सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

वैनायक त्रिशती

stotra-14dfb322
रचयिता: पारंपरिक पाठ संख्या: 1
23px
वैनायक त्रिशती ॥ श्रीगणेशनामत्रिशतीस्तोत्रम् ॥ ॥ ॐ गं गणपतये नमः ॥ सूर्य उवाच एकार्णमन्त्रवत्सर्वं ऋष्यादिकमुदीरितम् । छन्दोऽनुष्टुप् कीर्तितं च स्वानन्देशस्तु देवता ॥ १॥ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः । गजाननो गणपतिर्नित्यानित्यो निरामयः ॥ २॥ निर्मलो निष्कलो नित्यो नादमध्ये प्रतिष्ठितः । निधिर्निधिप्रियपतिर्नादातीतो निधिप्रदः ॥ ३॥ नदीनदभुजो नादजनको विघ्ननायकः । विनायको विरूपाक्षो वरदो विश्वपालकः ॥ ४॥ विघ्नकृन्निघ्नचरणो गजदन्तो गजध्वनिः । गणराजो गणश्रीदो गणपूज्यो गणेष्टदः ॥ ५॥ नागाननो निम्ननाभिर्नित्यानन्दो निरङ्कुशः । नलिनीकामुको नित्यं नित्यानित्यावतंसितः ॥ ६॥ पूर्णानन्दः परन्धाम परमात्मा परात्परः । परं पदं पशुपतिस्तत्त्वं पदनिरूपितः ॥ ७॥ तत्त्वानां परमं तत्त्वं तारकस्तारकान्तकः । तारकान्तरसंस्थानस्तारकान्तकपूर्वजः ॥ ८॥ हिरण्मयपुरान्तस्थो हृदयालाननिश्चलः । हृत्पद्मकर्णिकाशालिवियत्केलिसरोवरः ॥ ९॥ हेरम्बो हवनो हव्यो विधाता विश्वतोमुखः । विकर्ता विश्वतश्चक्षुर्वन्द्यो वेदान्तगोचरः ॥ १०॥ मदोत्कटो मयूरेशो मोहिनीशो महाबलः । महागणपतिर्मेघनादो हृत्पद्मसंस्थितः ॥ ११॥ हंसो हस्तिपिशाचीशो हृल्लेखामन्त्रमध्यगः । हर्षो हव्यकव्यभुक्च कपर्दी कलभाननः ॥ १२॥ कर्मसाक्षी कर्मकर्ता कल्पः कर्माग्रपूजितः । वक्रतुण्डो विघ्नराजो विद्यादो विजयस्थिरः ॥ १३॥ विश्वकर्ता विश्वमुखः कामदाता कटङ्कटः । कल्पकः कुमारगुरुः किरीटी कुलपालनः ॥ १४॥ वैमुख्यहतदैत्यश्रीर्वराहरदनो वशी । वागीश्वरीपतिर्वाचा सिद्धो वायुसुकीलकः ॥ १५॥ नन्दिप्रियो नगसुतानन्दनो निजसंस्थितः । नष्टद्रव्यप्रदो नादो नारायणसुपूजितः ॥ १६॥ उच्छिष्टगण उच्छिष्टः उच्छिष्टगणनायकः । उपेन्द्र उडुभृन्मौलिरुदारत्रिदशग्रणीः ॥ १७॥ पद्मप्रसन्ननयनः प्रणताज्ञानमोचनः । प्रत्यूहाज्ञानविज्ञानः प्रत्यूहहिमहव्यभुक् ॥ १८॥ प्रत्यूहाम्भोधिकालाग्निः प्रत्यूहगरलामृतः । मृत्युञ्जयो मुक्तिदाता महानादो मदोत्कटः ॥ १९॥ मदनावत्याश्रिताङ्घ्रिर्मुद्गरायुधधारकः । शाकलश्शम्भुतनयः शक्तिजश्शम्भुहास्यभूः ॥ २०॥ शिवासुखावहश्शम्भुतेजोभूश्शम्भुकोपहा । वाणीजिह्वो व्योमनाभिः वाग्मी वासवनासिकः ॥ २१॥ वैनायकीसहचरो विधृतालिसमूहकः । स्तवस्स्तुतिपरस्स्तव्यस्स्तुतितुष्टस्स्तुतिप्रियः ॥ २२॥ महालक्ष्मीप्रियतमो मातुलिङ्गधरो महान् । मदनावत्याश्रिताङ्घ्रिर्महाबुद्धिमनोरमः ॥ २३॥ मोहिनीमोहनो ज्येष्ठो ज्येष्ठराजो जगन्मयः । ज्येष्ठपूजितो ज्येष्ठेशो ज्येष्ठराजपदे स्थितः ॥ २४॥ षडक्षरष्षडाधारष्षट्चक्रोपरि संस्थितः । षडृतुकुसुमस्रग्वी षण्मुखष्षण्मुखाग्रजः ॥ २५॥ रौद्रीमुद्रितपादाब्जो रुष्टचित्तप्रसादनः । रुद्रप्रियो रुद्रपत्नीपुत्रो रुद्रशिरोधरः ॥ २६॥ रत्नमण्डपमध्यस्थो जपपूजनतोषितः । जप्यो जपो जपपरो जिह्वासिंहासनप्रभुः ॥ २७॥ जितेन्द्रियेष्टसन्दाता ब्रह्मेशो ब्रह्मणस्पतिः । ब्रह्माण्डकुम्भो ब्रह्मस्थो ब्रह्मचारी बृहस्पतिः ॥ २८॥ हंसो हरो हस्तिपतिः हर्षदो हव्यकव्यभुक् । हादिविद्याशक्तिपतिर्हृल्लेखामन्त्रमध्यगः ॥ २९॥ नामपारायणप्रीतो नामनिष्ठवरप्रदः । नार्मदार्चनसन्तुष्टो नागेन्द्रतनयो नटः ॥ ३०॥ निजानन्दसन्निषण्णो बालकेलिकुतूहली । ब्रह्ममूर्द्धा ब्रह्ममुखो ब्रह्माण्डावलिमेखलः ॥ ३१॥ बृहदारण्यसंवेद्यो ब्रह्मणां ब्रह्मणस्पतिः । मयूरनायको मायापतिर्मूषकवाहनः ॥ ३२॥ मन्दारपूजनप्रीतो मन्दारकुसुमप्रियः । मन्दारमूलसञ्जातो नागभूषणभूषितः ॥ ३३॥ नागहारकटीसूत्रो नागयज्ञोपवीतवान् । नागराजयोगदाता नागकन्यासुशान्तिदः ॥ ३४॥ नारायणार्चितपदः संयोगानन्दविग्रहः । सृष्टिस्थितिलयक्रीडस्सर्वभेषजभेषजम् ॥ ३५॥ सिन्दूरितमहाकुम्भस्सामगानरतस्सुखी । तत्पदस्तत्पदाराध्यस्तत्पदार्थस्वरूपवान् ॥ ३६॥ तत्त्वमस्याकृतिधरस्तत्त्वमस्यर्थविग्रहः । तत्त्वमस्यर्थसंवेद्यो ह्यानन्दमूर्तिधारकः ॥ ३७॥ आधारपीठ आमोद आश्रिताभीष्टदायकः । आदिमध्यान्तरहितः आखुराजमहारथः ॥ ३८॥ निजभक्तप्रियतमो नरनारायणार्चितः । नारायणश्री पूर्वाङ्गो नटराजसुपूजितः ॥ ३९॥ निरालम्बयोगगम्यो निदिध्यासवरप्रियः । श्रीङ्कारशक्तिसंयुक्तः श्रीपतिर्श्रीनिकेतनः ॥ ४०॥ श्रीङ्कारविग्रहश्श्रीदश्श्रीसिद्धिबुद्धिविनायकः । विराड् विश्वो वेदपतिर्वेदकर्ता विराट् सुतः ॥ ४१॥ विराट्पतिरूर्ध्वलोकगत ऊर्ध्वविनायकः । ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ॥ ४२॥ ऊनषोडशवर्षाढ्यस्तिर्यग्गतिविनाशकः । तिथिमात्रसुसम्पूज्यस्स्थितिमात्रवरप्रदः ॥ ४३॥ तत्त्वेष्टदस्तत्त्वपतिस्तत्त्वातत्त्वविवेकदः । भीमरूपो भूतपतिर्भूपतिर्भुवनेश्वरः ॥ ४४॥ भ्रूक्षेपदत्तलक्ष्मीको भूतिदस्सोमभूषणः । स्वतन्त्रस्सत्यसङ्कल्पस्सत्यसङ्कल्पदायकः ॥ ४५॥ स्वसंवेद्यश्च सर्वज्ञो दण्डभृद्दण्डनायकः । दक्षयज्ञप्रमथनो दयावान् दैत्यमोहनः ॥ ४६॥ दिव्यवैभवसन्दाताऽसुरकुञ्जरभेदनः । साक्षी समुद्रमथनस्सदसद्व्यक्तिदायकः ॥ ४७॥ स्वसंवेद्यासम्प्रज्ञातयोगगम्यस्वदक्षिणः । दन्तप्रभिन्नाभ्रमालो देवार्थनृगजाकृतिः ॥ ४८॥ दंष्ट्रालग्नद्विपघटो दैत्यवारणदारणः । दुरासदगर्वहरो दिवोदासवरप्रदः ॥ ४९॥ नेतिकर्ता नेतिपदो नेतिब्रह्मवरप्रदः । नेतिस्वानन्दपददो नेतिशक्तिसमन्वितः ॥ ५०॥ नेत्यसम्प्रज्ञातमययोगलभ्यसुविग्रहः । ओङ्कारशक्तिसहितः ओङ्कारमुखराजितः ॥ ५१॥ ओङ्कारवाच्य ओङ्कार ओङ्कारपूर्णविग्रहः । ओङ्कारमयविश्वात्मा गङ्कारमन्त्रविग्रहः ॥ ५२॥ गङ्कारजपसन्तुष्टो गङ्कारभूमरूपवान् । गङ्कारो गम्मन्त्रवेद्यो गम्ब्रह्मस्थितिदायकः ॥ ५३॥ इदं वैनायकं नाम्नां त्रिशति श्रुतिकीर्तितम् । ऋङ्मन्न्त्रसम्भवं वेदसारं गणककीर्तितम् ॥ ५४॥ इदं ब्राह्मे मुहूर्ते वा जपान्ते देवसन्निधौ । प्रातर्मध्यन्दिने सायं पूजान्ते वाऽथ यः पठेत् ॥ ५५॥ धनधान्यं पशून् पुत्रान् रूपं विद्यां बलं श्रियम् । आरोग्यं धर्ममर्थं च कामं मोक्षमवाप्नुयात् ॥ ५६॥ अयुतावर्तनादस्य भवेत्सिद्धिर्निरन्तरम् । एकाक्षरं समुच्चार्य चतुर्थ्यन्तं तु नाम वै ॥ ५७॥ स्वाहापदं समुच्चार्य होमः कार्यो विधानतः । द्वितीयान्तं तर्पणं तु तर्पयामीति शब्दतः ॥ ५८॥ तथैव मार्जनं कार्यं मार्जयामीति तत्परम् । पुरश्श्चर्यां नरः कृत्वा भुक्तिं मुक्तिमवाप्नुयात् ॥ ५९॥ (विनायकरहस्ये) इति विनायकरहस्ये ग्रन्थे ज्ञानसारं प्रथमभागे नारदादि मुनीनां सूर्यभगवता प्रोक्ता त्रयोदशाध्यायान्तर्गता वैनायक त्रिशती
पाठ जप: 0/108