સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

શ્રીચામુણ્ડા સ્તુતિઃ

श्रीचामुण्डा स्तुतिः
રચયિતા: પારંપરિક વાચન સંખ્યા: 10
લિપિ પસંદ કરો: देवनागरी (संस्कृत)
14px

श्रीचामुण्डा स्तुतिः

जयस्व देवि चामुण्डे जय भूताऽपहारिणि । जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥ १॥ विश्वमूर्तियुते शुद्धे विरूपाक्षी त्रिलोचने । भीमरूपे शिवे विद्ये महामाये महोदरे ॥ २॥ मनोजये मनोदुर्गे भीमाक्षि क्षुभितक्षये । महामारि विचित्राङ्गि गीतनृत्यप्रिये शुभे ॥ ३॥ विकरालि महाकालि कालिके पापहारिणि । पाशहस्ते दण्डहस्ते भीमहस्ते भयानके ॥ ४॥ चामुण्डे ज्वलमानास्ये तीक्ष्णदंष्ट्रे महाबले । शिवयानप्रिये देवी प्रेतासनगते शिवे ॥ ५॥ भीमाक्षि भीषणे देवि सर्वभूतभयङ्करि । करालि विकरालि च महाकालि करालिनि ॥ ६॥ कालि करालविक्रान्ते कालरात्रि नमोऽस्तु ते । सर्वशस्त्रभृते देवि नमो देवनमस्कृते ॥ ७॥ ॥फलश्रुतिः ॥ एवं स्तुता शिवदूती रुद्रेण परमेष्ठिना । तुतोष परमा देवी वाक्यं चैवमुवाच ह ॥ ८॥ वरं वृष्णीष्व देवेश यत्ते मनसि वर्तते । श्रीरुद्र उवाच स्तोत्रेणाऽनेन ये देवि स्तोष्यन्ति त्वां वरानने ॥ ९॥ तेषां त्वं वरदा देवि भव सर्वगता सती । इमं पर्वतमारुह्य यः पूजयति भक्तितः ॥ १०॥ स पुत्रपौत्रपशुमान् समृद्धिमुपगच्छतु । यश्चैवं श‍ृणुयाद्भक्त्या स्तवं देवि समुद्भवम् ॥ ११॥ सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छतु । भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः ॥ १२॥ अष्टम्यां च चतुर्दश्यां सोपवासो नरोत्तम । संवत्सरेण लभतां राज्यं निष्कण्टकं पुनः ॥ १३॥ एषा ज्ञानान्विता शाक्तिः शिवदूतीति चोच्यते । य एवं श‍ृणुयान्नित्यं भक्त्या परमया नृप ॥ १४॥ सर्वपापविनिर्मुक्तः परं निर्वाणमाप्नुयात् । यश्चैनं पठते भक्त्या स्नात्वा वै पुष्करे जले ॥ १५॥ सर्वमेतत्फलं प्राप्य ब्रह्मलोके महीयते । यत्रैतल्लिखितं गेहे सदा तिष्ठति पार्थिव ॥ १६॥ न तत्राऽग्निभयं घोरं सर्वचोरादि सम्भवम् । यश्चेदं पूजयेद्भक्त्या पुस्तकेऽपि स्थितं बुधाः ॥ १७॥ तेन चेष्टं भवेत्सर्वं त्रैलोक्यं सचराचरम् । जायन्ते बहवः पुत्राः धनं धान्यं वरा स्त्रियः ॥ १८॥ रत्नान्यश्वा गजा भृत्यास्तेषामाशु भवन्ति च । यत्रेदं लिख्यते गेहे तत्राप्येवं ध्रुवं भवेत् ॥ १९॥ ॥ इति पाद्मे पुराणे सृष्टिखण्डे श्रीचामुण्डा स्तुतिः ॥
પાઠ જપ: 0/108