॥ উত্তরদিনচর্যা ॥
श्रीदेवराजगुरुभिरनुगृहीता
अथ गोष्ठीं गरिष्ठानामधिष्ठाय सुमेधसाम् । वाक्यालङ्कृतिवाक्यानां व्याख्यातारं नमामि तम् ॥ १॥
सायन्तनं ततः कृत्वा सम्यगाराधनं हरेः । स्वैरालापैः शुभैश्श्रोतॄन्नन्दयन्तं नमामि तम् ॥ २॥
ततः कनकपर्यङ्के तरुणद्युमणिद्युतौ । विशालविमलश्लक्ष्णतुङ्गतूलासनोज्ज्वले ॥ ३॥
समग्रसौरभोद्गारनिरन्तरदिगन्तरे । सोपधाने सुखासीनं सुकुमारे वरासने ॥ ४॥
उन्मीलत्पद्मगर्भद्युतितलमुपरि क्षीरसङ्घातगौरं राकाचन्द्रप्रकाशप्रचुरनखमणिद्योतविद्योतमानम् । अङ्गुल्यग्रेषु किञ्चिन्नतमतिमृदुलं रम्यजामातृयोगी दिव्यं तत्पादयुग्मं दिशतु शिरसि मे देशिकेन्द्रो दयालुः ॥ ५॥
त्वं मे बन्धुस्त्वमसि जनकस्त्वं सखा देशिकस्त्वं विद्या वृत्तं सुकृतमतुलं वित्तमप्युत्तमं त्वम् । आत्मा शेषी भवसि भगवन्नान्तरश्शासिता त्वं यद्वा सर्वं वरवरमुने ! यद्यदात्मानुरूपम् ॥ ६॥
अग्रे पश्चादुपरि परितो भूतलं पार्श्वतो मे मौलौ वक्त्रे वपुषि सकले मानसाम्भोरुहे च । दर्शंदर्शं वरवरमुने दिव्यमङ्घ्रिद्वयं ते नित्यं मज्जन्नमृतजलधौ निस्तरेयं भवाब्धिम् ॥ ७॥
कर्माधीने वपुषि कुमतिः कल्पयन्नात्मभावं दुःखे मग्नः किमिति सुचिरं दूयते जन्तुरेषः । सर्वे त्यक्त्वा वरवरमुने ! संप्रति त्वत्प्रसादा- द्दिव्यं प्राप्तुस्तव पदयुगं देहि मे सुप्रभातम् ॥ ८॥
या या वृत्तिर्मनसि मम सा जायतां संस्मृतिस्ते यो यो जल्पस्स भवतु! विभो! नामसङ्कीर्तनं ते । या या चेष्टा वपुषि भगवन् ! सा भवेद्वन्दनं ते सर्वे भूयाद्वरवरमुने ! सम्यगाराधनं ते ॥ ९॥
अपगतमदमानैरन्तिमोपायनिष्ठै- रधिगतपरमार्थैरर्थकामानपेक्षैः । निखिलजनसुहृद्भिर्निर्जितक्रोधलोभै- र्वरवरमुनिभृत्यैरस्तु मे नित्ययोगः ॥ १०॥
इति स्तुतिनिबन्धेन सूचितस्वमनीषितान् । भृत्यान् प्रेमार्द्रया दृष्ट्या सिञ्चन्तं सिन्तयामि तम् ॥ ११॥
अथ भृत्याननुज्ञाप्य कृत्वा चेतश्शुभाश्रये । शयनीयं परिष्कृत्य शयानं संस्मरामि तम् ॥ १२॥
दिनचर्यामिमां दिव्यां रम्यजामातृयोगिनः । भक्त्या नित्यमनुध्यायन् प्राप्नोति परमं पदम् ॥ १३॥
॥ इति उत्तरदिनचर्या समाप्ता ॥