ஶ்ரீது³ர்கா³நீராஜனபஞ்சகம்
श्रीदुर्गानीराजनपञ्चकम्
कर्पूरेण वरेण पावकशिखा शाखायते तेजसा वासस्तेन सुकम्पते प्रतिपलं घ्राणं मुहुर्मोदते । नेत्राह्लादकरं सुपात्रलसितं सर्वाङ्गशोभाकरं दुर्गे ! प्रीतमना भव तव कृते कुर्वे सुनीराजनम् ॥ १॥
आदौ देवि ! ददे चतुस्तव पदे त्वं ज्योतिषा भाससे दृष्ट्वैतन् मम मानसे बहुविधा स्वाशा जरीजृम्भते । प्रारब्धानि कृतानि यानि नितरां पापानि मे नाशय दुर्गे ! प्रीतमना भव तव कृते कुर्वे सुनीराजनम् ॥ २॥
नाभौ द्विः प्रददे नगेशतनये ! त्वद्भा बहु भ्राजते तेन प्रीतमना नमामि सुतरां याचेपि मे कामनाम् । शान्तिर्भूतिततिर्विभातु सदने निःशेषसौख्यं सदा दुर्गे ! प्रीतमना भव तव कृते कुर्वे सुनीराजनम् ॥ ३॥
आस्ये तेऽपि सकृद् ददे द्युतिधरे ! चन्द्राननं दीप्यते दृष्ट्वा मे हृदये विराजति महा-भक्तिर्दयासागरे ! । नत्वा त्वच्चरणौ रणाङ्गनमनः ! शक्तिं सुखं कामये दुर्गे ! प्रीतमना भव तव कृते कुर्वे सुनीराजनम् ॥ ४॥
मातो मङ्गलसाधिके ! शुभतनौ ते सप्तकृत्वो ददे तस्मात् तेन मुहुर्जगद्धितकरं सञ्जायते सन्महः । तद्भासा विपदः प्रयान्तु दुरितं दुःखानि सर्वाणि मे दुर्गे ! प्रीतमना भव तव कृते कुर्वे सुनीराजनम् ॥ ५॥
इति श्रीव्रजकिशोरः त्रिपाठीविरचितं श्रीदुर्गानीराजनपञ्चकम्