సనాతన స్తోత్ర నిధి
Budha Graha
సనాతన దేవ

.. బుధపంచవింశతినామస్తోత్రం ..

॥ बुधपञ्चविंशतिनामस्तोत्रम् ॥
రచయిత: పారంపరిక వీక్షణలు: 3
23px

बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः। प्रियङ्गुकलिकाश्यामः कञ्जनेत्रो मनोहरः॥१॥

ग्रहोपमो रौहिणेयो नक्षत्रेशो दयाकरः। विरुद्धकार्यहन्ता च सौम्यॊ बुद्धिविवर्धनः॥२॥

चन्द्रात्मजो विष्णुरूपी ज्ञानिज्ञो ज्ञानिनायकः। ग्रहपीडाहरो दारपुत्रधान्यपशुप्रदः॥३॥

लोकप्रियः सौम्यमूर्तिर्गुणदो गुणिवत्सलः। पञ्चविंशतिनामानि बुधस्यैतानि यः पठेत्॥४॥

स्मृत्वा बुधं सदा तस्य पीडा सर्वा विनश्यति। तद्दिने वा पठेद्यस्तु लभते स मनोगतम्॥५॥

॥ इति श्रीपद्मपुराणे श्रीबुधपञ्चविंशतिनामस्तोत्रं सम्पूर्णम् ॥

జప గణన: 0/108