সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

শ্রীশারদেশত্রিশতীস্তোত্রম্

श्रीशारदेशत्रिशतीस्तोत्रम्
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 2
23px

श्रीशारदेशत्रिशतीस्तोत्रम्

श्रीदेव्युवाच - त्रिशतीं शारदेशस्य कृपया वद शङ्कर । श्रीशिव उवाच - सहस्रनाम मन्त्रवद् ऋषिध्यानाधिकं स्मृतम् ॥ १॥ ॥ अथ श्रीशारदेशत्रिशती ॥ ॐकारवाच्य ॐकार ॐकारमुखराजितः । ॐकारमातृगो ॐकारशून्यपदसंस्थितः ॥ २॥ ॐकारबिन्दुगो नित्यं ॐकारनादकारणम् । ॐकारमात्राजनकः ॐकारपूर्णविग्रहः ॥ ३॥ ॐकारचक्रमध्यस्थ ॐकारशक्तिनायकः । श्रींकारश्श्रीधरश्श्रीदः श्रीपतिश्श्रीनिकेतनः ॥ ४॥ श्रीनिवासश्श्रीधरश्श्रीमान् श्रींकारदेवपूजितः । श्रींकारदेवपूर्वाङ्गः श्रींकारयुग्मसेवितः ॥ ५॥ ह्रींकारलक्ष्यः ह्रींकारशक्तीशः ह्रींमनुप्रियः । ह्रींकारमायाजनको ह्रींकारशक्तिपूजितः ॥ ६॥ ह्रींकारेशदक्षिणाङ्गो ह्रींकारमनुतोषितः । ह्रींकारजपसुप्रीतो ह्रींकारशक्तिलोकगः ॥ ७॥ ह्रींकारशक्तिमलजो ह्रींकारशक्तिनन्दनः । क्लींकारमनुसंवेद्यः क्लींकारमनुतोषितः ॥ ८॥ क्लींकारेशपश्चिमाङ्गः क्लींकारदेवसेवितः । क्लींकारेण विश्वमोहकरः क्लींकारकारणम् ॥ ९॥ क्लींकारेण वश्यदाता क्लींकारेश्वरपूजितः । क्लींकारशक्तिपतिदः क्लींकारशक्तिहर्षदः ॥ १०॥ क्लींकारेण विश्वस्रष्टा क्लींकारमयविश्वगः । क्लींकारेण विश्ववृद्धिकरः ऐङ्कारपीठगः ॥ ११॥ ऐङ्कारजपसुप्रीत ऐङ्कारदेववन्दितः । ऐङ्कारेश्वरवामाङ्गः ऐङ्कारशक्तिनायकः ॥ १२॥ ऐङ्कारशक्तिजनक ऐङ्कारेण विभूतिदः । ऐङ्कारमयवेदेड्य ऐङ्कारशब्दकारणम् ॥ १३॥ गम्बीजो गम्बीजदेहो गम्बीजात्मा गंस्थितिप्रदः । गङ्कारमन्त्रसंवेद्यो गङ्कारेण गतिप्रदः ॥ १४॥ गङ्कारेण विश्वस्रष्टा गङ्कारेण सुमुक्तिदः । गङ्कारेण कामदाता गङ्कारेणाऽर्थदायकः ॥ १५॥ गङ्कारेण ब्रह्मभूयदायको गणनायकः । गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ॥ १६॥ गणमूर्तिर्गणपतिर्गणत्राता गणञ्जयः । गणज्येष्ठो गणश्रेष्ठो गणगोप्ता गणप्रथः ॥ १७॥ नरदेहो नागमुखो नारायणसमर्चितः । नारायणश्रीपूर्वाङ्गो नादमध्ये प्रतिष्ठितः ॥ १८॥ नन्द्यो नन्दीप्रियो नादजनको नटनप्रियः । नगराजसुतासूनुर्नटराजसुपूजितः ॥ १९॥ परमात्मा परन्धाम पशुपाशविमोचकः । परञ्ज्योतिः पराकाशः पुराणपुरुषोत्तमः ॥ २०॥ पुरुषः प्रणवाकारः पुरुषातीतविग्रहः । पद्मनाभसुतानाथः पद्मनाभसमर्चितः ॥ २१॥ तत्त्वानाम्परमन्तत्त्वं तत्त्वम्पदनिरूपितः । तत्त्वातीतस्तत्त्वमयस्तत्त्वाष्टकसुसंस्थितः ॥ २२॥ तत्त्वमस्याकृतिधरस्तत्त्वमस्यार्थबोधकः । तारकान्तरसंस्थानस्तारकस्तारकाननः ॥ २३॥ तारकासुरसंहर्ता तारकान्तकपूर्वजः । यज्ञो यज्ञपतिर्यज्ञफलदो यज्ञरक्षकः ॥ २४॥ यज्ञमूर्तिर्यज्ञभोक्ता यज्ञेशानवरप्रदः । यज्ञकर्ता यज्ञधर्ता यज्ञहर्ता यमीश्वरः ॥ २५॥ विनायको विघ्नराजो वैनायकप्रवालकः । विघ्नहर्ता विघ्नकर्ता विश्वाधारो विराट्पतिः ॥ २६॥ वागीश्वरीपतिर्वाणीनायको वामनार्चितः । रक्षाकरो राक्षसघ्नो रमेशो रावणार्चितः ॥ २७॥ रमाप्रियो रमेशानपूजितो राधिकार्चितः । रमारमेशपूर्वाङ्गो राकाचन्द्रसमप्रभः ॥ २८॥ रत्नगर्भो रत्नदाता रक्तो राज्यसुखप्रदः । विश्वनाथो विराण्णाथो विश्वो विष्णुप्रपूजितः ॥ २९॥ विश्वातीतो विश्वमयो वीतिहोत्रसमर्चितः । विश्वम्भरो विश्वपाता विश्वधर्ता विमानगः ॥ ३०॥ रामार्चिताङ्घ्रियुगलो रघुनाथवरप्रदः । रामप्रियो रामनाथो रामवंशप्रपालकः ॥ ३१॥ रामेश्वरक्षेत्रवासी रामसेतुफलप्रदः । रामभक्तिसुसन्तुष्टो रामाभीष्टफलप्रदः ॥ ३२॥ रामविघ्नप्रशमनो रामाय सिद्धिदायकः । दक्षयज्ञप्रमथनो दैत्यवारणधारणः ॥ ३३॥ द्वैमातुरो द्विवदनो द्वन्द्वातीतो द्वयातिगः । द्विपास्यो देवदेवेशो देवेन्द्रपरिपूजितः ॥ ३४॥ दहराकाशमध्यस्थो देवदानवमोहनः । वामारामो वेदवेद्यो वैद्यनाथो वरेण्यजः ॥ ३५॥ वासुदेवसमाराध्यो वासुदेवेष्टदायकः । विभावसुमण्डलस्थो विभावसुवरप्रदः ॥ ३६॥ वसुधारेशवरदो वरो वसुमतीश्वरः । दयावान् दिव्यविभवो दण्डभृद् दण्डनायकः ॥ ३७॥ दाडिमीकुसुमप्रख्यो दाडिमीफलभक्षकः । दितिजारिर्दिवोदासवरदो दिव्यलोकगः ॥ ३८॥ दशबाहुर्दीनदैन्यमोचको दीननायकः । प्रमाणप्रत्ययातीतः परमेशः पुराणकृत् ॥ ३९॥ पद्मपतिः पद्महस्तः पन्नगाशनवाहनः । पन्नगेशः पन्नगजः पन्नगाभरणोज्ज्वलः ॥ ४०॥ पार्वतीतनयः पार्वतीनाथप्रपूजितः । ज्ञानं ज्ञानात्मको ज्ञेयो ज्ञानदो ज्ञानविग्रहः ॥ ४१॥ ज्ञानाम्बातनयो ज्ञानशक्तीशो ज्ञानशास्त्रकृत् । ज्ञानकर्ता ज्ञानभर्ता ज्ञानी ज्ञानसुरक्षकः ॥ ४२॥ धर्मो धर्मप्रदो धर्मराजो धर्मप्रपूजितः । धर्मवाहो धर्मबाहुर्धर्मोष्ठो धर्मपालकः ॥ ४३॥ धर्मकर्ता धर्मधर्ता धर्मभर्ता धनप्रदः । यशस्करो योगगम्यो योगमार्गप्रकाशकः ॥ ४४॥ योगदो योगिनीनाथो योगशान्तिप्रदायकः । योगकर्ता योगधर्ता योगभूमिप्रपालकः ॥ ४५॥ योगविघ्नप्रशमनो योगसिद्धिप्रदायकः । मेधाप्रदो मायिकेशो मेधेशो मुक्तिदायकः ॥ ४६॥ मायी माधवसम्पूज्यो माधवो माधवात्मजः । मन्दाकिनीतीरवासी मणिकर्णिगणेश्वरः ॥ ४७॥ धनदो धान्यदो धीरो धैर्यदो धरणीधरः । धर्मपुत्रधर्मतुष्टो धर्मपुत्रेप्सितप्रदः ॥ ४८॥ धर्मपुत्रधर्मदाता धर्मपुत्रार्थदायकः । धर्मव्याधज्ञानदाता धर्मव्याधेप्सितप्रदः ॥ ४९॥ दत्तप्रियो दानपरो दत्तात्रेयेष्टदायकः । दत्तात्रेययोगदाता दत्तात्रेयहृदिस्थितः ॥ ५०॥ दाक्षायणीसुतो दक्षवरदो दक्षमुक्तिदः । दक्षराजरोगहरो दक्षराजेप्सितप्रदः ॥ ५१॥ हंसो हस्तिपिशाचीशो हादिविद्यासुतोषितः । हरिर्हरसुतो हृष्टो हर्षदो हव्यकव्यभुक् ॥ ५२॥ हुतप्रियो हरीशानो हरीशविधिसेवितः । स्वस्स्वानन्दस्स्वसंवेद्यो स्वानन्देशस्स्वयम्प्रभुः ॥ ५३॥ स्वयञ्ज्योतिः स्वराट्पूज्यस्स्वस्वानन्दप्रदायकः । स्वात्मारामवरस्स्वर्गस्वानन्देशस्स्वधाप्रियः ॥ ५४॥ स्वसंवेद्यो योगगम्यस्स्वसम्वेद्यत्वदायकः । हय्यङ्गवीनहृदयो हिमाचलनिवासकृत् ॥ ५५॥ हैमवतीशतनयो हेमाङ्गदविभूषणः । फलश्रुतिः - शारदेशमन्त्रभूतां त्रिशतीं यः पठेन्नरः ॥ ५६॥ इह भुक्त्वाऽखिलान्भोगान् शारदेशप्रसादतः । विद्यां बुद्धिं धियं कीर्तिं लब्ध्वा मोक्षमवाप्नुयात् ॥ ५७॥ ॥ इति वैनायकतन्त्रे शारदेशत्रिशतीस्तोत्रम् ॥  
পাঠ জপ: 0/108