સનાતન સ્તોત્ર સંગ્રહ
સહસ્રનામ સ્તોત્રમ્
સનાતન દેવ

.. શ્રીરુદ્રયામલે તન્ત્રે ઉમાહરસંવાદે દશવિદ્યારહસ્યે મહાસરસ્વતીસહસ્રનામસ્તોત્રમ્ ..

॥ श्रीरुद्रयामले तन्त्रे उमाहरसंवादे दशविद्यारहस्ये महासरस्वतीसहस्रनामस्तोत्रम् ॥
રચયિતા: પારંપરિક વાચન સંખ્યા: 1
23px
॥ महासरस्वतीसहस्रनामस्तोत्रम् ॥ देव्युवाच । भगवन् देवदेवेश शरणागतवत्सल । वागेश्या नामसाहस्रां कथयस्वानुकम्पया ॥ १॥ भैरव उवाच । श‍ृणु देवि प्रवक्ष्यामि नामसाहस्रामुत्तमम् । प्रकाश्यं दुर्लभं लोके दुःखदारिद्र्यनाशनम् ॥ २॥ महापातककोटीनां परमैश्वर्यदायकम् । सर्वागमरहस्याढ्यं देवानामपि दुर्लभम् ॥ ३॥ समस्तशोकशमनं मूलविद्यामयं परम् । सर्वमन्त्रमयं दिव्यं भोगमोक्षफलप्रदम् ॥ ४॥ देवीसरस्वतीनामसहस्रं पापनाशनम् । अस्य श्रीसरस्वतीसहस्रनामस्तोत्रस्य श्रीकण्वऋषिः विराट् छन्दः श्रीसरस्वती देवता ॐ बीजं ह्रीं शक्तिः ऐं कीलकं श्रीभोगापवर्गसिद्ध्यर्थे जपे पाठे विनियोगः । ॐ ह्रीं ऐं ह्रीं महावाणी विद्या विद्येश्वरी तथा ॥ ५॥ सरस्वती च वागीशा देवी श्रीभगमालिनी । महाविद्या महामाता महादेवो महेश्वरी ॥ ६॥ वेणा वेणमुखी भव्या कुलाकुलविचारिणी । अमूर्तामूर्तरूपा च विद्या चैकादशाक्षरी ॥ ७॥ स्वरूपा निर्गुणा सत्त्वा मदिरारुणलोचना । साध्वो शूलवती शाला सुधाकलशधारिणी ॥ ८॥ खड्गिनी पद्मिनी पद्मा पद्मकिञ्जल्करञ्जिता । धराधरेन्द्रजनिता दक्षिणा दक्षजा दया ॥ ९॥ दयावती महामेधा मोदिनी बोधिनी गदा । गदाधरार्चिता गोपा गङ्गा गोदावरी गया ॥ १०॥ महाप्रभावसहिता महामेधा महाधृतिः । महामोहा महातुष्टिः महापुष्टिर्महायशाः ॥ ११॥ वरप्रदा वीरगम्या वीरमाता वसुन्धरा । वयोधाना वयस्या च वीरभूर्वीरनन्दिनी ॥ १२॥ बाला सरस्वती लक्ष्मीः दुर्गा दुर्गतिहारिणी । खेटकायुधहस्ता च खरेशी खरसन्निभा ॥ १३॥ शरीरशीर्षमध्यस्था वैखरी च खरेश्वरी । वेद्या वेदप्रिया वैद्या चामुण्डा मुण्डधारिणी ॥ १४॥ मुण्डमालार्चिता मुद्रा क्षोभनाकर्षणक्षमा । ब्राह्मी नारायणी देवी कौमारी चापराजिता ॥ १५॥ रुद्राणी च शचीन्द्राणी वाराही वीरसुन्दरी । नारसिंही भैरवेशी भैरवाकारभीषणा ॥ १६॥ नानालङ्कारशोभाढ्या नागयज्ञोपवीतिनी । वाणो वेणामुखी वीरा वीरेशो वीरमर्दिनी ॥ १७॥ वीरारण्यकभाव्या च वैरहा शत्रुघातिनी । वेदा वेदमयी विद्या विधातृवरदा विभा ॥ १८॥ बटुकी बटुकेशी च वसुधा वसुधारिणी । वटुप्रिया वामनेत्रा लास्यहास्यैकवल्लभा ॥ १९॥ अरूपा निर्गुणा सत्या भवानी भवमोचिनी । संसारतारिणी तारा त्रिपुरा त्रिपुरेश्वरी ॥ २०॥ त्रिकूटा त्रिपुरेशानी त्र्यम्बकेशी त्रिलोकधृक् । त्रिवर्गेशी त्रयी त्र्यक्षी त्रिवर्गफलदायिनी ॥ २१॥ अतीवसुन्दरी रम्या रेवा रावप्रिया रवा । देवेशी देवमाता च देवी देववरप्रदा ॥ २२॥ धवप्रिया धवहरा दुष्पूरा दुःखहा धवा । धर्मा धर्मप्रिया धीरा धनदा धनहारिणी ॥ २३॥ श्रीः कान्तिः कमला लक्ष्मीः पद्मा पद्मप्रिया हरा । कमला कमलेशानी कामदा कामपालिनी ॥ २४॥ कुलका कालकूटा न काली कपालिनी शिवा । खड्गा खड्गधरा खेटा खेटेशी खलनाशिनी ॥ २५॥ खट्वाङ्गधारिणी ख्याता खेला खेलप्रिया सदा । शाम्भवी शाङ्करी शाम्बी शिवा शुभप्रियङ्करी ॥ २६॥ शिवरूपा शिवा भूताशिवहा शिवभूषणा । शिवदाशिवहर्त्री च शान्ता श्रद्धा प्रबोधिनी ॥ २७॥ शुभदा शुद्धरूपा च साधकानां वरप्रदा । जीवरूपा जीवनादा जैनमार्गप्रबोधिनी ॥ २८॥ जेता जयत्री जयदा जगदभयकारिणी । साङ्ख्यरूपा साङ्ख्यमुखा साङ्ख्येशी साङ्ख्यनाशिनी ॥ २९॥ साङ्ख्यदा बुद्धिदा नित्या योगमार्गप्रदर्शिनी । योगप्रिया योगगम्या योगेशी योगधारिणी ॥ ३०॥ योगयुजा योगयज्ञा योगज्ञा रोगनाशिनी । रोगप्रिया रोगहर्त्री रोगघ्नी रोगहा शिवा ॥ ३१॥ रोगराज्ञी रोगकरा रोग्यारोगप्रदा सदा । गङ्गा गोदावरी तापी तमसा वज्रदायिनी ॥ ३२॥ गया सरस्वती देवो गयारूपा गयाश्रया । गोदा गोवर्द्धनेशानी गरलाशनवल्लभा ॥ ३३॥ गां ज्ञातबीजनिलया गारुडी गरुडात्मिका । गतिरूपा गतिशिवा गतिका राजभासिनी ॥ ३४॥ गमनी गमकारी च गमकाभागमप्रदा । यमुना यामिनी यामी यमरूपा यमप्रदा ॥ ३५॥ यमेश्वरी यमी धात्री यमा यमविधारिणी । यमका यागविद्या च यशःपाप(?)यशःप्रदा ॥ ३६॥ यशोदा पतिसेव्या च यशा यशःप्रदा शिवा । वितस्ता वैतिशीरूपा विद्या विद्यावरप्रदा ॥ ३७॥ वैद्या विस्ताररूपा च वित्तरूपा वित्तेश्वरी । सरी सरस्वतीरूपा सारसी च शशिप्रभा ॥ ३८॥ शारदा शारहन्त्री च चारचरण्यभूषणा । गोदावरी गदाहस्ता गोपाला गोपवर्द्धिनी ॥ ३९॥ गोश‍ृङ्गा गारुडरूपा प्रियाप्रियकरा सदा । प्रीतिदा प्रीतिहन्त्री च प्रेतस्था प्रेतनाशिनी ॥ ४०॥ प्रीतिभुक्ता स्पृहा चैव प्रीतानां क्षयकारिणी । प्रीतेशी प्रमदा सिद्धा प्रकृष्टा प्रकृतोत्तमा ॥ ४१॥ प्रवृत्तिर्वृत्तरूपा च वृत्तदा वृत्तिनाशिनी । वर्त्तुला वर्त्तुलेशाती वृत्तता वर्तुलप्रदा ॥ ४२॥ अकाररूपा अमला निर्मला निर्मलेश्वरी । अःस्वरूपा अकारेशी पापहा पाशहारिणी ॥ ४३॥ परेशी परहारीच परापरविहारिणी । परदा परमेशानी परमा परमेश्वरी ॥ ४४॥ चित्तदा चित्तहारी च चित्ता चित्तप्रदा परा । फलदा स्फीतवक्त्रा च फकारा भीमनादिनी ॥ ४५॥ फवर्णरूपा विमला फाल्गुणी विजयप्रदा । फेसखस्तुरता पात्री पुत्रदा पुत्रिका प्रभा ॥ ४६॥ प्रभाकरी प्रभेशानी प्रभुरूपा प्रभुः शिवा । चान्द्री चन्द्रकरा चिन्ता ज्योत्स्नाजालविनाशिनी ॥ ४७॥ तोरीचण्यकवर्णा च कृशाङ्गी कुलकूजिता । सर्वानन्दस्वरूपा च सर्वसङ्कष्टतारिणी ॥ ४८॥ नित्या नित्यमया नन्दा भद्रा नीलसरस्वती । गायत्री सुचरित्रा च कौलव्रतपरायणा ॥ ४९॥ हिरण्यगर्भा भूगर्भा विश्वगर्भा यशस्विनी । हेमचन्दनरम्याङ्गी दिव्यैश्वर्यविभूषिता ॥ ५०॥ जगन्माता जगद्धात्री जगतामुपकारिणी । ऐन्द्री सौम्या तथापाप्मा ब्रह्माणी वायवी तथा ॥ ५१॥ आग्नेयी नैरृती चैव ईशानी चन्द्रिकाधिका । सुमेरुतनया वन्द्या सर्वेषामुपकारिणी ॥ ५२॥ लक्षजिह्वा सरोजाक्षी मुण्डस्रजविभूषणा । सर्वानन्दमयी सर्वा सर्वानन्दस्वरूपिणी ॥ ५३॥ धृतिर्मेधा तथा लक्ष्मीः श्रद्धा पन्नगशायिनी । रुक्मिणी जानकी दुर्गा शून्या शून्यवती रतिः ॥ ५४॥ कामाख्या मोक्षदानन्दा नारसिंही जयप्रदा । महादेवरता चण्डी चण्डमुण्डविनाशिनी ॥ ५५॥ दीर्घकेशी सुकेशी च पिङ्गकेशा महाकचा । भवानी भवपत्नी च भवभीतिहरा शची ॥ ५६॥ पौरन्दरी तथा विष्णुमाया माहेश्वरी तथा । सर्वेषां जननी नित्या सर्वाङ्गी वैरिमर्दिनी ॥ ५७॥ काष्ठा निष्ठा प्रतिष्ठा च ज्येष्ठा श्रेष्ठा जयावहा । सर्वसिद्धिप्रदा देवी सर्वाणी सिद्धसेविता ॥ ५८॥ योगेश्वरी योगगम्या योगा योगेश्वरप्रिया । ब्रह्मेशरुद्रनमिता सुरेश्वरी वरप्रदा ॥ ५९॥ त्रिवृत्तस्था त्रिलोकस्था त्रिविक्रमपदोद्भवा । खतारा तारिणी तारा दुर्गा सन्तारिणी परा ॥ ६०॥ सुतारिणी तारगतिर्भृतिस्तारेश्वरप्रभा । गुह्यविद्या महाविद्या यज्ञविद्या सुशोभना ॥ ६१॥ अध्यात्मविद्या वै पूज्या वप्रस्था परमेश्वरी । आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्च यामिनी ॥ ६२॥ गौरी वागीश्वरी गोश्रीर्गायत्री कमलोद्भवा । विश्वम्भरा विश्वरूपा विश्वमाता वसुन्धरा ॥ ६३॥ सिद्धिः स्वाहा स्वधा स्वस्ति सुधा सर्वार्थसाधिनी । इच्छा सृष्टिः धृतिर्भूतिः कीर्तिः श्रद्धा दया मतिः ॥ ६४॥ श्रुतिर्मेधा धृतिश्चैव विश्वा विबुधवन्दिता । अनसूया गतिर्धात्री काशश्वासहरा तथा ॥ ६५॥ प्रतिज्ञा सत्कविर्भूतिर्द्यौः प्रभा विश्वभाविनी । स्मृतिर्वाग्विश्वजननी पश्यन्ती मध्यमा समा ॥ ६६॥ सन्ध्या मेधा प्रभा भीमा सर्वाकाराभयप्रदा । काञ्ची काया महामाया मोहिनी माधवप्रिया ॥ ६७॥ सौम्या भोगा महाभोगा भोगिनी भोगदायिका । प्रतीची कनकप्रख्या सुवर्णकमलासना ॥ ६८॥ हिरण्यवर्णा सुश्रोणिर्हरिणी रमणी रमा । चन्द्रा हिरण्मयी ज्योत्स्ना रमा शोभा शुभावहा ॥ ६९॥ त्रैलोक्यसुन्दरी रामा रमा विभववाहिनी । पद्मस्था पद्मनिलया पद्ममालाविभूषिता ॥ ७०॥ पद्मयुग्मधरा कान्ता दिव्याभरणभूषिता । महानारायणी देवी वैष्णवी वीरवन्दिता ॥ ७१॥ कालसङ्कर्षिणी घोरा तत्त्वसङ्कर्षिणी हरा । जगत्सम्पूरणी विश्वा महाभैरवभूषणा ॥ ७२॥ वारुणी वरदा वाच्या घण्टाकर्णप्रपूजिता । नृसिंही भैरवी ब्राह्मी भास्करी व्योमचारिणी ॥ ७३॥ ऐन्द्री कामधनुःसृष्टिः कामयोनिर्महाप्रभा । वृक्षवेशा महाशक्तिः बीजशक्त्यात्मदर्शना ॥ ७४॥ गरुडारूढहृदया चान्द्री च मधुरानना । महोग्ररूपा वाराही नारसिंही हतापरा ॥ ७५॥ युगान्तहुतभुग्ज्वाला कराला पिङ्गला करा । त्रैलोक्यभूषणा भीमा श्यामा त्रैलोक्यमोहिनी ॥ ७६॥ महोत्कटा महारामा महाचण्डा महाशना । शङ्गिनी लेखिनी स्वस्था खिङ्खिनी(?) खेचरीश्वरी ॥ ७७॥ भद्रकाली चित्ररूपा कौमारी भगमालिनी । कल्याणी कामधुक् ज्वालामुखी चोत्पलमालिका ॥ ७८॥ बन्धूका धनदा सूर्यहृदया नागहस्तिका । अजिता कर्षिणी रीतिर्भुशुण्डी गरुडासना ॥ ७९॥ वैश्वानरी महामारी महाकालविभूषिता । महामयूरी विभवा सर्वानन्दा रतिप्रदा ॥ ८०॥ तद्गतिः पद्ममाला च वधूर्वेगविभाविनी । भाविनी सत्क्रिया देवसेना हिरण्यरञ्जिनी ॥ ८१॥ सहस्रदा यज्ञमाता हस्तिनादप्रबोधिनी । विरूपाक्षी विशालाक्षी भक्तानां जयरक्षिणी ॥ ८२॥ बहुरूपा सुरूपा च विरूपा रूपवर्जिता । घण्टानिनादबहुला जीमीतघननिःस्वना ॥ ८३॥ आर्या सौर्या सुमध्या च धर्मकामार्थमोक्षदा । भक्तार्तिशमनी भव्या भवबन्धविमोचिनी ॥ ८४॥ दीक्षा वीक्षा परोक्षा च समीक्षा वीरवत्सला । अतिसिद्धा सुसिद्धा च वेदविद्या धनार्चिता ॥ ८५॥ स्वदीप्तलिलिहाना च कराली विश्वपूरकी । चिदाकाशरुचा राज्ञी तोषिनी विन्दुमालिनी ॥ ८६॥ क्षीरधारा सजलदा स्वप्रभा च स्वरार्चिता । हव्यगर्भा चाज्यगर्भा जुह्वती यज्ञसम्भवा ॥ ८७॥ सर्वकामप्रभा भद्रा सुभद्रा सर्वमङ्गला । श्वेता सशुक्लवसना शुक्लमाल्यानुलेपना ॥ ८८॥ हंसाहितकरी हंसी हृज्जा हृत्कमलालया । सितातपत्रा सुश्रोणिः पद्मपत्रायतेक्षणा ॥ ८९॥ सावित्री सत्यसङ्कल्पा कामदा कामदायिनी । दर्शनीया दशा दक्षा स्पृश्या सेवा वराङ्गना ॥ ९०॥ भोगप्रिया भोगवती भोगीन्द्रशयनासना । अद्रिपुष्करिणी पुण्या पोषिणी पापसूदिनी ॥ ९१॥ श्रीमती च शुभाकारा परमैश्वर्यभूतिदा । अचिन्त्यानन्तविभवा भावाभावविभाविनी ॥ ९२॥ सुश्रोणिः सर्वदेहस्था सर्वभूजनसंस्कृता । वाला वलाहका देवी गौतमी गोकुलालया ॥ ९३॥ तोषणी पूर्णचन्द्राभा एकानना शतानना । शतक्रतुप्रिया शर्मदायिनी शर्मसुन्दरी ॥ ९४॥ शिवप्रिया श्येनहस्ता सुकेशी शुक्रसुन्दरी । शुक्रप्रिया शुक्ररतिः शुक्रेष्टा शुक्रसुन्दरी ॥ ९५॥ शुक्रानन्दा शुक्ररसा शुक्रिणी शुक्रसूदनी । शोकहा शोकमालाढ्या शुक्ला शोकैकसुन्दरी ॥ ९६॥ शुक्लावासा शुक्लमुखी शोभनाश्वशुभा स्मृता । भगेश्वरी भगावासा भोगिनी भोगवल्लभा ॥ ९७॥ नवपीठनिवासस्था शिवदा शिवसुन्दरी । नवेन्द्रियैकनिलया गौरी गीर्वाणसुन्दरी ॥ ९८॥ नवगाथा रमाकाशा गाथा गुगणसुन्दरी । नवरत्नविभूषाढ्या ब्राह्मी ब्रह्माण्डसुन्दरी ॥ ९९॥ नवदीपैकवसना पीता पावनसुन्दरी । नवपन्नगहाराढ्यप्रान्ता पन्नगसुन्दरी ॥ १००॥ नवमातृक्रमोल्लासा नव्या नक्षत्रसुन्दरी । कलापिनी कालगम्या भयदा भयनाशिनी ॥ १०१॥ सौदामनी मेघरवा दैत्यदानवमर्दिनी । जगन्माता भवकरी भूतधात्री सुदुर्लभा ॥ १०२॥ धन्या धन्येश्वरी भव्या रत्नधामाशुवर्द्धिनी । गान्धर्वी रेवती गङ्गा शकुनी विमलानना ॥ १०३॥ दुर्गशान्तिकरी चैव तापसी मलयालया । आज्या च वस्त्रकौमारी खेशया कुसुमाश्रया ॥ १०४॥ जगच्छ्रीपा सिंहरथा दुर्जया खगवाहना । मनोभवा कामचरी सिद्धिदा सिद्धसेविता ॥ १०५॥ व्योमलक्ष्मीर्महालक्ष्मीस्तेजोलक्ष्मीः स्वतेजसा । रसलक्ष्मीर्जगद्योनिर्गन्धलक्ष्मीर्वनाश्रया ॥ १०६॥ श्रावणे श्रुतिदा नेत्रा रसनाप्रान्तचारिणी । विरिञ्चिमाता विभवा वरदा ऋजुवाहना ॥ १०७॥ वीरा वीरेश्वरी वन्द्या विशोका वसुवर्धिनी । अनाहता कुण्डलिनी नलिनी वनवासिनी ॥ १०८॥ राजगन्धर्ववनिता सुरेन्द्रनमिता सती । सिनीवाली कुहू राका महोत्पलनिवासिनी ॥ १०९॥ अरुन्धती वसुमती भार्गवी विष्णुदेवता । मायूरी वज्रवेताली वज्रहस्ता वरानना ॥ ११०॥ अनघा धारिणी धीरा धमनी मणिभूषणा । राजश्रीरूपसहिता ब्रह्मश्रीर्ब्रह्मवन्दिता ॥ १११॥ जयत्री जयदा जेया स्वर्गश्रीः स्वर्गतिः सदा । वलाका त्वङ्करहिता विशाला दीपनी रतिः ॥ ११२॥ सम्बोधिनी हारिणी च प्रभावा भवभूतिदा । अमृतस्यन्दिनी जीवजननी घटिकाश्रिता ॥ ११३॥ धूम्रा कलावती प्राणा भास्वरांशुमती शुभा । शुण्डाध्वनिः सती सृष्टिर्विकृष्टीरेवतीति च ॥ ११४॥ प्रायणी प्रायदा प्रख्या विश्वा पाण्डववासिनी । ओं ऐं ह्रीं श्रीं सरस्वती देवी चैकादशाक्षरी ॥ ११५॥ इति वाण्याः परं नाम्नां सहस्रं शिवभाषितम् । सर्वमन्त्रैकनिलयं सुन्दरीमानसप्रियम् ॥ ११६॥ नवतत्त्वमयं दिव्यं ब्रह्माण्डान्तसुधामयम् । भोगापवर्गदं पुण्यं सर्वतीर्थैकसाधकम् ॥ ११७॥ वरदं सर्वदा शान्तं ग्रहाणां शान्तिकृत् परम् । भूतप्रेतपिशाचानां यक्षराक्षसभीतिषु ॥ ११८॥ पठेद्वा पाठयेन्नाम्नां सहस्रं मन्त्रगर्भकम् । दूरादेव पलायन्ते खगेशादिव पन्नगाः ॥ ११९॥ कुष्ठादयो महारोगाः शममेष्यन्ति पाठनात् । साधकस्य सदा पुण्यवर्द्धनं धनवर्द्धनम् ॥ १२०॥ सर्वयज्ञैकफलदं सर्वमन्त्रैकसाधनम् । भूर्जत्वचि लिखेन्मन्त्री रविवारे च साधकः ॥ १२१॥ मारयेद्रिपुसङ्घातान् साधयेन्मन्त्रसञ्चयम् । आकर्षयेदप्सरसः उच्चाटयति वैरिणः ॥ १२२॥ पठनाच्छ्रवणात् सत्यं धारणात्साधकोत्तमः । इह लोके सुखी भूत्वा परत्र त्रिदिवं व्रजेत् ॥ १२३॥ पठेन्नाम्नां सहस्रं तु साधको मुच्यते भयात् । कल्पकोटिशतैरम्यैः कल्पकोटिशतैरपि ॥ १२४॥ प्रभावमेषां नाम्नां वै सहस्रस्य च वर्णितुम् । न शक्तोऽस्मि न शक्तोऽस्मि पञ्चास्ये न युतः शिवे ॥ १२५॥ अलं विस्तारमात्रेण यः पठेत् साधकोत्तमः । विचरेद्भुवनेऽप्येको यथाहं भैरवोत्तमः ॥ १२६॥ इति नाम्नां सहस्रं तु सर्वमन्त्रैकरूपकम् । वागीश्याः सर्वसर्वस्वे रहस्यं स्वर्गवासिनाम् ॥ १२७॥ गुह्यं गुप्तं सदा गोप्यं गोप्तव्यं पशुसङ्कटे । अदीक्षिते शठे क्रूरे निःसत्त्वे शुचिवर्जिते ॥ १२८॥ दाम्भिके च खले मूर्खे प्रमत्ते विस्मृतेऽलसे । गुरुशास्त्रसदाचारदूषके कलहप्रिये ॥ १२९॥ अदीक्षिताय यो ददात् कुशीलाय दुरात्मने । निन्दकायान्यशिष्याय स मन्त्री निरयीभवेत् ॥ १३०॥ देयं शिष्याय शान्ताय कुलीनाय कृतार्थिने । साधकाय समर्थाय गोपनीयं मुमुक्षुभिः ॥ १३१॥ इति श्रीरुद्रयामले तन्त्रे उमाहरसंवादे दशविद्यारहस्ये सरस्वतीसहस्रनामस्तोत्रं समाप्तम् ।
પાઠ જપ: 0/108