સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

શ્રીગણેશોત્તરશતકમ્

श्रीगणेशोत्तरशतकम्
રચયિતા: પારંપરિક વાચન સંખ્યા: 2
23px
श्रीगणेशोत्तरशतकम् एवं सृष्टयवनादीन् ब्रह्माण्डानामनेककोटीनाम् । कुर्वन् क्रीडावशतो विनायकत्वं विराजसे मुदितः ॥ १॥ भौतिकपरमाणूनां पुजञ्जैर्जातं यथा नरशरीरम् । ब्रह्माण्डात्मविराजो वपुर्हि जातं तथैव बहुगोलैः ॥ २॥ चन्द्राद्या उपगोलास्तेषु हि विश्वम्भरादयो गोलाः । सूर्यादिमहागोलाः सुमणिद्वीपादयः परमगोलाः ॥ ३॥ सर्वावयवसुपूर्णो मातुर्गर्भ यथा शिशुर्भवति । एवं बहुविधगोलैः पूर्णावयवं विराटूस्वरूपं तत् ॥ ४॥ तस्य विराजो देहे कटयूर्ध्वे चैकविंशतिस्वर्गाः । षोढा विभागवन्तस्तेषां मध्ये ह्य त्व यं परमगोलः ॥ ५॥ द्वीपश्चिन्तामणिरिति मूलाधारो विराट्शरीरस्य । ब्रह्माण्डमध्यदेशे तिष्ठत्वचलः सदा निरालम्बः ॥ ६॥ परमात्मकल्पितेषु स्वपथेषु गोला यथा भ्रमन्त्यन्ये । न कदापि तथा भ्राम्यति चिन्तामणिरित्ययं परमगोलः ॥ ७॥ तत्तद्ब्रह्माण्डात्मकविराट्समूहो महाविराड्ब्रह्म । तस्य हि सवावयवा निखिलैब्रह्माण्डकोटिभिः पूर्णः ॥ ८॥ अखिलाण्डकोटिसमुदयजगदात्माभून्महाविराट्पुरुषः । ब्रह्माण्डकोटिमध्ये मूलप्रकृतिस्वरूपको द्वीपः ॥ ९॥ नाम्ना चिन्तामणिरिति मूलाधारे महाविराड् रूपे । सहसिद्धिबुद्धिरस्मिन् सगुणमहावाक्यगणपतिर्भवसि ॥ १०॥ मूलाविद्याप्रतिगतदेवरत्वं हि प्लुतप्रणवरूपी । विरिश्चिहरिहररविभिस्तेषां शक्त्यात्मजादिभिर्विनुतः ॥ ११॥ एकार्णपत्तनाभिधमूलस्थानं विभाति तन्मध्ये । तत्रापि कल्पवृक्षोद्यानगतोङ्कारमण्टपो भाति ॥ १२॥ सिंहासने हि चिन्तामणिमयसोपानसंयुते तस्मिन् । एकाक्षरगणपतिमहमनिशं ध्यायामि सिद्धिबुद्धियुतम् ॥ १३॥ तत्र मयूरेशादिममूर्तिविशेषान् समन्ततोऽभिगतान् । तच्छक्तिमूर्तिसहितान् सहपरिवारान् समाश्रये सततम् ॥ १४॥ तत्र प्रथमावरणे युवराडव्यक्तगणपतिं वन्दे । गणकं हंसगणपतिं भजेऽहमन्यांस्तदीयपरिवारान् ॥ १५॥ अद्भुतरचनावत्यस्तत्र चतुष्षष्टिविधयः सन्ति । तत्तत्स्वथलाधिकारानुरूपगणपाश्च कोटिशः सन्ति ॥ १६॥ नात्रत्यवैभवादीन् शेषोऽपीष्टे यथावदाख्यातुम् । अत्यल्पबुद्धिविभवः प्रभुर्भवेयं कथं नु वर्णयितुम् ॥ १७॥ एकापत्तनस्य तु दक्षिणपार्श्वे पुरं वरं भवति । नाम्ना षडर्णपत्तनमाज्ञास्थानं स्थलं हि कृत्यानां कार्याणाम् ॥ १८॥ अत्र हि षडर्णरूपी निजशक्तिभ्यां चकास्ति विघ्नेशः । तं त्वां नमामि सन्ततं प्रायः प्रागुदितवैभवादियुतम् ॥ १९॥ निचितचतुर्दशभुवनं सप्तमहाद्वीपवसुमतीमध्यम । लोकालोकवलयितं ब्रह्माण्डमिदं तथान्यदपि सर्वम् ॥ २०॥ गगने खद्योत इव ह्यण्डः प्रद्योततेऽयमेकैकः । अण्वणुमात्रावयवः परिणतजगदाकृतेः किल महाप्रकृते ॥ २१॥ निखिलब्रह्माण्डोपरिभागे स्वानन्दभवनलोकरते । अन्वर्थनामधेयो मुद्गलकपिलादियोगिभजनीयः ॥ २२॥ स द्वादशान्तदेशो महाविराजोऽखिलाण्डरूपस्य । ऐक्षवसागरमध्ये प्रदीप्यते कोटियोजनं विततः ॥ २३॥ कोटिदिवाकरदीप्तिर्यत्र च पुरुषार्थसम्परिसमाप्तिः । यत्र न पुनरावृत्तिर्यश्च महावाक्यगणपतेर्वसतिः ॥ २४॥ तत्र हि मूलस्थानं शतयोजनविस्तृतायतोत्तुङ्गम् । ओङ्कारवलयरूपामृतसागरमध्यगं विभाति तव ॥ २५॥ तत्र सहस्रस्तम्भे चिन्तामणिमण्टपे विचित्रतमे । एकाक्षरपीठे तव तेजोमयविग्रहं हृदा कलये ॥ २६॥ भवदीयसत्यभागे स्मितवदनां ब्रह्मभावदां दयिताम् । ध्यायामि सिद्धिदेवीं पीताम्बरधारिणीं च जगदम्बाम् ॥ २७॥ कल्हारकुसुममालां कस्तूरीतिलकविज्वलत्फालाम् । करुणापूर्णकटाक्षां कनकसवर्णा सदृक्षां ञ्च मोक्षलक्ष्मीं ताम् ॥ २८॥ शशिशेखरां त्रिनयनां सुवर्णसरसीरुहे सुखासीनाम् । भासुरसर्वविभूषणवृन्दां सर्वाङ्गसुन्दरीं वन्दे ॥ २९॥ ध्यायामि बुद्धिदेवीं ब्रह्मज्ञानप्रदयिनीं दयिताम् । भवदीयदक्षभागे घनसारतुषारसन्निभशरीराम् ॥ ३०॥ मन्दस्मितमुखपद्मां मन्दारमुखप्रसूनकृतमालाम् । वन्दारुमधुज भजन लोलां वृन्दारकमुख्यमृग्यपदमूलाम् ॥ ३१॥ कस्तूरिकाविशेषकविलसितनिटिलां गणेशकृतलीलाम् । सिततामरसासीनां त्रिलोचनां चन्द्रशेखरां रुचिराम् ॥ ३२॥ भवतो भवनं परितः प्रथमावरणे विचित्ररत्नानि । क्रीडागानादीनि स्थानानि मनोहराणि सुबहूनि ॥ ३३॥ तत्तत्स्थानानुगुणं गृहीतकमनीयविग्रहविशेषः । सिद्धथा बुद्धया च युतो विहरसि मुदितस्तदर्हपरिवारः ॥ ३४॥ कन्दर्पकोटिपरिभूसौन्दर्यझरीतरङ्गिताकाराः । क्रीडागानादिगता मङ्गलमूर्तीश्च मन्महे मनसि ॥ ३५॥ भवतः कटाक्षवीक्षां प्रतीक्षमाणाश्च किङ्करप्रवराः । आज्ञाकरणप्रवणा अभ्यर्णे सन्ति कोटिकोटिगणाः ॥ ३६॥ भवतो हि वामपूर्वे किञ्चिन्यूने महेन्द्रमणिपीठे । आसीनं युवराज सिद्धिसुताऽव्यक्तगणपतिं वन्दे ॥ ३७॥ दूर्वादलवच्च्यामलकोमलमूर्तिं निशाकरापीडम् । कन्दर्पसुन्दराङ्गं कौस्तुभचिन्तामणिप्रभादीप्रम् ॥ ३८॥ निजलोकवासिसर्वाभीप्सितविज्ञापनादिवानाम् । विज्ञापयति विशेषान् स किल महावाक्यगणपतेः सविधेभवते ॥ ३९॥ भवदीयसन्निधाने तस्मादन्यो न कोऽपि गणवर्गः । गन्तुं स्थातुं वापि प्रभवति किमुत प्रभाषणादिविधौ ॥ ४०॥ अपि चाव्यक्तनिवेदितनिजभक्तजनानुकूलकृत्यानि । आकर्णनमात्रादपि सद्यः कर्तुं कृतादरो हि भवान् ॥ ४१॥ भवतो हि याम्यपूर्वे स्फाटिकपीठे गुरुं सुखासीनम् । अतिसुन्दरं युवानं बुद्धेः सूनुं वि सु लेखनीपाणिम् ॥ ४२॥ चूडाशशिप्रकाशं शुद्धस्फटिकप्रभाप्रतीकाशम् । गणकं गणकाधीशं हंसगणेशं नमाम्यमात्ये नमामि सचिवे शम् ॥ ४३॥ लोकं देशं ग्राम ब्रह्माण्डस्थितपरात्मभक्तानाम् । पूर्वाचरितान् गणको धर्मादींश्च स्वपुस्तके लिखति ॥ ४४॥ गणकविलेखनमात्रात् सकलान्निजभक्तपुङ्गवाकलितान् । प्रणिदापयस्यनल्पान् कामकलापान् सुरादिदुरवापान् ॥ ४५॥ ब्रह्म महत्तत्त्वगतं गणकं प्राहुः समस्तयोगीन्द्राः । यो निबबन्ध ग्रन्थान् गणपतिविषयान् महेतिहासादीन् ॥ ४६॥ ध्यायन्ति हंसरूपं परमगुरुं यं सहस्रदलपद्मे । आसीनं गणकेशं हृदये किल योगिपुङ्गवाः सततम् ॥ ४७॥ निखिलब्रह्माण्डस्थितभक्त जनानां हिताहितं वक्तुम् । वरदादिकोटिगणपा विकटस्यान्ते वहन्ति सचिवत्वम् ॥ ४८॥ अखिलाण्डकोटिनिवसद्भक्तानानन्दभवनमानेतुम् । आधिकारपदनियुक्ता आमोदमुखा भवन्ति कोदिगणाः ॥ ४९॥ त्वद्भक्तिमात्रसुलभानीदृशतत्रत्यसर्वपरिवारान् । मनसा नुमो नौन्य नवरतं द्वारीभूतान् भवत्समीपाप्तौ ॥ ५०॥ त्रिनयनचन्द्रापीडा ब्रह्मानन्दाम्बुधौ भृशं मग्नाः । आनन्दभवनभुवने गणपतिसारूप्यभागिनोऽनन्ताः ॥ ५१॥ बहुकल्पकोटिकालं भवतः सदुपासनात् प्रमोदन्ते । शुण्डादण्डविराजत्तुण्डाविगलन्मदाम्बुयुतगण्डाः ॥ ५२॥ सालोक्यमुक्तिभाजोऽसङ्ख्येयाश्चाखिलाण्डभक्तजनाः । एवं सामीप्यपदप्राप्त्या सुखभूमभागिनोऽनन्ताः ॥ ५३॥ स्वर्गादिवासिनामपि दुष्टासुरबाधशापबाधादिः । प्रारब्धकर्मभोगः कदाचिदपि मातृगर्भवासादिः ॥ ५४॥ आनन्दभवनवासी नैतादृगुपद्रवं कदाचिदपि । अनुभवति किं त्वखण्डं ब्रह्मानन्दं न दुःखसम्भिन्नम् ॥ ५५॥ सङ्कल्पमात्रसुलभानाहारविहारकामभोगादीन् । परिहृत्य नित्यतृप्ता नित्यानन्दात्मना महात्मानः ॥ ५६॥ ज्ञानयोगादिनिष्ठा जीवन्मुक्ता गता हि ये तत्र । ब्रह्मविचारपरास्ते प्रापुरनन्ता विदेहकैवल्यम् ॥ ५७॥ केशाधिकारयुक्ता योगिजना ये तु पूर्वकल्पेषु । ब्रह्माच्युतादयस्ते विद्यन्ते तत्र कोटिशः परितः ॥ ५८॥ अवतारमूर्तयस्ते सन्ति समन्तात् सहस्रशस्तत्र । तव तत्र तत्रैव मूर्तिमन्तो ह्याम्नायान्ताः स्तुवन्ति महिमानं तव रूपम् ॥ ५९॥ सर्वावरणसमेतास्तत्तत्वच्छक्तिसिद्धिबुद्धधंशाः । तत्तदवसरा काल नुगुणाः सन्ति सहस्स्रं हि मूर्तयस्तत्र ॥ ६०॥ इत्यानवमावरणं विचित्ररूपा विभूतिविभवाद्याः । कविवाङ्मनसोऽविषयाः सन्ति स्वानन्दभवनलोके ते ॥ ६१॥ एतेभ्यश्च निजेभ्यो लोकानुग्राहिमूर्तिभेदेभ्यः । जीवन्मुक्तादिभ्योऽत्रत्यमहद्भयो नमोऽस्तु सर्वेभ्यः ॥ ६२॥ दूरे भवतः पुरतो सिंहासनस्य मूले मूषकराजो विराजते सुतराम् । दस्युरिवान्तर्यामी भुङ्क्ते भोगांश्च सर्वजन्तूनाम् ॥ ६३॥ अव्यक्तगणपतिस्तव सेवार्थं प्राप मूषकाकारम् । भवदीयवाहनेष्वपि कुरुते सर्वेष्वनुप्रवेशमयम् ॥ ६४॥ यद्यपि हंसो विलिखति चण्डो वा ननभैरवो दाताः । भवदालये गणपते सततं सेवाफलं हि भक्तेभ्यः ॥ ६५॥ पूर्वं तव सेवार्थं प्रवेशकालेऽस्य मूषकस्य तथा स्यान्ते । न लभेत चेदनुज्ञां सेवा फलमपि सुदुर्लभं तस्य ॥ ६६॥ सेवानभिज्ञमपि मामनीशमन्यादृशोपचारविधौ । चण्डादयोऽनुगृह्णन्त्वेते भवदीयभवनपरिवाराः ॥ ६७॥ तव भक्तकोटिमहिमा वक्तुमशक्योऽत्र मुद्गलः प्रवरः । यच्छिष्याः कपिलाद्याः सन्ति चतुष्षष्टिकोटिमित्रसिद्धाः ॥ ६८॥ त्वन्नाममात्रजापा समूलकाषं कषन्ति कलुषाणि । विषहरणसिद्धमन्त्रो जपमात्रादिव विषं निरव शेषम् ॥ ६९॥ कुङ्कुमकर्पूरागरुमृगमदगोरोचनदियतगन्धम । यद्भक्ता दधते तद्वस्तु गजास्यं सदास्तु मम चित्ते ॥ ७०॥ श्वेतार्कमूलमूर्ति जीवद्गजदन्तमूर्तिमपि भवतः । शोणशिलामपि मनसा प्रवालरत्नादिमूर्तिमपि महये ॥ ७१॥ दूर्वार्चनमन्त्रजपा व्रतं चतुर्थ्या यदीयचिह्नानि । सिन्दूरधारणाद्यपि स गणाध्यक्षः सदास्तु मम शरणम् ॥ ७२॥ दूर्वारहितसपर्या विफला भवतः कृतापि हेरम्ब । निजशक्तिदत्तबीजद्वयरूढा यत् शताङ्कुरा देवी ॥ ७३॥ दुःस्वप्ननाशिनी सा स्वार्चकपापापनोदनैकचतुरा परा । भक्तजनविघ्नहन्त्री दूर्वायां ते ततो महाप्रीतिः ॥ ७४॥ यद्यपि दूर्वान्नमयी दुर्गाशप्ता तृणात्मना जाता । आराध्य सिद्धिबुद्धी श्वेतहरिद्भेदतो द्विधाभूत् सा ॥ ७५॥ दुर्गार्चने तु निन्द्या श्लाध्यतममेवार्चनेऽन्यदेवानाम् । भवतोऽतिश्लाध्यतमा युग्मत एकैकविंशतिभ्यां वा ॥ ७६॥ तुलसी नीला देवी वैष्णवमाया गणेशशप्ता सा । भवतोऽत एव निन्द्या अर्हा ग्रहदेवतान्यदेवानाम् ॥ ७७॥ श्वेतार्ककुसुमनिकरैर्मन्दारसुमैस्तथा शमीपत्रैः । भक्तैरर्चितमात्राद्यथातितृप्तिस्तथा न ते क्वापि ॥ ७८॥ श्वेतार्कमूलमणिभिर्मन्दारशमीमयैश्च मणिनिचयैः । प्रथितां किलाक्षमालां धारयितारः प्रसादपात्रं ते ॥ ७९॥ विजयप्रवालनगरो भौममयूरेशनासिकादीनाम् । क्षेत्राणां यात्रायामशक्तमपि मां पुनातु विग्नेशः ॥ ८०॥ न मम ज्ञाने निष्ठा योगे वा मन्त्रकर्मनामादौ । त्वत्पादाश्रयणान्मामुद्धर संसारतश्च सिद्धिपते ॥ ८१॥ निर्वाणदीक्षयाहं न संस्कृतो नापि योगदीक्षाद्यैः । सामान्यदीक्षयापि च पुनीहि बुद्धीश भावनालेशात् ॥ ८२॥ मामकृतसुकृतसञ्चयमनुपासितमुख्यदेवतामूर्तिम् । केवलभक्तिबलान्मां कृतार्थयेथाः स्त्वं कृपापयोराशे ॥ ८३॥ इच्छामात्रादणुमपि मेरुं कुरुषेऽनलं च सलिलमिव । मरुमपि जलधिं भवतो मदघनिरासे गणेश को भारः ॥ ८४॥ आकस्मिकयसि कामान दुरवापानपि विचित्रयस्यर्थान् । सर्वमकिञ्चित्करमप्यपेक्षसे किन्न्वनुग्रहार्हं माम् ॥ ८५॥ यो देशकालवस्तुभिरपरिच्छिन्नोऽपि हृद्गुहावर्ती । प्रेरयति सर्वजन्तूननवरतं तं गणेशमर्हामि ॥ ८६॥ कालस्वभावनियतिप्रभृतिममन्यन्त ये जगद्बीजं अविदन्तस्तव तत्त्वं संसृतिचक्रे भ्रमन्ति मुह्यन्तः ॥ ८७॥ संसृतिधर्मासङ्गी तत्साक्षी त्वं तदानुरूप्येण । उच्चावचफलदातुस्तव च न वैषम्यं नापि नैर्गृण्यम् ॥ ८८॥ यमुपासेऽस्मिञ्जन्मनि देवं यावच्छरीरहानमहम् । प्रेत्य प्रतिपत्स्येऽहं तमेव भावं च तत्क्रतुन्यायात् ॥ ८९॥ प्रागुत्पत्तेस्त्वमिदं जगच्च सर्वं स्थितेरवस्थायाम । प्रलयावस्थायां त्वं ध्यायेयं कं कथं त्वदन्यमहम् ॥ १०॥ कामतरङ्गाभिहतं गभीरसंसारसागरे मग्नम् । विषयग्रहगृहीतं भवाब्धिपोतस्त्वमेव तारय माम् ॥ ९१॥ बहु सुख दुःखमोहरूपप्रपञ्चजालाड्कुरप्ररोहार्हम् । मूलाविद्याबीजं दग्धुं नान्यद्विना भवज्ज्ञानम् ॥ ९२॥ मायाविलासितमेतत् प्रपञ्चजालं न वस्तुतः किञ्जित् । न हि रज्जुशुक्तिकादिव्यतिरेकेणास्ति सर्परजतादिः ॥ ९३॥ तज्ज्ञानं मे सुलभं यज्ञतपोदानसाधनाभावात् । त्वद्भक्तिमात्रसाधनमतिदीनं मामनुगृहाण विभो ॥ ९४॥ गन्धर्वनगरकल्पं सर्वं स्वाप्नप्रवृत्तिसदृशञ्च । मायामात्रं मन्ये त्वद्व्यतिरिक्तं त्वदेकतानोऽहम् ॥ ९५॥ अग्राह्योऽनिर्देश्योऽचिन्योऽतक्योर्ऽप्रमेयमहिमा त्वं विक्षिप्तचित्तवृत्तिः प्रभवेयमहं कथं मम द्ध्याने ॥ ९६॥ भूतभवद्भव्येषु त्वद्व्यतिरिक्तः कदापि नासेऽहं नासीय त्वद्भावापत्तिस्नु भ्रमापगमनात् सदा त्वदात्माहम् ॥ ९७॥ शऋङ्गग्राहिकयेदृश आत्मेत्युक्तौ श्रुतिस्त्वनीशाना । चकिता प्रतिपादयति ह्यध्यारोपापवादरीत्या त्वाम् ॥ ९८॥ त्वामेवाहं जाने त्वदन्यभावभ्रमापगमनाय । त्वद्भावभावितोऽहं न्यं न भोग्यवर्गञ्च कामये कमपि ॥ ९९॥ लम्बोदर हेरम्ब द्वैमातुर दन्तिवदन विनेश । अव्याजदयासिन्धो भक्तपराधीन दीनजनबन्धो ॥ १००॥ भवतानुग्राह्योऽहं संसृतिबन्धादहं प्रमुच्येय । नाल्पेन लोभनीयः विषयानन्दं न चाभिनन्देयम् ॥ १०१॥ न स्वर्गस्वानन्दं कार्यस्वानन्दमप्यहं नेहे । आनन्दभवनमीयां तद्विन्देयं विदेहकैवल्यम् ॥ १०२॥ यद्यपि शुद्धाद्वैती बाह्यसुपूजनादिनापि शैवोऽहम् । परमात्मभावितगणपतिभावः कदापि मापैतु ॥ १०३॥ श्रुत्यादिषु प्रसिद्धा गुणगण गणपति विभवा यथावदाख्याताः । कविसमयसहजसिद्धा वाचोयुक्तिः प्रतायते न मया ॥ १०४॥ यद्यपि गणपतिगुणगणवर्णनमेव प्रधानतः प्रकृतम् । मतविमतनान्तरीयकनिरूपणश्चानुषङ्गतो ग्रथितम् ॥ १०५॥ अत एव पूर्वमेव प्रतिश्रुतश्लोकशतकतोऽप्यधिका । विनेशभिन्नविषयप्रतिपादनतत्पराः कृताः श्लोकाः ॥ १०६॥ इति नीलकण्ठशास्त्री विद्वद्रत्नोपनामवान् विबुधः । शङ्करभगवत्पदस्थापितषट्दर्शनी सुसारज्ञः ॥ १०७॥ गामिषु भवत्सु सप्तदशाधिकपञ्चसहस्रेषु कलि युगाब्देषु । अकरोद्गणेशशतकं तद्गुणलेशैः स्ववाग्विशुध्यर्थम् ॥ १०८॥ तं क्षाम्यन्तु महान्तो यदि प्रमादप्रयुक्तदोषः स्यात् । जीयादियं कृतिर्मे सुचिरं भूयान्मुदे च सिद्धिपतेः ॥ १०९॥ संसारदशायामपि मोक्षदशायां तथैकरूपत्वम् । आत्मन उक्तोऽत एव शान्त ब्रह्मप्रवादिभिः साङ्खयैः ॥ ११०॥ मीमांसकास्तु कथयन्त्यात्माहम्प्रत्ययेन वेद्य इति । अन्ये त्वन्यं सर्वं न वस्तुतः किन्त्वपक्कसोपानम् ॥ १११॥ विगतद्वैताभासो वेद्यान्तरविषयवृत्तिहीनोऽहम् । त्वदूपचित्तवृत्तिः किन्न भवेयं सदा त्वदाकारः ॥ ११२॥ निरतिशयान्दात्मभवत्स्वरूपे महापयोराशौ । विषयानन्दो नार्हति बिन्दशततमांशमात्रमपि भवितुम ॥ ११३॥ ॥ इति  श्रीनीलकण्ठशास्त्रिणा विरचितं गणेशोत्तरशतकं समाप्तम् ।
પાઠ જપ: 0/108