સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

શ્રીગણેશમાનસપૂજા

श्रीगणेशमानसपूजा
રચયિતા: પારંપરિક વાચન સંખ્યા: 2
23px
श्रीगणेशमानसपूजा श्री गणेशाय नमः ॥ गृत्समद उवाच ॥ विघ्नेशवीर्याणि विचित्रकाणि बंदीजनैर्मागधकैः स्मृतानि । श्रुत्वा समुत्तिष्ठ गजानन त्वं ब्राह्मे जगन्मंगलकं कुरुष्व ॥ १॥ एवं मया प्रार्थितो विघ्नराजश्चित्तेन चोत्थाय बहिर्गणेशः । तं निर्गतं वीक्ष्य नमन्ति देवाः शंभ्वादयो योगिमुखास्तथाऽहम् ॥ २॥ शौचादिकं ते परिकल्पयामि हेरम्ब वै दन्तविशुद्धिमेवम् । वस्त्रेण सम्प्रोक्ष्य मुखारविन्दं देवं सभायां विनिवेशयामि ॥ ३॥ द्विजादिसर्वेरभिवन्दितं च शुकादिभिर्मोद-सुमोदकाद्यैः । संभाष्य चालोक्य समुत्थितं तं सुमण्डपं कल्प्य निवेशयामि ॥ ४॥ रत्नैः सुदीप्तैः प्रतिबिम्बितं तं पश्यामि चित्तेन विनायकं च । तत्रासनं रत्नसुवर्णयुक्तं संकल्प्य देवं विनिवेशयामि ॥ ५॥ सिद्ध्या च बुद्ध्या सह विघ्नराज! पाद्यं कुरु प्रेमभरेण सर्वैः । सुवासितं नीरमथो गृहाण चित्तेन दत्तं च सुखोष्णभावम् ॥ ६॥ ततः सुवस्त्रेण गणेशमादौ सम्प्रोक्ष्य दूर्वादिभिरर्चयामि । चित्तेन भावप्रिय दीनबन्धो मनो विलीनं कुरु ते पदाब्जे ॥ ७॥ कर्पूरकैलादि-सुवासितं तु सुकल्पितं तोयमथो गृहाण । आचम्य तेनैव गजानन! त्वं कृपाकटाक्षेण विलोकयाशु ॥ ८॥ प्रवाल-मुक्ताफल-हारकाद्यैः सुसंस्कृतं ह्यन्तरभावकेन । अनर्घ्यमर्घ्यं सफलं कुरुष्व मया प्रदत्तं गणराज ढुण्ढे ॥ ९॥ सौगंध्ययुक्तं मधुपर्कमाद्यं संकल्पितं भावयुतं गृहाण । पुनस्तथाऽऽचम्य विनायक त्वं भक्तांश्च भक्तेश सुरक्षयाशु ॥ १०॥ सुवासितं चंपक जातिकाद्यैस्तैलं मया कल्पितमेव ढुण्ढे । गृहाण तेन प्रविमर्दयामि सर्वांगमेवं तव सेवनाय ॥ ११॥ ततः सुखोष्णेन जलेन चाहमनेकतीर्थाहृतकेन ढुण्ढे । चित्तेन शुद्धेन च स्नापयामि स्नानं मया दत्तमथो गृहाण ॥ १२॥ ततः पयःस्नानमचिन्त्यभाव गृहाण तोयस्य तथा गणेश । पुनर्दधिस्नानमनामयत्वं चित्तेन दत्तं च जलस्य चैव ॥ १३॥ ततो घृतस्नानमपारवन्द्य सुतीर्थजं विघ्नहर प्रसीद । गृहाण चित्तेन सुकल्पितं तु ततो मधुस्नानमथो जलस्य ॥ १४॥ सुशर्करायुक्तमथो गृहाण स्नानं मया कल्पितमेव ढुण्ढे । ततो जलस्नानमघापहंतृ विघ्नेश मायाभ्रमं हिनिवारयाशु ॥ १५॥ सुयक्षपंकं स्तमथो गृहाण स्नानं परेशाधिपते ततश्च । कौमण्डलीसंभवजं कुरुष्व विशुद्धमेवं परिकल्पितं तु ॥ १६॥ ततस्तु सूक्तैर्मनसा गणेशं सम्पूज्य दूर्वादिभिरल्पभावैः । अपारकैर्मण्डलभूतब्रह्मणस्पत्यादिकैस्तं ह्यभिषेचयामि ॥ १७॥ ततः सुवस्त्रेण तु प्रोंछनं वै गृहाण चित्तेन मया सुकल्पितम् । ततो विशुद्धेन जलेन ढुण्ढे ह्याचान्तमेवं कुरु विघ्नराज ॥ १८॥ अग्नौ विशुद्धे तु गृहाण वस्त्रे ह्यनर्घ्यमौल्ये मनसा मया ते । दत्ते परिच्छाद्य निजात्मदेहं ताभ्यां मयूरेश जनांश्च पालय ॥ १९॥ आचम्य विघ्नेश पुनस्तथैव चित्तेन दत्तं सुखमुत्तरीयम् । गृहाण भक्तप्रतिपालक त्वं नमोऽथ तारकसंयुतं तु ॥ २०॥ यज्ञोपवीतं त्रिगुणस्वरूपं सौवर्णमेवं ह्यहिनाथभूतम् । भावेन दत्तं गणनाथ तत्वं गृहाण भक्तोद्धृतिकारणाय ॥ २१॥ आचान्तमेवं मनसा प्रदत्तं कुरुष्व शुद्धेन जलेन ढुण्ढे । पुनश्च कौमण्डलकेन पाहि विश्वं प्रभो खेलकरं सदा ते ॥ २२॥ उद्यद्दिनेशाभमथो गृहाण सिन्दूरकं ते मनसा प्रदत्तम् । सर्वांगसंलेपनमादराद्वै कुरुष्व हेरम्ब च तेन पूर्णम् ॥ २३॥ सहस्रशीर्षं मनसा मया त्वं दत्तं किरीटं तु सुवर्णजं वै । अनेकरत्नैः खचितं गृहाण ब्रह्मेश ते मस्तकशोभनाय ॥ २४॥ विचित्ररत्नैः कनकेन ढुण्ढे युतानि चित्तेन मया परेश । दत्तानि नानापदकुण्डलानि गृहाण शूर्पश्रुतिभूषणाय ॥ २५॥ शुण्डाविभूषार्थमनन्तखेलिन् सुवर्णजं कंचुकमागृहाण । रत्नैश्च युक्तं मनसा मया, यद्दत्तं प्रभो तत्सफलंकुरुष्व ॥ २६॥ सुवर्णरत्नैश्च युतानि ढुण्ढे सदैकदन्ताभरणानि कल्प्य । गृहाण चूडाकृतये परेश दत्तानि दन्तस्य च शोभनार्थम् ॥ २७॥ रत्नैः सुवर्णेन कृतानि तानि गृहाण चत्वारि मया प्रकल्प्य । सम्भूषय त्वं कटकानि नाथ चतुर्भुजेषु ह्यज विघ्नहारिन् ॥ २८॥ विचित्ररत्नैः खचितं सुवर्णसंभूतकं गृह्य मया प्रदत्तम् । तथांगुलीष्वांगुलिकं गणेश चित्तेन् संशोभय तत्परेश ॥ २९॥ विचित्ररत्नैः खचितानि ढुण्ढे केयूरकाणि ह्यथ कल्पितानि । सुवर्णजानि प्रथमाधिनाथ गृहाण दत्तानि तु बाहुषु त्वम् ॥ ३०॥ प्रवाल-मुक्ताफल-रत्नजैस्त्वं सुवर्णसूत्रैश्च गृहाण कण्ठे । चित्तेन दत्ता विविधाश्च माला ऊरूदरे सोभय विघ्नराज ॥ ३१॥ चन्द्रं ललाटे गणनाथ पूर्णं वृद्धिक्षयाभ्यां तु विहीनमाद्यम् । संशोभय त्वं वरसंयुतं ते भक्तिप्रियत्वं प्रकटीकुरुष्व ॥ ३२॥ चिंतामणिं चिंतितदं परेश हृद्देशगं ज्योतिर्मयं कुरुष्व । मणिं सदानन्दसुखप्रदं च विघ्नेश दीनार्थद पालयस्व ॥ ३३॥ नाभौ फणीशं च सहस्रशीर्षं संवेष्टनेनैव गणाधिनाथ । भक्तं सुभूषं कुरु भूषणेन वरप्रदानं सफलं परेश ॥ ३४॥ कटीतटे रत्नसुवर्णयुक्तां कांचीं सुचित्तेन च धारयामि । विघ्नेश ज्योतिर्गणदीपनीं ते प्रसीद भक्तं कुरु मां दयाब्धे ॥ ३५॥ हेरम्ब ते रत्नसुवर्णयुक्ते सुनूपुरे मंजिरके तथैव । सुकिंकिणीनादयुते सुबुद्ध्या सुपादयोः शोभय मे प्रदत्ते ॥ ३६॥ इत्यादि-नानाविध-भूषणानि तवेच्छया मानसकल्पितानि । सम्भूषयाम्येव त्वदंकेषु विचित्रधातुप्रभवाणि ढुण्ढे ॥ ३७॥ सुचन्दनं रक्तममोघवीर्यं सुघर्षितं ह्यष्टकगन्धमुख्यैः । युक्तं मया कल्पितमेकदन्त गृहाण ते त्वंगविलेपनार्थम् ॥ ३८॥ लिप्तेषु वैचित्र्यमथाष्टगन्धैरंगेषु तेऽहं प्रकरोमि चित्रम् । प्रसीद चित्तेन विनायक त्वं ततः सुरक्तं रविमेव भाले ॥ ३९॥ घृतेन वै कुंकुमकेन रक्तान् सुतंडुलांस्ते परिकल्पयामि । भाले गणाध्यक्ष गृहाण पाहि भक्तान् सुभक्तिप्रिय दीनबन्धो ॥ ४०॥ गृहाण भो चम्पकमालतीनि जलपंकजानि स्थलपंकजानि । चित्तेन दत्तानि च मल्लिकादि पुष्पाणि नानाविधवृक्षजानि ॥ ४१॥ पुष्पोपरि त्वं मनसा गृहाण हेरम्ब मन्दारशमीदलानि । मया सुचित्तेन च कल्पितानि ह्यपारकाणि प्रणवाकृते तु ॥ ४२॥ दूर्वांकुरान् वै मनसा प्रदत्तांस्त्रिपंचपत्रैर्युतकांश्च स्निग्धान । गृहाण विघ्नेश्वर संख्यया त्वं हीनाश्च सर्वोपरि वक्रतुण्ड ॥ ४३॥ दशांगभूतं मनसा मया ते धूपं प्रदत्तं गणराज ढुण्ढे । गृहाण सौरभ्यकरं परेश सिद्ध्या च बुद्ध्या सह भक्तपाल ॥ ४४॥ दीपं सुवर्त्या युतमादरात्ते दत्तं मया मानसकं गणेश । गृहाण नानाविधजं घृतादि-तैलादि-संभूतममोघदृष्टे ॥ ४५॥ भोज्यं च लेह्यं गणराज पेयं चोष्यं च नानाविध-षड्रसाढ्यम् । गृहाण नैवेद्यमथो मया ते सुकल्पितं पुष्टिपते महात्मन् ॥ ४६॥ सुवासितं भोजनमध्यभागे जलं मया दत्तमथो गृहाण । कमण्डलुस्थं मनसा गणेश पिबस्व विश्वादिकतृप्तिकारिन् ॥ ४७॥ ततः करोद्वर्तनकं गृहाण सौगन्ध्युक्तं मुखमार्जनाय । सुवासितेनैव सुतीर्थजेन सुकल्पितं नाथ गृहाण ढुण्ढे ॥ ४८॥ पुनस्तथाचम्य सुवासितं च दत्तं मया तीर्थजलं पिबस्व । प्रकल्प्य विघ्नेश ततः परं ते सम्प्रोंछनं हस्तमुखेकरोमि ॥ ४९॥ द्राक्षादि-रम्भाफल-चूतकानि खार्जूर-कार्कन्धुक-दाडिमानि । सुस्वादयुक्तानि मया प्रकल्प्य गृहाण दत्तानि फलानि ढुण्ढे ॥ ५०॥ पुनर्जलेनैव करादिकं ते संक्षालयेऽहं मनसा गणेश । सुवासितं तोयमथो पिबस्व मया प्रदत्तं मनसा परेश ॥ ५१॥ अष्टांगयुक्तं गणनाथ दत्तं ताम्बूलकं ते मनसा मया वै । गृहाण विघ्नेश्वर भावयुक्तं सदासकृत्तुण्डविशोधनार्थम् ॥ ५२॥ ततो मया कल्पितके गणेश महासने रत्नसुवर्णयुक्ते । मन्दारकूर्पासकयुक्त-वस्त्रैरनर्घ्य-संछादितके प्रसीद ॥ ५३॥ ततस्त्वदीयावरणं परेश सम्पूजयेऽहं मनसा यथावत् । नानोपचारैः परमप्रियैस्तु त्वत्प्रीतिकामार्थमनाथबन्धो ॥ ५४॥ गृहाण लम्बोदर दक्षिणां ते ह्यसंख्यभूतां मनसा प्रदत्ताम् । सौवर्ण-मुद्रादिक-मुख्यभावां, पाहि प्रभो विश्वमिदं गणेश ॥। ५५॥ राजोपचारान् विविधान् गृहाण हस्त्यश्व-छत्रादिकमादराद्वै । चित्तेन दत्तान् गणनाथ ढुण्ढे ह्यपारसख्यान् स्थिरजंगमांस्ते ॥ ५६॥ दानाय नानाविधरूपकांस्ते गृहाण दत्तान् मनसा मया वै । पदार्थभूतान् स्थिर-जंगमांश्च हेरम्ब मां तारय मोहभावात् ॥ ५७॥ मन्दारपुष्पाणि शमीदलानि दूर्वांकुरांस्ते मनसा ददामि । हेरम्ब लम्बोदर दीनपाल गृहाण भक्तं कुरु मां पदे ते ॥ ५८॥ ततो हरिद्रामबिरं गुलालं सिंदूरकं ते परिकल्पयामि । सुवासितं वस्तुसुवासभूतैर्गृहाण ब्रह्मेश्वर-शोभनार्थम् ॥ ५९॥ ततः शुकाद्याः शिव-विष्णुमुख्या इन्द्रादयः शेषमुखास्तथाऽन्ये । मुनीन्द्रकाः सेवकभावयुक्ताः सभासनस्थं प्रणमन्ति ढुण्ढिम् ॥ ६०॥ वामांगके शक्तियुता गणेशं सिद्धिस्तु नानाविधसिद्धि भिस्तम् । अत्यन्तभावेन सुसेवते तु मायास्वरूपा परमार्थभूता ॥ ६१॥ गणेश्वर दक्षिणभागसंस्था बुद्धिः कलाभिश्च सुबोधिकाभिः । विद्याभिरेवं भजते परेशा मायासु सांख्यप्रदचित्तरूपा ॥ ६२॥ प्रमोदमोदादयः पृष्ठभागे गणेश्वरं भावयुता भजन्ते । भक्तेश्वरा मुद्गलशम्भुमुख्याः शुकादयस्तं स्म पुरो भजन्ते ॥ ६३॥ गन्धर्वमुख्या मधुरं जगुश्च गणेशगीतं विविधस्वरूपम् । नृत्यंकलायुक्तमथो पुरस्ताच्चक्रुस्तथा ह्यसरसो विचित्रम् ॥ ६४॥ इत्यादि-नानाविध-भावयुक्तैः संसेवितं विघ्नपतिं भजामि । चित्तेन ध्यात्वा तु निरंजनं वै करोमि नानाविधदीपयुक्तम् ॥ ६५॥ चतुर्भुजं पाशधरं गणेशं तथांकुशं दन्तयुतं तमेवम् । त्रिनेत्रयुक्तं त्वभयंकरं तं महोदरं चैकरदं गजास्यम् ॥ ६६॥ सर्पोपवीतं गजकर्णधारं विभूतिभिः सेवितपादपद्यम् । ध्याये गणेशं विविधप्रकारैः सुपूजितं शक्तियुतं परेशम् ॥ ६७॥ ततो जपं वै मनसा करोमि स्वमूलमन्त्रस्य विधानयुक्तम् । असंख्यभूतं गणराजहस्ते समर्पयाम्येव गृहाण ढुण्ढे ॥ ६८॥ आरार्तिका कर्पुरकादिभूतामपारदीपां प्रकरोमि पूर्णाम् । चित्तेन लम्बोदर तां गृहाण ह्यज्ञानध्वान्तौघहरां निजानाम् ॥ ६९॥ वेदेषु वैघ्नैश्वरकैः सुमन्त्रैः सुमन्त्रितं पुष्पदलं प्रभूतम् । गृहाण चित्तीन मया प्रदत्तमपारवृत्त्या त्वथ मन्त्रपुष्पम् ॥ ७०॥ अपारवृत्या स्तुतिमेकदन्तं गृहाण चित्तेन कृतां गणेश । युक्तां श्रुतिस्मार्तभवैः पुराणैः सर्वैः परेशाधिपते मया ते ॥ ७१॥ प्रदक्षिणा मानसकल्पितास्ता गृहाण लम्बोदर भावयुक्ताः । संख्याविहीना विविधस्वरूपा भक्तान् सदा रक्ष भवार्णवाद्वै ॥ ७२॥ नतिं ततो विघ्नपते गृहाण साष्टांगकाद्यां विविधस्वरूपाम् । संख्याविहीनां मनसा कृतां ते सिद्ध्या च बुद्ध्या परिपालयाशु ॥ ७३॥ न्यूनातिरिक्तं तु मया कृतं चेत्तदर्थमन्ते मनसा गृहाण । दूर्वांकुरान विघ्नपते प्रदत्तान् सम्पूर्णमेवं कुरु पूजनं मे ॥ ७४॥ क्षमस्व विघ्नाधिपते मदीयान् सदापराधान् विविधस्वरूपान् । भक्तिं मदीयां सफलां कुरुष्व सम्प्रार्थयेऽहं मनसा गणेश ॥ ७५॥ ततः प्रसन्नेन गजानेन दत्तं प्रसादं शिरसाऽभिवन्द्य । स्वमस्तके तं परिधारयामि चित्तेन विघ्नेश्वरमानतोऽस्मि ॥ ७६॥ उत्थाय विघ्नेश्वर एव तस्माद्गतस्ततस्त्वन्तरधानशक्त्या । शिवादयस्तं प्रणिपत्य सर्वे गताः सुचित्तेन च चिन्तयामि ॥ ७७॥ सर्वान्नमस्कृत्य ततोऽहमेव भजामि चित्तेन गणाधिपं तम् । स्वस्थानमागत्य महानुभावैर्भक्तैर्गणेशस्य च खेलयामि ॥ ७८॥ एवं त्रिकालेषु गणाधिपं तं चित्तेन नित्यं परिपूजयामि । तेनैव तुष्टः प्रददातु भावं विघ्नेश्वरो भक्तिमयं तु मह्यम् ॥ ७९॥ गणेशपादोदकपानकं च उच्छिष्टगंधस्य सुलेपन तु । निर्माल्य-सन्धारणकं सुभोज्यं लम्बोदरस्यास्तु हि भुक्तशेषम् ॥ ८०॥ यं यं करोम्येव तदेव दीक्षा गणेश्वरस्यास्तु सदा गणेश । प्रसीद नित्यं तवपादभक्तं कुरुष्व मां ब्रह्मपते दयालो ॥ ८१॥ ततस्तु शय्यां परिकल्पयामि मन्दार-कूर्पासक-वस्त्रयुक्ताम् । सुवास-पुष्पादिभिरर्चितां ते गृहाण निद्रां कुरु विघ्नराज ॥ ८२॥ सिद्ध्या च बुद्ध्या सहितं गणेश सुनिद्रितं वीक्ष्य तथाऽहमेव । गत्वा स्ववासं च करोमि निद्रां ध्यात्वा हृदि ब्रह्मपतिं तदीयः ॥ ८३॥ एतादृशं सौख्यममोघशक्ते देहि प्रभो मानसजं गणेश । मह्यं च तेनैव कृतार्थरूपो भवामि भक्त्यमृतलालसोऽहम् ॥ ८४॥ गार्ग्य उवाच ॥ एवं नित्यं महाराज गृत्समादो महायशाः । चकार मानसीं पूजां योगीन्द्राणां गुरुः स्वयम् ॥ ८५॥ य एतां मानसीं पूजां करिष्यति नरोत्तमः । पठिष्यति सदा सोऽपि गाणपत्यो भविष्यति ॥ ८६॥ श्रावयिष्यति यो मर्त्यः श्रोष्यते भावसंयुतः । स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥ ८७॥ यद्यदिच्छति तत्तद्वै सफलं तस्य जायते । अन्ते स्वानन्दगः सोऽपि योगिवन्द्यो भविष्यति ॥ ८८॥ इति श्रीमदान्त्ये मुद्गलपुराणे गणेशमानसपूजा समाप्ता ॥
પાઠ જપ: 0/108