सनातन स्तोत्र संग्रह
श्रीगणेश
सनातन देव

मौद्गले पुष्टिपतिस्तोत्रम्

stotra-1b661505
रचयिता: पारंपरिक पाठ संख्या: 3
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px

सर्वसिद्धिप्रदं पुष्टिपतिस्तोत्रम्

श्री गणेशाय नमः । राधाकृष्णावूचतुः । पुष्टिपते नमस्तुभ्यं नमः शङ्करसूनवे । ब्रह्मभूताय देवाय सर्वसिद्धिप्रदाय ते ॥ १॥ स्वानन्दवासिने तुभ्यं ब्रह्मपुत्राय ते नमः । सिद्धिबुद्धिपते ते वै गणेशाय नमो नमः ॥ २॥ हेरम्बाय नमस्तुभ्यं नमो योगमयाय च । सर्वादये च सर्वेश सर्वज्ञाय नमो नमः ॥ ३॥ निर्गुणाय नमस्तुभ्यं सगुणाय नमो नमः । गजाननाय वै तुभ्यमभेदाय नमो नमः ॥ ४॥ शान्तिरूपाय शान्ताय शान्तिदाय महोदर । मूषकवाहनायैव गाणपत्यप्रियाय ते ॥ ५॥ अनन्तानन्तरूपाय भक्तसंरक्षणाय च । भक्तिप्रियाय देवाय भक्त्यधीनाय ते नमः ॥ ६॥ चतुर्बाहुधरायैव नागयज्ञोपवीतिने । शूर्पकर्णाय शूराय परशुधर ते नमः ॥ ७॥ विष्णुपुत्राय सर्वेषां पित्रे मात्रे नमो नमः । विनायकाय विप्राणां पुत्राय ते नमो नमः ॥ ८॥ सर्वेषां गर्वहन्त्रे च सर्वेभ्यः सुखदाय ते । लम्बोदराय विघ्नेश ब्रह्मनायक ते नमः ॥ ९॥ किम् स्तुवस्त्वां गणाधीश यत्र वेदादयः प्रभो । शुकशम्भ्वादयश्चैव बभूवुः कुण्ठिताः परम् ॥ १०॥ आवां गर्वयुतौ जातौ ब्रह्माकारौ वृथा प्रभो । तत्र त्वया च विघ्नेन कृतं गर्वस्य खण्डनम् ॥ ११॥ साधूनां विघ्नहर्ता त्वं शान्तियोगार्थमञ्जसा । असाधूनां विनाशाय ह्यतस्त्वां प्रणमामहे ॥ १२॥ विघ्नयुक्ततया ढुण्ढे आवाभ्यां योगसेवया । साक्षात्कारः कृतस्त्वं वै समीचीनमिदं कृतम् ॥ १३॥ हृदि चिन्तामणिं त्वां च पश्यावः सततं प्रभो । अतः सुशुभदो विघ्नः सञ्जातो नो गजानन ॥ १४॥ अधुना देहि विघ्नेश भक्तिं ते चरणाम्बुजे । दृढां यया च गर्वेण न भवावः समायुतौ ॥ १५॥ इत्युक्त्वा तं प्रणम्यैव ननृततुर्मुदान्वितौ । धन्यौ प्रब्रुवतौ धन्यौ दर्शनाद्गणपस्य तौ ॥ १६॥ ब्रह्मोवाच । ततस्तौ गणनाथो वै जगाद भक्तिभावतः । दृष्ट्वा प्रेमरसाह्लादयुक्तौ राधाजनार्दनौ ॥ १७॥ श्रीपुष्टिपतिरुवाच । भो राधे कृष्ण मे वाक्यं श‍ृणुतं जगदीश्वरौ । मदीयां भक्तिमत्यन्तं करिष्येथे न संशयः ॥ १८॥ सङ्कटे स्मरणेनैव प्रकटः सम्भवाम्यहम् । यं यमिच्छथ आनन्दं सफलं तं भविष्यति ॥ १९॥ भवत्कृतमिदं स्तोत्रं पठनाच्छ्रवणान्नृणाम् । सर्वसिद्धिप्रदं पूर्णं भविष्यति सुरैश्वरौ ॥ २०॥ मत्प्रीतिवर्धनं नित्यं वाञ्छितार्थकरं भवेत् । अन्ते स्वानन्ददं कृष्ण भविष्यति न संशयः ॥ २१॥ इति मौद्गले पुष्टिपतिस्तोत्रं सम्पूर्णम् ।
पाठ जप: 0/108