સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

શ્રીસુદર્શન કવચમ્

श्रीसुदर्शन कवचम्
રચયિતા: પારંપરિક વાચન સંખ્યા: 4
23px

प्रसीद भगवन् ब्रह्मन् सर्वमन्त्रज्ञ नारद । सौदर्शनं तु कवचं पवित्रं ब्रूहि तत्वतः ॥ १॥

नारदः श्रुणुश्वेह द्विजश्रेष्ट पवित्रं परमाद्भुतम् । सौदर्शनं तु कवचं दृष्टाऽदृष्टार्थ साधकम् ॥ २॥

कवचस्यास्य ऋषिर्ब्रह्मा छन्दोनुष्टुप् तथा स्मृतम् । सुदर्शन महाविष्णुर्देवता सम्प्रचक्षते ॥ ३॥

ह्रां बीजं शक्ति रद्रोक्ता ह्रीं क्रों कीलकमिष्यते । शिरः सुदर्शनः पातु ललाटं चक्रनायकः ॥ ४॥

घ्राणं पातु महादैत्य रिपुरव्यात् दृशौ मम । शहस्रारः श‍ृतिं पातु कपोलं देववल्लभः ॥ ५॥

विश्वात्मा पातु मे वक्त्रं जिह्वां विद्यामयो हरिः । कण्ठं पातु महाज्वालः स्कंधौ दिव्यायुधेश्वरः ॥ ६॥

भुजौ मे पातु विजयी करौ कैटभनाशनः । षट्कोण संस्थितः पातु हृदयं धाम मामकम् ॥ ७॥

मध्यम् पातु महावीर्यः त्रिनेत्रो नाभिमण्डलम् । सर्वयुधमयः पातु कटिं श्रोणिम् महाध्युतिः ॥ ८॥

सोमसूर्याग्नि नयनः ऊरु पातु च ममकौ । गुह्यं पातु महामायः जानुनी तु जगत्पतिः ॥ ९॥

जङ्घे पातु ममाजस्रं अहिर्बुध्न्यः सुपूजितः । गुल्फौ पातु विशुद्धात्मा पादौ परपुरञ्जयः ॥ १०॥

सकलायुध सम्पूर्णः निखिलाङ्गं सुदर्शनः । य इदं कवचं दिव्यम् परमानंद दायिनम् ॥ ११॥

सौदर्शनमिदं यो वै सदा शुद्धः पठेन् नरः । तस्यार्थ सिद्धिर्विपुला करस्था भवति ध्रुवम् ॥ १२॥

कूष्माण्ड चण्ड भूताध्याः येच दुष्टाः ग्रहाः स्मृताः । लायन्तेऽनिशम् पीताः वर्मणोस्य प्रभावतः ॥ १३॥

कुष्टापस्मार गुल्माद्याः व्यादयः कर्महेतुकाः । नश्यन्त्येतन् मन्त्रितांबु पानात् सप्त दिनावधि ॥ १४॥

अनेन मन्त्रिताम्मृत्स्नां तुलसीमूलः संस्थिताम् । ललाटे तिलकं कृत्वा मोहयेत् त्रिजगन् नरः ॥ १५॥

॥ इति श्रीभृगुसंहितोक्त श्रीसुदर्शन कवचम् सम्पूर्णम् ॥

પાઠ જપ: 0/108