ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
ದೇವೀ ಸ್ತೋತ್ರಮ್
ಸನಾತನ ದೇವ

.. ದುರ್ಗಾಸ್ತೋತ್ರಂ ..

॥ दुर्गास्तोत्रम् ॥
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 2
23px

श्री नारायण उवाच स्तोत्रं च श्रूयतां ब्रह्मन् सर्वविघ्नविनाशकम्। सुखदं मोक्षदं सारं भवसन्तारकारणम्॥

श्रीकृष्ण उवाच त्वमेव सर्वजननी मूलप्रकृतिरीश्वरी। त्वमेवाऽऽद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका॥१॥

कार्यार्थे सगुणा त्वं च वस्तुतो निर्गुणा स्वयम्। परब्रह्मस्वरूपा त्वं सत्या नित्या सनातनी॥२॥

तेजःस्वरूपा परमा भक्तानुग्रहविग्रहा। सर्वस्वरूपा सर्वेशा सर्वाधारा परात्परा॥३॥

सर्वबीजस्वरूपा च सर्वपूज्या निराश्रया। सर्वज्ञा सर्वतोभद्रा सर्वमङ्गलमङ्गला॥४॥

सर्वबुद्धिस्वरूपा च सर्वशक्तिस्वरूपिणी। सर्वज्ञानप्रदा देवी सर्वज्ञा सर्वभाविनी॥५॥

त्वं स्वाहा देवदाने च पितृदाने स्वधा स्वयम्। दक्षिणा सर्वदाने च सर्वशक्तिस्वरूपिणी॥६॥

निद्रा त्वं च दया त्वं च तृष्णा त्वं चाऽऽत्मनः प्रिया। क्षुत्क्षान्तिः शान्तिरीशा च कान्तिस्तुष्टिश्च शाश्वती॥७॥

श्रद्धा पुष्टिश्च तन्द्रा च लज्जा शोभा प्रभा तथा। सतां सम्पत्स्वरूपा श्रीर्विपत्तिरसतामिह॥८॥

प्रीतिरूपा पुण्यवतां पापिनां कलहाङ्कुरा। शश्वत्कर्ममयी शक्तिः सर्वदा सर्वजीविनाम्॥९॥

देवेभ्यः स्वपदो दात्री धातुर्धात्री कृपामयी। हिताय सर्वदेवानां सर्वासुरविनाशिनी॥१०॥

योगनिद्रा योगरूपा योगदात्री च योगिनाम्। सिद्धिस्वरूपा सिद्धानां सिद्धिदा सिद्धियोगिनी॥११॥

माहेश्वरी च ब्रह्माणी विष्णुमाया च वैष्णवी। भद्रदा भद्रकाली च सर्वलोकभयङ्करी॥१२॥

ग्रामे ग्रामे ग्रामदेवी गृहदेवी गृहे गृहे। सतां कीर्तिः प्रतिष्ठा च निन्दा त्वमसतां सदा॥१३॥

महायुद्धे महामारी दुष्टसंहाररूपिणी। रक्षास्वरूपा शिष्टानां मातेव हितकारिणी॥१४॥

वन्द्या पूज्या स्तुता त्वं च ब्रह्मादीनां च सर्वदा। ब्राह्मण्यरूपा विप्राणां तपस्या च तपस्विनाम्॥१५॥

विद्या विद्यावतां त्वं च बुद्धिर्बुद्धिमतां सताम्। मेधा स्मृतिस्वरूपा च प्रतिभा प्रतिभावताम्॥१६॥

राज्ञां प्रतापरूपा च विशां वाणिज्यरूपिणी। सृष्टौ सृष्टिस्वरूपा त्वं रक्षारूपा च पालने॥१७॥

तथाऽन्ते त्वं महामारी विश्वे विश्वैश्च पूजिते। कालरात्रिर्महारात्रिर्मोहरात्रिश्च मोहिनी॥१८॥

दुरत्यया मे माया त्वं यया सम्मोहितं जगत्। यया मुग्धो हि विद्वांश्च मोक्षमार्गं न पश्यति॥१९॥

फलश्रुतिः इत्यात्मना कृतं स्तोत्रं दुर्गाया दुर्गनाशनम्। पूजाकाले पठेद्यो हि सिद्धिर्भवति वाञ्छिता॥२०॥

वन्ध्या च काकवन्ध्या च मृतवत्सा च दुर्भगा। श्रुत्वा स्तोत्रं वर्षमेकं सुपुत्रं लभते ध्रुवम्॥२१॥

कारागारे महाघोरे यो बद्धो दृढबन्धने। श्रुत्वा स्तोत्रं मासमेकं बन्धनान्मुच्यते ध्रुवम्॥२२॥

यक्ष्मग्रस्तो गलत्कुष्ठी महाशूली महाज्वरी। श्रुत्वा स्तोत्रं वर्षमेकं सद्यो रोगात् प्रमुच्यते॥२३॥

पुत्रभेदे प्रजाभेदे पत्‍‌नीभेदे च दुर्गतः। श्रुत्वा स्तोत्रं मासमेकं लभते नात्र संशयः॥२४॥

राजद्वारे श्मशाने च महारण्ये रणस्थले। हिंस्रजन्तुसमीपे च श्रुत्वा स्तोत्रं प्रमुच्यते॥२५॥

गृहदाहे च दावाग्नौ दस्युसैन्यसमन्विते। स्तोत्रश्रवणमात्रेण लभते नात्र संशयः॥२६॥

महादरिद्रो मूर्खश्च वर्षं स्तोत्रं पठेत्तु यः। विद्यावान् धनवांश्चैव स भवेन्नात्र संशयः॥२७॥

॥ इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे षट्षष्टितमेऽध्याये श्री नारदनारायणसंवादे दुर्गोपाख्याने श्रीकृष्णविरचितं श्रीदुर्गास्तोत्रं सम्पूर्णम् ॥

ಜಪ ಎಣಿಕೆ: 0/108