સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

દુર્ગા ભગવતી પ્રાતઃસ્મરણમ્

दुर्गा भगवती प्रातःस्मरणम्
રચયિતા: પારંપરિક વાચન સંખ્યા: 6
લિપિ પસંદ કરો: देवनागरी (संस्कृत)
14px

श्रीचण्डी दुर्गा भगवती प्रातःस्मरणम्

प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभां सद्रत्नवन्मकरकुण्डलहारभूषाम् । दिव्यायुधोर्जितसुनीलसहस्रहस्तां रक्तोत्पलाभचरणां महतीं परेशाम् ॥ १॥ प्रातर्नमामि महिषासुरचण्डमुण्ड- शुम्भासुरप्रसुखदैत्यविनाशदक्षाम् । ब्रह्मेन्द्रमुनिमोहनशीललीलां चण्डीं समस्तसुरमूर्तिमनेकरूपाम् ॥ २॥ प्रातर्भजामि भवतामभिलाषदात्रीं  धात्रीं समस्तजगतां दुरितापहन्त्रीम् । संसारबन्धनविमोचनहेतुभूतां मायां परां समधिगम्य परस्य विष्णोः ॥ ३॥ श्लोकत्रयमिदं देव्याश्चण्डिकायाः पठेन्नरः । सर्वान्कामानवाप्नोति विष्णुलोके महीयते ॥ ४॥ ॥ इति श्रीचण्डीका प्रातःस्मरणम् ॥
પાઠ જપ: 0/108