सनातन देव
दुर्गाद्वात्रिंशन्नामावलिः
stotra-2f859150
दुर्गाद्वात्रिंशन्नामावलिः
दुर्गा दुर्गार्तिंशमनी दुर्गाऽऽपद्विनिवारिणी । दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी ॥ १॥
दुर्गतोद्धारिणी दुर्गनिहन्त्री दुर्गमापहा । दुर्गमज्ञानदा दुर्गदैत्यलोकदवानला ॥ २॥
दुर्गमादुर्गमालोका दुर्गमाऽऽत्मस्वरूपिणी । दुर्गमार्गप्रदा दुर्गमविद्या दुर्गमाश्रिता ॥ ३॥
दुर्गमज्ञानसंस्थाना दुर्गमध्यानभासिनी । दुर्गमोहा दुर्गमगा दुर्गमार्थस्वरूपिणी ॥ ४॥
दुर्गमासुरसंहन्त्री दुर्गमायुधधारिणी । दुर्गमाङ्गी दुर्गमता दुर्गम्या दुर्गमेश्वरी ॥ ५॥
दुर्गभीमा दुर्गभामा दुर्गभा दुर्गदारिणी । नामावलिमिमां यस्तु दुर्गाया सुधी मानवः ॥ ६॥
पठेत् सर्वभयान्मुक्तो भविष्यति न संशयः । शत्रुभिः पीड्यमानो वा दुर्गबन्धगतोऽपि वा । द्वात्रिंशन्नामपाठेन मुच्यते नात्र संशयः ॥ ७॥
इति दुर्गाद्वात्रिंशन्नामावलिः