिनाथ यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ २८॥

सन्तानहीन वनितास्सरसि त्वदीये स्नात्वाजलार्द्रवसनास्तव दर्शनाय । आयान्तिसन्ततिवरप्रद देवदेव यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ २९॥

यद्दुष्ट संहरणमुत्तमलोकरक्षा दीक्षां व्यनक्ति तवरूप महोनृसिंह । तccआत्र यादगिरिमूर्थनिसंविभाति यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ ३०॥

प्रह्लाद पुण्यजनि पुण्यबलात्प्रतीतं रूपं जनस्तवहरे निगमान्तवेद्यम् । प्रातःस्मरंस्तरति संस्मारणाम्बुराशिं यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ ३१॥

श्रीसुप्रभातमिदमcयुतकैतवोक्त मप्यcयुतं भवतुभक्तजनैकवेद्यम् । लक्ष्मीनृसिंह तव नामशुभप्रभावात् यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ ३२॥

इत्थं यादाद्रिनाथस्य सुप्रभात मतन्द्रिताः । ये पठन्ति सदा भक्त्या ते नरास्सुखभागिनः ॥ ३३॥

॥ इति श्रीलक्ष्मीनरसिंह सुप्रभातम् ॥

జప గణన: 0/108