સનાતન સ્તોત્ર સંગ્રહ
દેવી સ્તોત્રમ્
સનાતન દેવ

અપરાધક્ષમાપણસ્તોત્રમ્

अपराधक्षमापणस्तोत्रम्
રચયિતા: પારંપરિક વાચન સંખ્યા: 3
23px

अपराधक्षमापणस्तोत्रम्

ॐ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् । यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥ १॥ सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके । इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥ २॥ अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् । तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ ३॥ कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे । गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ॥ ४॥ सर्वरूपमयी देवी सर्वं देवीमयं जगत् । अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीम् ॥ ५॥ यदक्षरं परिभ्रष्टं मात्राहीनञ्च यद्भवेत् । पूर्णं भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरि ॥ ६॥ यदत्र पाठे जगदम्बिके मया विसर्गबिन्द्वक्षरहीनमीरितम् । तदस्तु सम्पूर्णतमं प्रसादतः सङ्कल्पसिद्धिश्व सदैव जायताम् ॥ ७॥ यन्मात्राबिन्दुबिन्दुद्वितयपदपदद्वन्द्ववर्णादिहीनं भक्त्याभक्त्यानुपूर्वं प्रसभकृतिवशात् व्यक्त्तमव्यक्त्तमम्ब । मोहादज्ञानतो वा पठितमपठितं साम्प्रतं ते स्तवेऽस्मिन् तत् सर्वं साङ्गमास्तां भगवति वरदे त्वत्प्रसादात् प्रसीद ॥ ८॥ प्रसीद भगवत्यम्ब प्रसीद भक्तवत्सले । प्रसादं कुरु मे देवि दुर्गे देवि नमोऽस्तु ते ॥ ९॥ ॥ इति अपराधक्षमापणस्तोत्रम् ॥
પાઠ જપ: 0/108