সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

মুদ্গলপুরাণোক্তং প্রহ্লাদকৃতং গণেশস্তোত্রম্

मुद्गलपुराणोक्तं प्रह्लादकृतं गणेशस्तोत्रम्
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 3
23px

श्रीगणेशस्तोत्रम्

श्री गणेशाय नमः । अधुना श‍ृणु देवस्य साधनं योगदं परम् । साधयित्वा स्वयं योगी भविष्यसि न संशयः ॥ १॥ स्वानन्दः स्वविहारेण संयुक्तश्च विशेषतः । सर्वसंयोगकारित्वाद् गणेशो मायया युतः ॥ २॥ विहारेण विहीनश्चाऽयोगो निर्मायिकः स्मृतः । संयोगाभेद हीनत्वाद् भवहा गणनायकः ॥ ३॥ संयोगाऽयोगयोर्योगः पूर्णयोगस्त्वयोगिनः । प्रह्लाद गणनाथस्तु पूर्णो ब्रह्ममयः परः ॥ ४॥ योगेन तं गणाधीशं प्राप्नुवन्तश्च दैत्यप । बुद्धिः सा पञ्चधा जाता चित्तरूपा स्वभावतः ॥ ५॥ तस्य माया द्विधा प्रोक्ता प्राप्नुवन्तीह योगिनः । तं विद्धि पूर्णभावेन संयोगाऽयोगर्वजितः ॥ ६॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । पञ्चधा चित्तवृत्तिश्च सा माया गणपस्य वै ॥ ७॥ क्षिप्तं मूढं च चित्तं च यत्कर्मणि च विकर्मणि । संस्थितं तेन विश्वं वै चलति स्व-स्वभावतः ॥ ८॥ अकर्मणि च विक्षिप्तं चित्तं जानीहि मानद!। तेन मोक्षमवाप्नोति शुक्लगत्या न संशयः ॥ ९॥ एकाग्रमष्टधा चित्तं तदेवैकात्मधारकम् । सम्प्रज्ञात समाधिस्थम् जानीहि साधुसत्तम ॥ १०॥ निरोधसंज्ञितं चित्तं निवृत्तिरूपधारकम् । असम्प्रज्ञातयोगस्थं जानीहि योगसेवया ॥ ११॥ सिद्धिर्नानाविधा प्रोक्ता भ्रान्तिदा तत्र सम्मता । माया सा गणनाथस्य त्यक्तव्या योगसेवया ॥ १२॥ पञ्चधा चित्तवृत्तिश्च बुद्धिरूपा प्रकीर्तिता । सिद्ध्यर्थं सर्वलोकाश्च भ्रमयुक्ता भवन्त्यतः ॥ १३॥ धर्मा-ऽर्थ-काम-मोक्षाणां सिद्धिर्भिन्ना प्रकीर्तिता । ब्रह्मभूतकरी सिद्धिस्त्यक्तव्या पंचधा सदा ॥ १४॥ मोहदा सिद्धिरत्यन्तमोहधारकतां गता । बुद्धिश्चैव स सर्वत्र ताभ्यां खेलति विघ्नपः ॥ १५॥ बुद्ध्या यद् बुद्ध्यते तत्र पश्चान् मोहः प्रवर्तते । अतो गणेशभक्त्या स मायया वर्जितो भवेत् ॥ १६॥ पञ्चधा चित्तवृत्तिश्च पञ्चधा सिद्धिमादरात् । त्यक्वा गणेशयोगेन गणेशं भज भावतः ॥ १७॥ ततः स गणराजस्य मन्त्रं तस्मै ददौ स्वयम् । गणानां त्वेति वेदोक्तं स विधिं मुनिसत्तम ॥ १८॥ तेन सम्पूजितो योगी प्रह्लादेन महात्मना । ययौ गृत्समदो दक्षः स्वर्गलोकं विहायसा ॥ १९॥ प्रह्लादश्च तथा साधुः साधयित्वा विशेषतः । योगं योगीन्द्रमुख्यं स शान्तिसद्धारकोऽभवत् ॥ २०॥ विरोचनाय राज्यं स ददौ पुत्राय दैत्यपः । गणेशभजने योगी स सक्तः सर्वदाऽभवत् ॥ २१॥ सगुणं विष्णु रूपं च निर्गुणं ब्रह्मवाचकम् । गणेशेन धृतं सर्वं कलांशेन न संशयः ॥ २२॥ एवं ज्ञात्वा महायोगी प्रह्लादोऽभेदमाश्रितः । हृदि चिन्तामणिम् ज्ञात्वाऽभजदनन्यभावनः ॥ २३॥ स्वल्पकालेन दैत्येन्द्रः शान्तियोगपरायणः । शान्तिं प्राप्तो गणेशेनैकभावोऽभवतत्परः ॥ २४॥ शापश्चैव गणेशेन प्रह्लादस्य निराकृतः । न पुनर्दुष्टसंगेन भ्रान्तोऽभून्मयि मानद!॥ २५॥ एवं मदं परित्यज ह्येकदन्तसमाश्रयात् । असुरोऽपि महायोगी प्रह्लादः स बभूव ह ॥ २६॥ एतत् प्रह्लादमाहात्म्यं यः श‍ृणोति नरोत्तमः । पठेद् वा तस्य सततं भवेदोप्सितदायकम् ॥ २७॥ ॥ इति मुद्गलपुराणोक्तं प्रह्लादकृतं गणेशस्तोत्रम् ॥
পাঠ জপ: 0/108