সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

শ্রীচণ্ডীরহস্যম্

श्रीचण्डीरहस्यम्
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 3
23px

श्रीचण्डीरहस्यम्

यच्छक्तिलेशसकृदर्पणपात्रभाव- मात्रादपि द्रुहिणशौरिमहेश्वराणाम् । प्राप्तो यदि श्रुतिशतैः परमात्मभाव- स्तामम्ब देवि भवती किमिति स्तुवन्तु ॥ १॥ कृत्वा मुखं पशुपतिर्भवती किलैकां निर्माति पालयति हन्ति जगन्ति देवः । तज्जामिताविपरिवृत्तिकृते तमेव शम्भुं मुखं कृतवती भवतीति मन्ये ॥ २॥ विश्वं नियच्छति विश‍ृङ्खलचेष्टितो यः सोऽपि त्वया नियमनीय इति स्फुटं नः । वैवस्वतं चिकुरभावजुषं यदम्ब बध्नासि वेणिकबरीग्रथनादिभेदैः ॥ ३॥ भ्रूकिङ्कराणि भुवनानि तव भ्रुवौ च सन्ध्यात्मिके इति गृणन्ति यतोऽत एव । कर्माणि मातरितराणि करोतु मा वा सन्ध्यां पुनर्भजत एव समस्तलोकः ॥ ४॥ जाता दृशो जननि पावकतेजसैव तिस्रस्तवेत्यपि किमागमबोध्यमेतत् । पापान्यपाङ्गवलनैः परिमार्जतीनां तासां च पावकपदे विचिकित्सते कः ॥ ५॥ मूल्यं न यस्य भुवनानि चतुर्दशापि मुक्ताफलं वहति तत्तव नासिकेति । चित्रीयते किमपि चेतसि मे न मातः किं राजराजपदवीं भजतामलभ्यम् ॥ ६॥ नासाधिकारमिह गन्धवहात्मकत्वं देवि श्रुती स्वयमपाहरतां भवत्याः । सर्वाः श्रुतीरपि तु सा स्ववशे चकार किं दुर्लभं त्रिषु जगत्सु धनेश्वराणाम् ॥ ७॥ प्राञ्चो जगज्जननि ये पतयः प्रजानां ते देवि संववृतिरे दशनात्मना ते । नो चेत्तदन्तिकतले रसनाग्रभागे किं भारती वसति किङ्करतां गतेव ॥ ८॥ स्वेनात्मना मुररिपुर्दनुजैर्विगृह्य वारान् कतीह न बभार पराङ्मुखत्वम् । ओजायितुं स निरपायमुपायवेदी बाह्यात्मना परिणतो नियतं भवत्याः ॥ ९॥ वर्षन् करो महिषमर्दनि ते वसूनि प्रस्तूयतां कविजनैर्न ममाद्भुतं तत् । आसादिता वसुभिरङ्गुलिता यदीया कस्तस्य शंस वसुवर्षविधौ प्रयासः ॥ १०॥ सोमेऽमृतं कतिचिदेव पुरा लभन्ते तल्लभ्यमस्तु जगतामिति तर्कयन्त्या । नीतः पयोधरदशां स शिवे त्वया य- दस्मादृशामयमतर्कितभाग्ययोगः ॥ ११॥ ब्रह्मर्षिशापभवया त्रपया महत्या प्रागास्त यः क्वचन देवि सरस्यदृश्यः । नूनं स एष विबुधाधिपतिर्भवत्याः प्राप्तो वलग्नपदवीमधुनाप्यदृश्यः ॥ १२॥ पादौ बभूव तव पद्मभवस्ततः किं बाह्यात्मना परिणनाम हरिस्ततः किम् । सिद्धा नितम्बविधया वसुधा यदा ते सिद्धस्तदा पुरहरस्य मनोरथोऽयम् ॥ १३॥ यद्वारुणं कथितमूरुयुगं सजङ्घ- मिन्दीवरच्छदसकान्ति न वारुणं तत् । प्राचेतसं तदिह वर्णयितुं क्षमेत प्राचेतसं कविकुलप्रथमं विना कः ॥ १४॥ वक्त्रैरकृत्रिमवचांसि वहन् विषण्णो वेधाश्चिरं विपरिणम्य पदात्मना ते । सन्धार्यतेऽद्य शिरसा सकलैरमीभिः क्लिष्टश्चिरात् किमुपयातु न जातु हर्षम् ॥ १५॥ बाह्यं तमो हरति यस्तपनः कथञ्चि- त्पादौ तवाङ्गुलितयाम्ब भजन् स एव । अन्तस्तमांसि च हरत्यतिदुर्हराणि किं सेन्यसेवनविधिर्न करोति पुंसाम् ॥ १६॥ देवेषु वासवमुखेषु निजां निधाय शक्तिं यदम्ब समये पुनरग्रहीस्त्वम् । कर्पूरभाजननयादधुनापि ते ते कीर्तिं वहन्ति कियतीमपि तावतैव ॥ १७॥ तेजांसि च प्रहरणानि च यानि यानि देवेषु देवि निहितानि पुरा भवत्या । तान्येव निष्फलतराणि तदाश्रितानि त्वत्स्वीकृतानि फलवन्ति बभूवुरित्थम् ॥ १८॥ शत्त्या यया दिविचरा अतिशेरतेऽस्मान् सा च त्वमित्यवगतः सकलैश्च तन्त्रैः । किं त्वं विचारकुशलैरसि सेवनीया किं देवतास्तव ऋजीषदशां प्रपन्नाः ॥ १९॥ इन्द्रं यजन्तु तव गर्भमुपासते ते वह्निं यजन्तु नयने तव तर्पयन्ति । भानुं नमन्तु विनमन्ति पदाम्बुजं ते सर्वं जगन्ननु समर्चति सर्वथा त्वाम् ॥ २०॥ केचित् प्रतीकमितरे तु समग्ररूप- माराधयन्ति तव ये पुनरास्तिकाः स्युः । नास्तिक्यवादनिरता नरके पतन्तो- ऽप्यम्ब स्तुवन्ति चिकुरात्मकमन्तकेन ॥ २१॥ शौरिं विबोध्य समराय तमुद्यमय्य व्यामोह्य दानववरौ कृतसंविधाना । मातस्त्वमेव मधुकैटभयोर्निहन्त्री शार्ङ्गी कृते भवति शस्त्रपदाभिषिक्तः ॥ २२॥ दैत्यौ वरं वितरतो निजनाशरूपं दैत्यारये त्रिजगतां वरदो वरार्थी । इत्थं प्रचोदितधियां क्षममीश्वरत्वं वृत्तेषु किं न सचिवोऽपि नृपं नियुङ्क्ते ॥ २३॥ न्यस्तं यदा शिरसि पादतलं भवत्या लब्धं तदैव महिषेण परं पदं ते । हन्तुं पुनर्यदिदमाददिषे त्रिशूलं तत्ते जगज्जननि सङ्गरसम्भ्रमेण ॥ २४॥ कस्त्वां रणे जयतु कस्तव हन्तु दर्पं को वास्तु ते प्रतिभटो भविता पतिः कः । दैत्यं प्रतारयितुमेव कृतोऽभ्युपायो देवं न विस्मृतवती भवती महेशम् ॥ २५॥ चण्डि द्विषस्तव निपेतुरपेतकृत्या- श्चण्डाट्टहासनिनदैरिति नाद्भुतं नः । दृष्टक्रियस्त्रिषु पुरेषु तवाप्रसिद्धो मन्दस्मितार्धमहिमा न हि मादृशानाम् ॥ २६॥ कर्माणि यानि दश ते जनभीषणानि कल्याणदानि भजतामभिजानतां वा । तैरेव विश्वमखिलं परिवृत्तिभेदै- र्बध्नासि मुञ्चसि च कुञ्चिकयेव यन्त्रम् ॥ २७॥ अन्वासितं हरिहरद्रुहिणैः सदारै- र्जामातृभिस्तनुभवैर्दुहितुः सुतैश्च । अग्रोपवेशितजगज्जननीसमाज- माराधये जननि रूपमनुत्तरं ते ॥ २८॥ सर्वानुकम्पनपरं स्वकृतोपदेशैः सार्वज्ञगर्वशमनं तरुणेन्दुमौलेः । सत्त्वैकसारमकृतोक्तिपथानुसारं सारस्वतं वपुरिदं तव चिन्तयामः ॥ २९॥ नन्दात्मजेति ननु वर्षसि हेमराशिं शाकम्भरीति शमयस्युदरोपसर्गान् । योगीश्वरीति परिहृत्य भयानि भक्तान् मातेव पाययसि कामदुघौ स्तनौ ते ॥ ३०॥ इच्छात्मिका पुरहरस्य चिदात्मिका च शक्तिस्त्रिलोकविदिते न हि तत्र शङ्का । ते चार्चिते जनयतः किल यत्प्रसादं तामाश्रये भगवतः कृतिशक्तिमाम्बाम् ॥ ३१॥ त्वं चेतनासि हृदयं त्वमसि प्रजानां त्वं वृत्तयो धृतिमतिप्रमुखास्तदीयाः । कैः साधनैरभिमुखीकरणं तव स्यात् स्वेनैव देवि दयसे यदि तद्दयेथाः ॥ ३२॥ त्वत्पूजनं यदिह जानदजानदर्हं मातश्चकर्थ महती किल चातुरीयम् । जानद्भिरेव भवती यदि पूजनीया लुप्येत पूजनकथैव जगत्त्रये ते ॥ ३३॥ यावत्परत्वमखिलागमबोधितं ते तावत्ततः शतगुणं च सुखाश्रयासि । वेदास्त्वदर्चनविधानपरा हि नो चे- दम्ब स्युरब्धितरणोक्तिवदप्रमाणम् ॥ ३४॥ प्राज्ञानभिज्ञसुलभां परिपूर्णशक्ति- मव्याजभूतकरुणापरिणामरूपाम् । अम्बां मनागपि मनस्यवलम्बमाना धीरा न बिभ्यति कथञ्चिदितोऽमुतो वा ॥ ३५॥ अभ्यर्थनीयमखिलं भवदाश्रिताना- मभ्यर्थितं प्रथममेव हि देवसङ्घैः । अम्ब स्मरन्सफलयाम्यवशिष्टमायु- रङ्गानि ते भुवनमङ्गलमङ्गलानि ॥ ३६॥ इति श्रीनीलकण्ठदीक्षितविरचितं चण्डीरहस्यम् ॥
পাঠ জপ: 0/108