ஸனாதன தே³வ
.. ஶிவப்ராத꞉ஸ்மரணஸ்தோத்ரம் ..
॥ शिवप्रातःस्मरणस्तोत्रम् ॥
எழுத்துரு / மொழி தேர்வு:
देवनागरी (संस्कृत)
॥ शिवप्रातःस्मरणस्तोत्रम् ॥
प्रातः स्मरामि भवभीतिहरं सुरेशम् गङ्गाधरं वृषभवाहनमम्बिकेशम्। खट्वाङ्गशूलवरदाभयहस्तमीशम् संसाररोगहरमौषधमद्वितीयम्॥१॥
प्रातर्नमामि गिरिशं गिरिजार्धदेहम् सर्गस्थितिप्रलयकारणमादिदेवम्। विश्वेश्वरं विजितविश्वमनोभिरामम् संसाररोगहरमौषधमद्वितीयम्॥२॥
प्रातर्भजामि शिवमेकमनन्तमाद्यम् वेदान्तवेद्यमनघं पुरुषं महान्तम्। नामादिभेदरहितं षड्भावशून्यम् संसाररोगहरमौषधमद्वितीयम्॥३॥
॥ इति शिवप्रातःस्मरणस्तोत्रं सम्पूर्णम् ॥