સનાતન સ્તોત્ર સંગ્રહ
શ્રીગણેશ
સનાતન દેવ

.. શ્રીવલ્લભેશહૃદયમ્ ..

॥ श्रीवल्लभेशहृदयम् ॥
રચયિતા: પારંપરિક વાચન સંખ્યા: 1
23px
श्रीवल्लभेशहृदयम् श्रीदेव्युवाच - वल्लभेशस्य हृदयं कृपया ब्रूहि शङ्कर । श्रीशिव उवाच - ऋष्यादिकं मूलमन्त्रवदेव परिकीर्तितम् ॥ १॥ ॐ विघ्नेशः पूर्वतः पातु गणनाथस्तु दक्षिणे । पश्चिमे गजवक्त्रस्तु उत्तरे विघ्ननाशनः ॥ २॥ आग्नेय्यां पितृभक्तस्तु नैरृत्यां स्कन्दपूर्वजः । वायव्यामाखुवाहस्तु ईशान्यां देवपूजितः ॥ ३॥ ऊर्ध्वतः पातु सुमुखो ह्यधरायां गजाननः । एवं दशदिशो रक्षेत् विकटः पापनाशनः ॥ ४॥ शिखायां कपिलः पातु मूर्धन्याकाशरूपधृक् । किरीटिः पातु नः फालं भ्रुवोर्मध्ये विनायकः ॥ ५॥ चक्षुषी मे त्रिनयनः श्रवणौ गजकर्णकः । कपोलयोर्मदनिधिः कर्णमूले मदोत्कटः ॥ ६॥ सदन्तो दन्तमध्येऽव्यात् वक्त्रं पातु हरात्मजः । चिबुके नासिके चैव पातु मां पुष्करेक्षणः ॥ ७॥ उत्तरोष्ठे जगद्व्यापी त्वधरोष्ठेऽमृतप्रदः । जिह्वां विद्यानिधिः पातु तालुन्यापत्सहायकः ॥ ८॥ किन्नरैः पूजितः कण्ठं स्कन्धौ पातु दिशाम्पतिः । चतुर्भुजो भुजौ पातु बाहुमूलेऽमरप्रियः ॥ ९॥ अंसयोरम्बिकासूनुरङ्गुलीश्च हरिप्रियः । आन्त्रं पातु स्वतन्त्रो मे मनः प्रह्लादकारकः ॥ १०॥ प्राणाऽपानौ तथा व्यानमुदानं च समानकम् । यशो लक्ष्मीं च कीर्तिं च पातु नः कमलापतिः ॥ ११॥ हृदयं तु परम्ब्रह्मस्वरूपो जगदिपतिः । स्तनौ तु पातु विष्णुर्मे स्तनमध्यं तु शाङ्करः ॥ १२॥ उदरं तुन्दिलः पातु नाभिं पातु सुनाभिकः । कटिं पात्वमलो नित्यं पातु मध्यं तु पावनः ॥ १३॥ मेढ्रं पातु महायोगी तत्पार्श्वं सर्वरक्षकः । गुह्यं गुहाग्रजः पातु अणुं पातु जितेन्द्रियः ॥ १४॥ शुक्लं पातु सुशुक्लस्तु ऊरू पातु सुखप्रदः । जङ्घदेशे ह्रस्वजङ्घो जानुमध्ये जगद्गुरुः ॥ १५॥ गुल्फौ रक्षाकरः पातु पादौ मे नर्तनप्रियः । सर्वाङ्गं सर्वसन्धौ च पातु देवारिमर्दनः ॥ १६॥ पुत्रमित्रकलत्रादीन् पातु पाशाङ्कुशाधिपः । धनधान्यपशूंश्चैव गृहं क्षेत्रं निरन्तरम् ॥ १७॥ पातु विश्वात्मको देवो वरदो भक्तवत्सलः । रक्षाहीनं तु यत्स्थानं कवचेन विना कृतम् ॥ १८॥ तत्सर्वं रक्षयेद्देवो मार्गवासी जितेन्द्रियः । अटव्यां पर्वताग्रे वा मार्गे मानावमानगे ॥ १९॥ जलस्थलगतो वाऽपि पातु मायापहारकः । सर्वत्र पातु देवेशः सप्तलोकैकसङ्क्षितः ॥ २०॥ ॥ फलश्रुतिः ॥ य इदं कवचं पुण्यं पवित्रं पापनाशनम् । प्रातःकाले जपेन्मर्त्यः सदा भयविनाशनम् ॥ २१॥ कुक्षिरोगप्रशमनं लूतास्फोटनिवारणम् । मूत्रकृच्छ्रप्रशमनं बहुमूत्रनिवारणम् ॥ २२॥ बालग्रहादिरोगाणान्नाशनं सर्वकामदम् । यः पठेद्धारयेद्वाऽपि करस्थास्तस्य सिद्धयः ॥ २३॥ यत्र यत्र गतश्चाश्पी तत्र तत्राऽर्थसिद्धिदम् ॥ २४॥ यश्श‍ृणोति पठति द्विजोत्तमो विघ्नराजकवचं दिने दिने । पुत्रपौत्रसुकलत्रसम्पदः कामभोगमखिलांश्च विन्दति ॥ २५॥ यो ब्रह्मचारिणमचिन्त्यमनेकरूपं ध्यायेज्जगत्रयहितेरतमापदघ्नम् । सर्वार्थसिद्धिं लभते मनुष्यो विघ्नेशसायुज्यमुपेन्न संशयः ॥ २६॥ ॥ इति श्रीविनायकतन्त्रे श्रीवल्लभेशहृदयम् ॥
પાઠ જપ: 0/108