சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

ஸுத³ர்ஶன கவசம்

सुदर्शन कवचम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 3
23px

सौदर्शन्युज्जिहाना दिशि विदिशि तिरस्कृत्य सावित्रमर्चि- र्बाह्याबाह्यान्धकारक्षतजगदगदङ्कारभूम्ना स्वधाम्ना । दोःखर्जूदूरगर्जद्विबुधरिपुवधूकण्ठवैकल्यकल्या ज्वाला जाज्वल्यमाना वितरतु भवतां वीप्सयाऽभीप्सितानि ॥

यस्य स्मरणमात्रेण विद्रवन्ति सुरारय: । सहस्रार नमस्तुभ्यं विष्णुपाणितलास्रय ॥

क्षिप्त्वा सुदर्शनं चक्रं ज्वालामालातिभीषणम् । सर्वरोगप्रशमनं कुरु देववराच्युत ॥

प्रसीद भगवन् ब्रह्मन् सर्वमन्त्रज्ञ नारद । सौदर्शनं तु कवचं पवित्रं ब्रूहि तत्वतः ॥ १॥

नारद उवाच श्रुणुश्वेह द्विजश्रेष्ट पवित्रं परमाद्भुतम् । सौदर्शनं तु कवचं दृष्टाऽदृष्टार्थ साधकम् ॥ २॥

कवचस्यास्य ऋषिर्ब्रह्मा छन्दोनुष्टुप् तथा स्मृतम् । सुदर्शन महाविष्णुर्देवता सम्प्रचक्षते ॥ ३॥

शिरः सुदर्शनः पातु ललाटं चक्रनायकः घ्राणं पातु महादैत्य रिपुरव्यात् दृशौ मम ॥ ४॥

शहस्रारः श‍ृतिं पातु कपोलं देववल्लभः विश्वात्मा पातु मे वक्त्रं जिह्वां विद्यामयो हरिः ॥ ५॥

कण्ठं पातु महाज्वालः स्कंधौ दिव्यायुधेश्वरः भुजौ मे पातु विजयी करौ कैटभनाशनः ॥ ६॥

षट्कोण संस्थितः पातु हृदयं धाम मामकम् मध्यम् पातु महावीर्यः त्रिनेत्रो नाभिमण्डलम् ॥ ७॥

सर्वयुधमयः पातु कटिं श्रोणिम् महाध्युतिः सोमसूर्याग्नि नयनः ऊरु पातु च ममकौ ॥ ९॥

गुह्यं पातु महामायः जानुनी तु जगत्पतिः जङ्घे पातु ममाजस्रं अहिर्बुध्न्यः सुपूजितः ॥ १०॥

गुल्फौ पातु विशुद्धात्मा पादौ परपुरञ्जयः सकलायुध सम्पूर्णः निखिलाङ्गं सुदर्शनः ॥ ११॥

य इदं कवचं दिव्यम् परमानंद दायिनम् सौदर्शनमिदं यो वै सदा शुद्धः पठेन् नरः ॥ १२॥

तस्यार्थ सिद्धिर्विपुला करस्था भवति ध्रुवम् कूष्माण्ड चण्ड भूताध्याः येच दुष्टाः ग्रहाः स्मृताः ॥ १३॥

लायन्तेऽनिशम् पीताः वर्मणोस्य प्रभावतः कुष्टापस्मार गुल्माद्याः व्यादयः कर्महेतुकाः ॥ १४॥

नश्यन्त्येतन् मन्त्रितांबु पानात् सप्त दिनावधि अनेन मन्त्रिताम्मृत्स्नां तुलसीमूलः संस्थिताम् ॥ १५॥

ललाटे तिलकं कृत्वा मोहयेत् त्रिजगन् नरः वर्मणोस्य प्रभावेन सर्वान् कामानवाप्नुयाम् ॥ १६ ॥

॥ इति श्रीसुदर्शन कवचम् सम्पूर्णम् ॥

ஜப எண்ணிக்கை: 0/108