સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

.. શ્લોકત્રયમ્ ..

॥ श्लोकत्रयम् ॥
રચયિતા: પારંપરિક વાચન સંખ્યા: 5
23px
प्रातस्मरामि भवभीतिमहार्तिशान्त्यै
नारायणं गरुडवाहनमञ्जनाभम्।
ग्राहाभिभूतमदवारणमुक्तिहेतुं
चक्रायुधं तरुणवारिजपत्रनेत्रम्।। १ ।।

प्रातर्नमामि मनसा वचसा च मूर्ध्ना
पादारविदयुगळं परमस्य पुंसः।
नारायणस्य नरकार्णवतारणस्य
पारायणप्रवण विप्रपरायणस्य।। २ ।।

प्रातर्भजामि भजतामभयङ्करं तं
प्राक्सर्वजन्मकृत पापभयापनुत्यै।
यो ग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोर-
शोकप्रणाशनकरो धृतशंखचक्रः।। ३ ।।

फलश्रुतिः
श्लोकत्रय मिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरिः ।।४ ।।
પાઠ જપ: 0/108