சனாதன ஸ்தோத்திர மஞ்சரி
Sri Ganesha Stotram
ஸனாதன தே³வ

த³ஶாக்ஷரமந்த்ரஸ்தோத்ரம்

दशाक्षरमन्त्रस्तोत्रम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 3
23px

दशाक्षरमन्त्रस्तोत्रम्

श्रीगणेशाय नमः । मुद्गल उवाच । असच्छक्तिश्च सत्सूर्यः समो विष्णुर्महामुने । अव्यक्तः शङ्करस्तेषां संयोगे गणपो भवेत् ॥ १॥ संयोगे मायया युक्तो गणेशो ब्रह्मनायकः । अयोगे मायया हीनो भवति मुनिसत्तमा ॥ २॥ संयोगायोगयोर्योगे योगो गणेशसंज्ञितः । शान्तिभ्यः शान्तिदः प्रोक्तो भजने भक्तिसंयुतः ॥ ३॥ एवमुक्त्वा गणेशस्य ददौ मन्त्रं स मुद्गलः । एकाक्षरं विधियुतं ततः सोऽन्तर्हितोऽभवत् ॥ ४॥ ततोऽहं गणराजं तमभजं सर्वभावतः । तेन शान्ति समायुक्तश्चरामि त्वकुतोभयः ॥ ५॥ न गणेशात्परं ब्रह्म न गणेशात्परं तपः । न गणेशात्परं कर्म ज्ञानं न गणपात्परम् ॥ ६॥ न गणेशात्परो योगो भक्तिर्न गणपात्परा । तस्मात्स सर्वपूज्योऽयं सर्वादौ सिद्धिदायकः ॥ ७॥ गणेशानं परित्यज्य कर्मज्ञानादिकं चरेत् । तत्सर्वं निष्फलं याति भस्मनि प्रहुतं यथा ॥ ८॥ सर्वांस्त्यज्य गणेशं यो भजतेऽनन्यचेतसा । सर्वसिद्धिं लभेत्सद्यो ब्रह्मभूतः स कथ्यते ॥ ९॥ एवमुक्त्वाऽत्रितस्तस्मै ददौ मन्त्रं दशाक्षरम् । विधियुक्तं ततः साक्षादन्तर्धानं चकार ह ॥ १०॥ इति दशाक्षरमन्त्रस्तोत्रम्  
ஜப எண்ணிக்கை: 0/108