ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
..
ಸನಾತನ ದೇವ

.. ಚಾಕ್ಷುಷೋಪನಿಷದ್ ..

॥ चाक्षुषोपनिषद् ॥
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 10
ಲಿಪಿಯನ್ನು ಆಯ್ಕೆಮಾಡಿ: देवनागरी (संस्कृत)
14px

॥ चाक्षुषोपनिषद् ॥

विनियोगः ॐ अस्याश्चाक्षुषीविद्याया अहिर्बुध्न्य ऋषिर्गायत्री छन्दःसूर्योदेवता चक्षूरोगनिवृत्तये जपे विनियोगः ।

ॐ चक्षुः चक्षुः चक्षुः तेजः स्थिरो भव । मां पाहि पाहि । त्वरितं चक्षूरोगान् शमय शमय । मम जातरुपं तेजो दर्शय दर्शय । यथा अहम् अन्धो न स्यां तथा कल्पय कल्पय । कल्याणं कुरु कुरु । यानि मम पूर्वजन्मापार्जितानि चक्षुः प्रतिरोधकदुष्कृतानि सर्वाणि निर्मूलय निर्मूलय । ॐ नमः चक्षुस्तेजोदात्रे दिव्याय भास्कराय । ॐ नमः करुणाकरायामृताय । ॐ नम सूर्याय । ॐ नमो भगवते सूर्यायाक्षितेजसे नमः । खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः । असतो मा सद्गमय तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो भगवाञ्छुचिरुपः । हंसो भगवान् शुचिरप्रतिरुपः । य इमां चाक्षुष्मतीविद्यां ब्राह्मणो नित्यमधीते न तस्याक्षिरोगो भवति । न तस्य कुले अन्धो भवति । अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा विद्यासिद्धिर्भवति । ॐ नमो भगवते आदित्याय अहोवाहिनी अहोवाहिनी स्वाहा ।

॥ श्रीकृष्णजुर्वेदीया चाक्षुषी विद्या ॥

ಜಪ ಎಣಿಕೆ: 0/108