સનાતન દેવ
.. પરમાર્થઃ શ્લોકદ્વયમ્ ..
॥ परमार्थः श्लोकद्वयम् ॥
લિપિ પસંદ કરો:
देवनागरी (संस्कृत)
परमार्थः श्लोकद्वयम्
सत्संगात्भव निस्पृहो गुरुमुखात्श्रीशं प्रपद्यात्मवान् प्रारब्धं परिभुज्य कर्मशकलं प्रक्षीणकर्मान्तर। न्यासादेव निरंकुशेश्वरदयानिर्लूनमायान्वयो हार्दानुग्रहलब्ध मध्य धमनिद्वारात् बहिर्निर्गतः॥ १ ॥
मुक्तोऽर्चि र्दिनपूर्वपक्षषडुदङ्मासाब्दवातांशुमत् । ग्लौ विद्युत्वरुणेंद्रधातृ महितः सीमान्त-सिन्ध्वाप्लुतः। श्रीवैकुण्ठमुपेत्य नित्यमजडं तस्मिन् परब्रह्मणः सायुज्यं समवाप्य नन्दति समं तेनैव धन्यः पुमान्॥ २ ॥
फलश्रुतिः प्रातर्नित्यानुसन्धेयं परमार्थं मुमुक्षुभिः । श्लोकद्वयेन संक्षिप्तं, सुव्यक्तं वरदोऽब्रवीत् ॥