সনাতন স্তোত্র মঞ্জরী
Laxminarayan Samhita
সনাতন দেব

॥ লক্ষ্মীনারায়ণসংহিতা ॥

॥ लक्ष्मीनारायणसंहिता ॥
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 8
23px
लक्ष्मीनारायणसंहिता खण़्डः १ ( कृतयुगसन्तानः ) - अध्यायः २
श्रीनारायण उवाच शृणु लक्ष्मि प्रवक्ष्यामि भक्तस्य द्रवलब्धये । यथा मेऽनुग्रहः प्राप्यस्तद्विधारय तत्त्वतः ।। १ ।। मुक्त सृष्टावीशसृष्टौ जीवसृष्टावपि प्रभुः । असृजत्साकृतीन्सर्वान् शरीरिण इति .स्थितिः ।। २ ।। आत्मा त्विन्द्र इतिप्रोक्तः सर्वशक्तिगुणाश्रयः । मनश्चित्तमहंबुद्धिस्तस्य करणमान्तरम् ।। ३ ।। इन्द्रस्य शक्तयश्चैताश्चतस्रः समुदाहृताः । श्रोत्रत्वङ्नेत्ररसनाघ्राणवाक्पादपाणयः ।। ४ ।। पायूपस्थे चेन्द्रियाणि बहिःकरणकानि हि । दशापि शक्तयश्चैता इन्द्रस्यैव भवन्ति वै ।। ५ ।। ग्राह्येषु तास्तु गच्छन्ति पदार्थेषु बहिर्बहिः । ग्राह्याकारेण ता भूत्वा ग्राह्याकारं भजन्ति च ।। ६ ।। परावृत्य तु ताः सर्वा धार्याकारं भजन्ति च । विध्वाऽन्तःकरणान्येता आत्मानं यान्ति वै यदा ।। ७ ।। भोग्याकारं गतास्ताश्च ता इन्द्रानुभवं गताः । अपरोक्षानुभावोऽयं स्वात्मन्येव भवत्यथ ।। ८ ।। अहमिन्द्रे स्थितः साक्षात्सर्वशक्तिप्रपूरकः । इन्द्रो मद्योगतः पूर्णशक्त्याश्रय इतिस्थितिः ।। ९ ।। आग्राह्यात्तु मदन्तं वै प्रेमतत्त्वं द्रवो मतः । सर्वत्र निहितं तद्वै तेन स्निह्यन्ति मूर्तयः ।। 1.2.१० ।। स्नेहपूर्णाऽऽनन्दपूर्णप्रेमपूर्णः सुखाश्रयः । द्रवपूर्णो ह्यहं विष्णुर्मद्योगाद्द्रववान् हि सः ।। ११ ।। सर्वं स्थूलं तथा सूक्ष्मं चेतनं चाऽन्यदेव वा । मद्द्रवाद्द्रवितं सर्वं मेऽनुग्रहोऽत्र कारणम् ।। १ २।। 'अयं तु द्रवितो भूयादितिमेऽनुकृपा भवेत् । तदा द्रवति तत्कालं नाऽन्यथा तु कदाचन ।। १३ ।। मत्कृपायाः साधनं तु सर्वस्वात्मार्पणं मतम् । सर्वदाऽहं कृपापूर्णः कृपालुः करुणोदधिः ।। १४।। भक्तोल्लासात्कृपावृष्टिं करोमि कृपयाऽन्वितः । यथा यथा कृपाया मे प्रवाहो विशति ध्रुवे ।। १५।। भक्ते तथा तथा तत्त्वं द्रवतां यात्यभीक्ष्णशः । एक एवाऽद्वितीयोऽहं स्थितोऽस्म्यक्षरधामनि ।। १ ६। । मन्मूर्तौ तत्र मे मुक्ता ब्रह्म चाऽक्षरमित्यपि । द्रवन्ति प्रेमबाहुल्यान्मेऽनुग्रहबलादपि । । १७।। तदा सम्राड्विराजेऽहं न किञ्चिद्व्यतिरिच्यते । मुक्तिं सेयं तदैक्यात्माऽऽप्यते तत्स्थितिवेदिभिः ।। १८।। स एकाकी न रमते चेच्छद्द्वितीयमात्मनः । ब्रह्म तच्चाऽक्षरं तस्मात्प्रादुर्भूतं महात्मनः । । १ ९।। द्वेधाऽभूत्तन्निराकारं साकारं चेशवाञ्च्छया । निराकारं परं धाम यस्माद् धामानि जज्ञिरे । । 1.2.२० । । साकारं स्वसमाकारं मूर्तं मूर्त्यनुरूपकम् । स हरिस्तु पुनरैच्छन्नैकरूपत्वमात्मनः ।। २१ ।। मुक्ता अनादिनस्तस्मात्प्रादुर्भूता अनन्तशः । तत्राऽऽसँस्तन्मण्डलानि त्रिपादे दिवि चामृते।। २२।। मुक्ता ब्रह्म परब्रह्म ब्रह्मसृष्टिस्त्रिकं मतम् । रूपानुरूपावयवा दिव्याः सर्वे सरूपिणः ।। २३ ।। आत्मरूपाणीन्द्रियाणि तत्त्वाऽभिन्नानि सन्ति वै । उपचारात्तु नामानि रसशक्त्यात्मकानि हि ।। २४।। मनः श्रोत्रं च वाक् चक्षुस्त्वग् रसादीनि तानि वै । पूर्णे चिन्हेऽपि गुप्ता न तद्रतिर्वासना न च ।। २५।। अमातृजं यतस्तत्र कोशषट्कं न विद्यते । प्राणस्तत्राऽऽत्मनः शक्तिः काशोऽनावरणात्मता ।। २६।। सुहिरण्यकेशनखदन्ता नैव वियोगिनः । सच्चिद्रूपैकमानास्ते स्वात्मकाः प्रविभान्ति हि ।। २७।। दिव्याः सर्वे प्रकाशास्ते राजन्ते दिव्यधामनि । इत्ययं ब्रह्मलोकस्तु औपनिषद् उच्यते ।। २८ ।। ब्राह्मी मुक्तिस्तनुर्ब्राह्मी ब्रह्मानन्दानुभोग्यता । सोऽश्नुते सर्वकामाँस्तु सह श्रीहरिणा सदा ।। २९।। इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने अक्षरधाम्नि परब्रह्मब्रह्ममुक्तादीनां द्रवमुक्त्याऽपि साकारतादर्शको द्वितीयोऽध्यायः । । २ । ।
1 2 3 4 5 6 7 8 9 10 11
পাঠ জপ: 0/108