सनातन स्तोत्र संग्रह
Ashtakam
सनातन देव

श्री नारायणाष्टकम्

stotra-1f888fa3
रचयिता: पारंपरिक पाठ संख्या: 1
23px

वात्सल्यादभयप्रदानसमयादार्त्तार्तिनिर्वापणाद् औदार्य्यादघशोषणादगणितश्रेयः पदप्रापणात् । सेव्यः श्रीपतिरेक एव जगतामेतेऽभवन्साक्षिणः प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्याध्रुवः ॥ १॥

प्रह्लादास्ति यदीश्वरो वद हरिः सर्वत्र मे दर्शय स्तंभे चैवमिति ब्रुवन्तमसुरं तत्राविरासीद्धरिः । वक्षस्तस्य विदारयन्निजनखैर्वात्सल्यमापादयन् नार्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २॥

श्रीरामोऽत्र विभीषणोऽयमनघो रक्षोभयादागतः सुग्रीवानय पालयैनमधुना पौलस्त्यमेवागतम् । इत्युक्त्वाऽभयमस्य सर्वविदितं यो राघवो दत्तवान् आर्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३॥

नक्रग्रस्तपदं समुद्धृतकरं ब्रह्मादयो भोः सुरा रक्षन्तामिति दीनवाक्यकरिणं देवेष्वशक्तेषु यः । मा भैषीरिति तस्य नक्रहनने चक्रायुधः श्रीधरो ह्यार्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४॥

भोः कृष्णाच्युतः भोः कृपालय हरे भोः पाण्डवानां सखे क्वासि क्वासि सुयोधनाध्यपहृतां भो रक्ष मामातुराम् । इत्युक्त्तोऽक्षयवस्त्रसंभृततनुर्योऽपालयद्द्रौपदीम् आर्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ५॥

यत्पादाब्जनखोदकं त्रिजगतां पापौघविध्वंसनं यन्नामामृतपूरकं च पिबतां संसारसन्तारकम् । पाषाणोऽपि यदङिघ्रपङ्करजसा शापान्मुनेर्मोचितो ह्यार्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ६॥

पित्रा भ्रातरमुत्तमासनगतं ह्यौत्तानपादिर्ध्रुवो दृष्ट्वा तत्सममारुरुक्षुरधिकं मात्राऽवमानं गतः । यं गत्वा शरणं यदाप तपसा हेमाद्रिसिंहासनं ह्यार्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ७॥

आर्त्ता विषण्णाः शिथिलाश्च भीता घोरेशु च व्याधिशु वर्तमानाः । संकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ ८॥

॥ इति श्रीकूरेशस्वामिविरचितं नारायणाष्टकं सम्पूर्णम् ॥

पाठ जप: 0/108