सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

शिवकृता गणेशस्तुतिः

stotra-21e3df1e
रचयिता: पारंपरिक पाठ संख्या: 1
23px
गणेशस्तुतिः शिव उवाच । नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे । विघ्नकर्त्रे गणेशाय विघ्नानां पतये नमः ॥ २०॥ लम्बोदराय सर्वाय वक्रतुण्डस्वरूपिणे । त्रैगुण्येन जगद्रूपनानाभेदप्रधारिणे ॥ २१॥ नैर्गुण्येन च वै साक्षाद्ब्रह्मरूपधराय च । नमो नमो बन्धहन्त्रे भक्तानां पालकाय ते ॥ २२॥ अभक्तेभ्यस्तमोदाय नानाभयकराय च । हेरम्बाय नमस्तुभ्यं वेदवेद्याय शाश्वते ॥ २३॥ अनन्ताननरूपायानन्तबाह्वङ्घ्रिकाय ते । अनन्तकरकर्णायानन्तोदरधराय ते ॥ २४॥ नमो नमस्ते गणनायकाय ते अनादिपूज्याय च सर्वरूपिणे । अखण्डलीलाकरपूर्णमूर्तये महोत्कटायास्तु नमो महात्मने ॥ २५॥ आदौ च निर्माय विधिं रजोमयं तेनैव सृष्टिं विदधासि देव । सत्त्वात्मकं विष्णुमथो हि मध्ये निर्माय पासि त्वमखण्डविक्रम ॥ २६॥ अन्ते तमोरूपिणमेव सृष्ट्वा शम्भुं स्वशक्त्या हरसि त्वमाद्य । एवंविधं त्वां प्रवदन्ति वेदाः तं वै गणेशं शरणं प्रपद्ये ॥ २७॥ मायामयं वै गुणपं तु सृष्ट्वा तस्मात्पुरस्त्वं गणराज चादौ । स्वानन्दसंज्ञे नगरे विभासि सिद्ध्या च वुद्ध्या सहितः परेश ॥ २८॥ तं त्वां गणेशं शरणं प्रपद्ये स्थितं सदा हृत्सु च योगिनां वै । वेदैर्न वेद्यं मनसा न लभ्यं तं वक्रतुण्डं हृदि चिन्तयामि ॥ २९॥ अर्धनारीश्वरत्वं यत्तद्गतं मेऽधुना प्रभो । शक्तिहीनत्वमापन्नो नष्टवत्कर्मणा कृतः ॥ ३०॥ नानैश्वर्ययुता देवी सा गता गणप प्रभो । अनीश्वरपदं प्राप्तं मम वै देवदेव भोः ॥ ३१॥ निर्गुणोऽहं सदा शम्भुः सगुणः सर्वभाववित् । शत्त्या युक्तो यदा स्वामिन्नधुना किं करोम्यहम् ॥ ३२॥ शक्तिहीनः पदा गन्तुं न शक्नोमि गणेश्वर । अतस्त्वं कृपया देव शक्तं मां कुरु कर्मणि ॥ ३३॥ ततः प्रादुरभूत्तस्य पुरतः स गणाधिपः । उवाच शङ्करं तत्र हर्षयन् श्लक्ष्णया गिरा ॥ ३४॥ अहो पश्य च मां शम्भो किं शोचसि महेश्वर । भवितासि सशक्तिस्त्वं मद्वाक्यान्नात्र संशयः ॥ ३५॥ अहमेवेश्वरो देवो ह्येको ब्रह्माण्डमण्डले । तेन गर्वेण युक्तस्त्वं स विघ्नः सहसा कृतः ॥ ३६॥ अधुना ते गतो मोहो मदीया स्मृतिरागता । ध्यातस्तुतश्च तेनाऽहं प्रसन्नोऽस्मि न संशयः ॥ ३७॥ हिमाचलसुता देवी भविष्यति न संशयः । वृणोषि त्वं सतीं तां वै पार्वतीं च पुनःशिव ॥ ३८॥ रमसे च तया सार्धं मत्तया भावितो दृढम् । ईश्वरः सहशक्तिस्त्वं मत्प्रसादात्सदा भव ॥ ३९॥ स्मृतमात्रस्तवाग्रेऽहं प्रत्यक्षः स्यां सदाशिव । इति दत्त्वा वरं देवस्तत्रैवान्तरधीयत ॥ ४०॥ इति श्रीमुद्गलपुराणे शिवकृता गणेशस्तुतिः
पाठ जप: 0/108