॥ श्रीहयग्रीवस्तोत्रम् ॥
श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ।।
ज्ञानानन्द मयं देवं निर्मलस्फटिकाकृतिम्। आधारं सर्वविद्यानां हयग्रीवमुपास्महे ।। १ ।।
स्वतस्सिद्धं शुद्धस्फटिकमणिभूभृत्प्रतिभटं सुधा सध्रीचीभिद्र्युतिभिरवदातत्रिभुवनम्। अनन्तैस्त्रय्यन्तैरनुविहित हेषा हलहलं हताशेषावद्यं हयवदनमीडिमहि महः ।। २ ।।
समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां लयः प्रत्यूहानां लहरिवितति-र्बोधजलधेः । कदा दर्पक्षुभ्यत्कथककुलकोलाहलभवं हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ।। ३ ।।
प्राची सन्ध्या काचिदन्तर्निशायाः प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा । वक्त्री वेदान् भातु मे वाजिवक्त्रा वागीशाख्या वासुदेवस्य मूर्तिः ।। ४ ।।
विशुद्धविज्ञानघनस्वरूपं विज्ञानविश्राणनबद्धदीक्षम्। दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये ।। ५ ।।
अपौरुषेयैरपि वाक्प्रपञ्चैः अद्यापि ते भूति मदृष्ट पाराम्। स्तुवन्नहं मुग्ध इति त्वयैव कारुण्यतो नाथ कटाक्षणीयः ।। ६ ।।
दाक्षिण्य रम्या गिरिशस्य मूर्ति– र्देवी सरोजासन धर्मपत्नी । व्यासादयोऽपि व्यपदेश्य वाचः स्फुरन्ति सर्वे तव शक्ति लेशैः ।। ७ ।।
मन्दोऽभविष्यन्नियतं विरिञ्चो वाचां निधे वञ्चित भाग धेयः । दैत्यापनीतान्दययैव भूयोऽ– प्यध्यापयिष्यो निगमान्न चेत्त्वम्।। ८ ।।
वितर्क डोलां व्यवधूय सत्वे बृहस्पतिं वर्तयसे यतस्त्वम्। तेनैव देव त्रिदशेश्वराणाम् अस्पृष्ट डोलायित माधिराज्यम्।। ९ ।।
अग्नाैसमिद्धार्चिषि सप्ततन्तोः आतस्थिवान्मन्त्रमयं शरीरम्। अखण्ड सारैहर्विषां प्रदानै– राप्यायनं व्योम सदां विधत्से ।। १० ।।
यन्मूलमीदृक्प्रतिभाति तत्वं या मूलमाम्नाय महाद्रुमाणाम्। तत्वेन जानन्ति विशुद्ध सत्वाः त्वामक्षरामक्षर मातृकां ते ।। ११ ।।
अव्याकृताद्व्याकृत वानसि त्वं नामानि रूपाणि च यानि पूर्वम्। शंसन्ति तेषां चरमां प्रतिष्टां वागीश्वर त्वां त्वदुपज्ञ वाचः ।। १२ ।।
मुग्धेन्दु निष्यन्द विलोभ नीयां मूर्तिं तवानन्द सुधा प्रसूतिम्। विपश्चितश्चेतसि भावयन्ते वेला मुदारामिव दुग्ध सिन्धोः ।। १३ ।।
मनोगतं पश्यति यः सदा त्वां मनीषिणां मानस राज हंसम्। स्वयं पुरोभाव विवादभाजः किंकुर्वते तस्य गिरो यथार्हम्।। १४ ।।
अपि क्षणार्धं कलयन्ति ये त्वां आप्लावयन्तं विशदैमर्यूखैः । वाचां प्रवाहैरनिवारितैस्ते मन्दाकिनीं मन्दयितुं क्षमन्ते ।। १५ ।।
स्वामिन्भवद्ध्यान सुधाभिषेकात् वहन्ति धन्याः पुलकानुबन्धम्। अलक्षिते क्वापि निरूढ मूलं अङ्गेष्विवानन्दथुमङ्कुरन्तम्।। १६ ।।
स्वामिन्प्रतीचा हृदयेन धन्याः त्वद्ध्यान चन्द्रोदय वर्धमानम्। अमान्त मानन्द पयोधिमन्तः पयोभिरक्ष्णां परिवाहयन्ति ।। १७ ।।
स्वैरानुभावास्त्वदधीन भावाः समृद्ध वीर्यास्त्वदनुग्रहेण । विपश्चितो नाथ तरन्ति मायां वैहारिकीं मोहन पिञ्छिकां ते ।। १८ ।।
प्राङ्निर्मितानां तपसां विपाकाः प्रत्यग्र निश्श्रेयस संपदो मे । समेधिषीरंस्तव पाद पद्मे संकल्प चिन्तामणयः प्रणामाः ।। १९ ।।
विलुप्त मूर्धन्य लिपिक्रमाणां सुरेन्द्र चूडापद लालितानाम्। त्वदंघ्रि राजीव रजः कणानां भूयान्प्रसादो मयि नाथ भूयात्।। २० ।।
परिस्फुरन्नूपुर चित्रभानु प्रकाश निर्धूत तमोनुषङ्गाम्। पदद्वयीं ते परिचिन्महेऽन्तः प्रबोध राजीव विभात सन्ध्याम्।। २१ ।।
त्वत्किङ्करालंकरणो चितानां त्वयैव कल्पान्तर पालितानाम्। मञ्जुप्रणादं मणिनूपुरं ते मञ्जूषिकां वेद गिरां प्रतीमः ।। २२ ।।
संचिन्तयामि प्रतिभाद शास्थान् सन्धुक्षयन्तं समय प्रदीपान्। विज्ञान कल्पद्रुम पल्लवाभं व्याख्यान मुद्रा मधुरं करं ते ।। २३ ।।
चित्ते करोमि स्फुरिताक्षमालं सव्येतरं नाथ करं त्वदीयम्। ज्ञानामृतो दञ्चनलालसानां लीला घटी यन्त्र मिवाश्रितानाम्।। २४ ।।
प्रबोध सिन्धोररुणैः प्रकाशैः प्रवाल सङ्घात मिवोद्वहन्तम्। विभावये देव सपुस्तकं ते वामं करं दक्षिणमाश्रितानाम्।। २५ ।।
तमांसि भित्वा विशदैर्मयूखैः संप्रीणयन्तं विदुषश्चकोरान्। निशामये त्वां नव पुण्डरीके शरद्घने चन्द्रमिव स्फुरन्तम्।। २६ ।।
दिशन्तु मे देव सदा त्वदीयाः दया तरङ्गानुचराः कटाक्षाः । श्रोत्रेषु पुंसाममृतं क्षरन्तीं सरस्वतीं संश्रित कामधेनुम्।। २७ ।।
विशेषवित्पारिषदेषु नाथ विदग्ध गोष्ठी समराङ्गणेषु । जिगीषतो मे कवितार्कि केन्द्रान् जिह्वाग्र सिंहासनमभ्युपेयाः ।। २८ ।।
त्वां चिन्तयन्त्वन्मयतां प्रपन्नः त्वामुद्गृणन्शब्द मयेन धाम्ना । स्वामिन्समाजेषु समेधिषीय स्वच्छन्द वादाहव बद्ध शूरः ।। २९ ।।
नाना विधानामगतिः कलानां न चापि तीर्थेषु कृतावतारः । ध्रुवं तवानाथ परिग्रहायाः नवं नवं पात्रमहं दयायाः ।। ३० ।।
अकम्पनीयान्यपनीति भेदै– रलंकृषीरन्हृदयं मदीयम्। शङ्काकलङ्का पगमोज्ज्वलानि तत्वानि सम्यञ्चि तव प्रसादात्।। ३१ ।।
व्याख्या मुद्रां करसरसिजैः पुस्तकं शङ्क चक्रे बिभ्रद्भिन्नस्फटिक रुचिरे पुण्डरीके निषण्णः । अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन्मां आविर्भूयादनघ महिमा मानसे वाग धीशः ।। ३२ ।।
वागर्थसिद्धिहेतोः पठत हयग्रीवसंस्तुतिं भक्त्या । कवितार्किककेसरिणा वेङ्कटनाथेन विरचितामेताम्।। ३३ ।।
कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ।।
।। इति श्रीहयग्रीवस्तोत्रं समाप्तम्।।