सनातन स्तोत्र संग्रह
Sri Ganesha Stotram
सनातन देव

॥ श्रीगणेशकवचम् ॥

stotra-2cc40205
रचयिता: पारंपरिक पाठ संख्या: 3
23px
॥ श्रीगणेशकवचम् ॥
श्रीगणेशाय नमः  गौर्युवाच । एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो । अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १॥ दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः । अतोऽस्य कण्ठे किंचित्त्वं रक्षार्थं बद्धुमर्हसि ॥ २॥ मुनिरुवाच । ध्यायेत्सिंहहतं विनायकममुं दिग्बाहुमाद्ये युगे      त्रेतायां तु मयूरवाहनममुं पङ्बाहुकं सिद्धिदम् । द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम्      तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥ ३॥ विनायकः शिखां पातु परमात्मा परात्परः । अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः ॥ ४॥ ललाटं कश्यपः पातु भृयुगं तु महोदर । नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ ॥ ५॥ जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः । वाचं विनायकः पातु दन्तान् रक्षतु विघ्नहा ॥ ६॥ श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः । गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जजयः ॥ ७॥ स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः । हृदयं गणनाथस्तु हेरंबो जठरं महान् ॥ ८॥ धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः । लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥ ९॥ गणक्रीडो जानुसङ्घे उरू मङ्गलमूर्तिमान् । एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु ॥ १०॥ क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः । अङ्गुलीश्च नखान्पातु पद्महसोऽरिनाशनः ॥ ११॥ सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु । अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु ॥ १२॥ आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु । प्राच्यां रक्षतु बुद्धीश आग्नेयां सिद्धिदायकः ॥१३॥ दक्षिणास्यामुमापुत्रो नैरृत्यां तु गणेश्वरः । प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः ॥ १४॥ कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः । दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् ॥ १५॥ राक्षसासुरवेतालग्रहभूतपिशाचतः । पाशाङ्कुशधरः पातु रजःसत्त्वतमः स्मृतिः ॥ १६॥ ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्ति तथा कुलम् । वपुर्धनं च धान्यं च गृहान्दारान्सुतान्सखीन् ॥ १७॥ सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा । कपिलोऽजादिकं पातु गजाश्वान्विकटोऽवतु ॥ १८॥ भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः । न भयं जायते तस्य यक्षरक्षःपिशाचतः ॥ १८॥ त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् । यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥ २०॥ युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्द्रुतम् । मारणोच्चाटकर्षस्तम्भमोहनकर्मणि ॥ २१॥ सप्तवारं जपेदेतद्दिनानामेकविंशतिम् । तत्तत्फलवाप्नोति साधको नात्रसंशयः ॥२२॥ एकविंशतिवारं च पठेत्तावद्दिनानि यः । कारागृहगतं सद्योराज्ञा वध्यं च मोचयेत् ॥ २३॥ राजदर्शनवेलायां पठेदेतत्त्रिवारतः । स राजसं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥ २४॥ इदं गणेशकवचं कश्यपेन समीरितम् । मुद्गलाय च तेनाथ माण्डव्याय महर्षये ॥ २५॥ मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् । न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ २६॥ यस्यानेन कृता रक्षा न बाधास्य भवेत्क्वचित् । राक्षसासुरवेतालदैत्यदानवसम्भवा ॥ २७॥
॥ इति श्रीगणेशपुराणे उत्तरखण्डे बालक्रीडायां षडशीतितमेऽध्याये गणेशकवचं सम्पूर्णम् ॥
पाठ जप: 0/108