सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

॥ गौरिकृतम् हेरम्बस्तोत्रम् ॥

stotra-13f467d2
रचयिता: पारंपरिक पाठ संख्या: 1
23px

हेरम्बस्तोत्रम्

श्री गणेशाय नमः । गौर्युवाच । गजानन ज्ञानविहारकारिन्न मां च जानासि परावमर्षाम् । गणेश रक्षस्व न चेच्छरीरं त्यजामि सद्यस्त्वयि भक्तियुक्ता ॥ १॥ विघ्नेश हेरम्ब महोदर प्रिय लम्बोदर प्रेमविवर्धनाच्युत । विघ्नस्य हर्ताऽसुरसङ्घहर्ता मां रक्ष दैत्यात्वयि भक्तियुक्ताम् ॥ २॥ किं सिद्धिबुद्धिप्रसरेण मोहयुक्तोऽसि किं वा निशि निद्रितोऽसि । किं लक्षलाभार्थविचारयुक्तः किं मां च विस्मृत्य सुसंस्थितोऽसि ॥ ३॥ किं भक्तसङ्गेन च देवदेव नानोपचारैश्च सुयन्त्रितोऽसि । किं मोदकार्थे गणपाद्धृतोऽसि नानाविहारेषु च वक्रतुण्ड ॥ ४॥ स्वानन्दभोगेषु परिहृतोऽसि दासीं च विस्मृत्य महानुभाव । आनन्त्यलीलासु च लालसोऽसि किं भक्तरक्षार्थसुसङ्कटस्थः ॥ ५॥ अहो गणेशामृतपानदक्षामरैस्तथा वाऽसुरपैः स्मृतोऽसि । तदर्थनानाविधिसंयुतोऽसि विसृज्य मां दासीमनन्यभावाम् ॥ ६॥ रक्षस्व मां दीनतमां परेश सर्वत्र चित्तेषु च संस्थितस्त्वम् । प्रभो विलम्बेन विनायकोऽसि ब्रह्मेश किं देव नमो नमस्ते ॥ ७॥ भक्ताभिमानीति च नाम मुख्यं वेदे त्वभावान् नहि चेन्महात्मन् । आगत्य हत्वाऽदितिजं सुरेश मां रक्ष दासीं हृदि पादनिष्ठाम् ॥ ८॥ अहो न दूरं तव किञ्चिदेव कथं न बुद्धीश समागतोऽसि । सुचिन्त्यदेव प्रजहामि देहं यशः करिष्ये विपरीतमेवम् ॥ ९॥ रक्ष रक्ष दयासिन्धोऽपराधान्मे क्षमस्व च । क्षणे क्षणे त्वहं दासी रक्षितव्या विशेषतः ॥ १०॥ स्तुवत्यामेव पार्वत्यां शङ्करो बोधसंयुतः । बभूव गणपानां वै श्रुत्वा हाहारवं विधेः ॥ ११॥ गणेशं मनसा स्मृत्वा वृषारूढः समाययौ । क्षणेन दैत्यराजं तं दृष्ट्वा डमरुणाहनत् ॥ १२॥ ततः सोऽपि शिवं वीक्ष्यालिङ्गितुं धवितो।आभवत् । शिवस्य शूलिकादीनि शस्त्राणि कुण्ठितानि वै ॥ १३॥ तं दृष्ट्वा परमाश्चर्यं भयभीतो महेश्वरः । सस्मार गणपं सोऽपि निर्विघ्नार्थं प्रजापते ॥ १४॥ पार्वत्याः स्तवनं श्रुत्वा गजाननः समाययौ । इति मुद्गलपुराणोक्तं हेरम्बस्तोत्रम् 
पाठ जप: 0/108