সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

সংসারমোহনং গণেশকবচম্

संसारमोहनं गणेशकवचम्
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 2
23px
संसारमोहनं गणेशकवचम् श्रीविष्णुरुवाच । संसारमोहनस्यास्य कवचस्य प्रजापतिः । ऋषिश्छन्दश्च बृहती देवो लम्बोदरः स्वयम् ॥ १॥ धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । सर्वेषां कवचानान्ऽच सारभूतमिदं मुने ॥ २॥ ॐ गं हुं श्रीं गणेशाय स्वाहा मे पातु मस्तकम् । द्वात्रिंशदक्षरो मन्त्रो ललाटं मे सदाऽवतु ॥ ३॥ ॐ ह्रीं क्लीं श्रीं गमिति च सन्ततं पातु लोचनम् । तालुकं पातु विघ्नेशः सन्ततं धरणीतले ॥ ४॥ ॐ ह्रीं श्रीं क्लीमिति सन्ततं पातु नासिकाम् । ॐ गौं गं शूर्पकर्णाय स्वाहा पात्वधरं मम ॥ ५॥ दन्ताणि तालुकां जिह्वां पातु मे षोडशाक्षरः ॥ ६॥ ॐ लं श्रीं लम्बोदरायेति स्वाहा गण्डं सदाऽवतु । ॐ क्लीं ह्रीं विघ्ननाशाय स्वहा कर्णं सदाऽवतु ॥ ७॥ ॐ श्रीं गं गजाननायेति स्वाहा स्कन्धं सदाऽवतु । ॐ ह्रीं विनायकायेति स्वाहा पृष्ठं सदाऽवतु ॥ ८॥ ॐ क्लीं ह्रीमिति कङ्कालं पातु वक्षःस्थलन्ऽच गम् । पाणौ पादौ सदा पातु सर्वाङ्गं विघ्ननिघ्नकृत् ॥ ९॥ प्राच्यां लम्बोदरः पातु आग्नेय्यां विघ्ननायकः । दक्षिणे पातु विघ्नेशो नैरृत्यान्तु गजाननः ॥ १०॥ पश्चिमे पार्वतीपुत्रो वायव्यां शङ्करात्मजः । कृष्णस्यांशश्चोत्तरे तु परिपूर्णतमस्य च ॥ ११॥ ऐशान्यामेकदन्तश्च हेरम्बः पातु चोर्द्ध्वतः । अधो गणाधिपः पातु सर्वपूज्यश्च सर्वतः ॥ १२॥ स्वप्ने जागरणे चैव पातु मे योगिनां गुरुः ॥ १३॥ इति ते कथितं वत्स ! सर्वमन्त्रौघविग्रहम् । संसारमोहनं नाम कवचं परमाद्भुतम् ॥ १४॥ श्रीकृष्णेन पुरा दत्तं गोलोके रासमण्डले । वृन्दावने विनीताय मह्यं दिनकरात्मज ॥ १५॥ मया दत्तन्ऽच तुभ्यन्ऽच यस्मै कस्मै न दास्यसि । परं वरं सर्वपूज्यं सर्वसङ्कटतारणम् ॥ १६॥ गुरुमभ्यर्च्य विधिवत् कवचं धारयेत्तु यः । कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥ १७॥ अश्वमेधसहस्राणि वाजपेयशतानि च । ग्रहेन्द्रकवचस्यास्य कलां नार्हन्ति षोडशीम् ॥ १८॥ इदं कवचमज्न्ऽआत्वा यो भजेच्छङ्करात्मजम् । शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ १९॥ इति ब्रह्मवैवर्ते गणपतिखण्डे संसारमोहनं नाम गणेशकवचम्
পাঠ জপ: 0/108