लक्ष्मीनारायणसंहिता
खण्डः १ (कृतयुगसन्तानः) अध्यायः - १
परंब्रह्मांडपरंब्रह्म श्रियं नारायणं हरिम् । सर्वाऽन्तर्यामिणं वन्दे देवं सर्वाऽवतारिणम् ॥ १ ॥ श्रीश्च लक्ष्मीश्च यत्पत्न्यौ विप्राग्नी यन्मुखं मतम् । सन्तो यद्धृदयं शश्वत् तस्मै चाऽन्वयिने नमः ॥ २ ॥ दिविषद्बर्हिषत् त्रिषत् पितृसद्भूतसच्च यः । ध्यानलभ्यस्वरूपाय तस्मै शंवर्षिंणे नमः ॥ ३ ॥ हिमवच्छिखरे रम्ये स्वाश्रमे पर्वतोत्तमे । नारायणेन वै लक्ष्म्यै या प्रोक्ता निजसंहिता ॥ ४ ॥ बद्रिकाश्रमतीर्थे तां ततो लब्ध्वाऽऽदिरूपधृक् । श्वेतव्यासो दिव्यदृष्टिश्चतुःशिष्यानुवाच ह ॥ ५ ॥ श्वैतिं च सुशिखं चापि श्वेताश्वं श्वेतलोहितम् । चत्वारस्ते महात्मानो ब्रह्मिष्ठा ब्रह्मपारगाः ॥ ६ ॥ भूत्वा धाम हरेः प्रापुः पुनरावृत्तिवर्जितम् । अनादिश्रीकृष्णनारायणपत्न्यस्तु ताः कथाः ॥ ७ ॥ पतिं नारायणं प्रेम्णा पप्रच्छुर्लोमशाऽऽश्रमे । सौराष्ट्रे कुंकुमवापीक्षेत्रेऽश्वपट्टसारसे ॥ ८ ॥ नारायणश्च ताभ्यो वै जगादेमां हि संहिताम् । लक्ष्मीनारायणसंहिताख्यां सर्वार्थसंभृताम् ॥ ९ ॥ पञ्चविंशतिसाहस्राऽधिकलक्षं हि वर्तते । श्लोकानां यत्र संख्यानं मोक्षदं पाठमात्रतः ॥ 1.1.१० ॥ एकदा नारदः प्रायात् कर्तुं वैकुण्ठिदर्शनम् । सभा तेन समासीना दृष्टा श्रीविष्ण्वधिष्ठिता ॥ १ १॥ दिव्या मुक्तास्त्वक्षराख्या गोलोकस्थास्तथाऽपरे । वैकुण्ठवासिनो मुक्ताः श्वेतद्वीपनिवासिनः ॥ १ २॥ अव्याकृताऽमृतवासाः श्रीलक्ष्मीधामवासिनः । बद्रीक्षीराऽब्धिमाश्चापि तदन्यद्धामवर्तिनः ॥ १३॥ ऋषयः पितरो देवाः सिद्धा गान्धर्वचारणाः । लोकपालाश्च मनवस्तापसाः साधवश्च ये ॥ १४॥ मुनयो दिव्यगतयो दिव्याऽहतसुविग्रहाः । आसन् सर्वे तत्र योगे नारायणपरायणाः ॥ १५॥ लक्षयोजनविस्तीर्णाऽऽप्रान्तसंकुलिता सभा । नारदेन तु संदृष्टा ह्यर्धा पुंभिः प्रकाशिता ॥ १६॥ वामभागे यत्र लक्ष्मीस्तत्र देव्यस्तु संस्थिताः । मुक्तान्यो वासुदेवान्यो गोप्यः सख्यस्तथा पराः ॥ १७॥ ईश्वरिण्यो भगवत्यः पार्षदाण्यश्च सेविकाः । ब्रह्माण्यो मातरो देव्यो मानव्यः सिद्धविग्रहाः ॥ १८॥ नारदेन सभा दृष्टा ह्यर्धा नारीप्रकाशिता । कृष्णनारायणं देवं हरिं विष्णुं सनातनम् ॥ १९ ॥ श्रियं लक्ष्मीं महामायां नारदः प्राणमन् मुदा । सर्वां सभां प्रणम्याऽथ विष्णुदत्ते सुविष्टरे ॥ २० ॥ न्यषीदन्नारटस्तत्र तैः सर्वेः सत्कृतः ऋषिः । व्यासोऽहं श्वेतसंज्ञो वै सूतः सुशिखनामकः ॥ २१ ॥ व्याख्यातारस्तथा चान्ये बृहस्पतिपुरोगमाः । दिव्यरूपास्तु ते सर्वै नारायणसमीहया ॥ २२॥ कथास्तु विविधास्तत्र चक्रुर्भक्तिविवर्धनाः । तत्र नारायणेनोक्तं नारदोऽयं महामुनिः ॥२ ३ ॥ बहुश्रुतो बहुज्ञाता समाख्याननिधिर्महान् । लोकवृत्तान्तकुशलः प्रष्टव्यो वृत्तवित्तये ॥ २४॥ लक्ष्मीरुवाच- भो तपस्विन् महायोगिन् विष्णोरंश महामुने । कुतस्तादागम्यते किं वर्तते विष्णुसृष्टिषु ॥ २५ ॥ कथंव्रता जना भूमौ समयश्चापि कीदृशः । तीर्थानां सुसतां पृथ्व्यां भूसुराणां गवां तथा ॥ २६ ॥ दीनानां सुकृतस्यापि साध्वीनां न्यासिनां स्थितिः । कीदृशी साम्प्रतं चास्ति मोक्षाध्वा कच्चिदक्षतः ॥ २७ ॥ ज्ञानं विज्ञानसहकृत् कच्चिद्विप्रेषु राजते । नारायणस्य सद्भक्तिर्लोकषु वर्तते न्विति? ॥ २८ ॥ श्रीनारद उवाच- पितरौ सर्वदा वन्दे कृपालू मुक्तिदायकौ । स्वल्पं नाऽविदितं चापि पित्रोः सर्वज्ञयोः किल ॥ २९ ॥ तथापि शिष्यधर्मत्वात् कथयामि यथाक्रमम् । पर्यटन् सुबहून् लोकान् दृष्ट्वा कृतयुगस्थितिम् ॥ ३ ० ॥ विलोक्य विष्णुसृष्टौ वै विष्णुभक्तियुतान् जनान् । हृष्यामि च मुहुर्मातः पातिव्रत्यपराः प्रजाः ॥ ३१ ॥ धन्योऽयं भगवान् विप्णुर्धन्या मा परमेश्वरी । यत्प्रतापाद् ध्रुवा मुक्तिर्लभ्यते मानवैः किल ॥ ३ २॥ श्रवणात्कीर्तनाद्विष्णोः स्मरणात्पादसेवनात् । अर्चनाद्वन्दनात् सख्याद्दास्याद्वाऽऽत्मानिवेदनात् ॥ ३३ ॥ ज्ञानाऽज्ञानकृताद्वापि संसारमलवर्जनात् । सद्यः संप्राप्यते मोक्षस्तस्माद्भाग्यं नु किं परम् ॥ ३४॥ सकृज्जपन्ति ये जाप्यं गृणन्ति नाम वा हरेः । दिव्यभावनया मातर्मुक्तिं यान्ति तु ते ध्रुवाम् ॥ ३५॥ सामान्यामथवा मुख्यां विष्णोर्दीक्षां हि ये जनाः । गृह्णन्त्याबालवृद्धाद्यास्ते स्युर्वैकुण्ठवासिनः ॥ ३६ ॥ आनुकूल्यं सदा विष्णोः प्रातिकूल्यविवर्जनम् । विष्णौ पूर्णो हि विश्वासस्तवाऽस्मीतिवरेषणा ॥ ३७॥ देहेन्द्रियमनः प्राणाऽभिमतिधीषणात्मनाम् । न्यासो विष्णौ तथा दीनाऽधीनता च हरेः सदा ॥ ३८ ॥ सर्वस्वं मे हरिः साक्षान्नान्यश्चेति मतिः स्थिरा । इत्येवं षड्विधा विष्णौ प्रपन्तिः शरणागतिः ॥ ३९ ॥ तदेकं वा समासाद्य नारायणपरायणः । भावैक्यं वा क्रियैक्यं वा ह्यात्मैक्यं वा प्रसाधयेत् ॥ ४० ॥ तथा तु श्रीहरेरैक्यं यथा यावत्प्रजायते । तावत्तथा स्वयं नारायणानन्दं समश्नुते ॥ ४१ ॥ प्रेमतत्त्वं द्रवरूपं चात्मापि द्रवतां भजेत् । द्रवद्वयं समासाद्य स्वयं विष्णुर्द्रवो भवेत् ॥४२ ॥ आनन्दघनचिद्घनविज्ञानघनमिष्टताः । नित्यतृप्तनित्यशैत्यनित्यसुखसुपुष्टताः ॥ ४३ ॥ नारायणैक्यमापन्नः सर्वान् कामान् समश्नुते । क्वचित्पार्श्वे क्वचिन्मूर्तौ क्वचित्तस्मिन् प्रलीयते ॥४४ ॥ क्वचिन्मुक्तः क्वचिल्लक्ष्मीः क्वचिद्दासः प्रवर्तते । शरीरवच्चेन्द्रियवन्मनोवत्तस्य जायते ॥४५॥ अहं तु नारदो मातर्विष्णोर्मन इतीरितः । त्वं तु लक्ष्मीस्तस्य चाऽर्धं शरीरात्मेति कथ्यसे ॥४६ ॥ सन्पदार्थं हरिः साक्षाच्चिदर्धस्त्वं नु सम्मता । तयोर्द्रवे महानन्दः सच्चिदानन्द उच्यते ॥ ४७॥ येन केनापि भावेन त्वात्मा वै द्रवतां व्रजेत् । तद्भावद्रवमासाद्य मुक्तिं विष्णुमयी व्रजेत् ॥।४८ ॥ श्रीश्वेतव्यास उवाच- इत्युक्त्वा द्रवरूपेण नारदो लीनतां गतः विष्णौ प्रेमपराकाष्ठासुखानुभववारिधौ ॥४९ ॥ पश्यतां तु सभास्थानां सर्वेषामिदमद्भुतम् । चमत्कृतिकरं जातम् अहो भक्तस्य भक्तता ॥ ५ ०॥ लक्ष्मीर्जिज्ञासमाना वै नारायणपरायणा । पप्रच्छ परमात्मानं लोकोपकारसत्तये ॥५ १ ॥ श्रीलक्ष्मीरुवाच- अहो भक्तास्तु बहवा दृष्टास्ते परमात्मनः । न कश्चिदीदृशो दृष्टो योऽयं त्वयि गतो द्रवम् ॥।५२॥ मन्ये तु कारणं तत्र करुणा श्रीमतस्तव । यस्योपरि भवेद् देव निःसीमानुग्रहस्तव ॥५३ ॥ तस्यैव नाथ नो भिन्नो भवसीति मतिर्मम । एतादृशात्मलाभार्थे यथा यद् भवतो मतम् ॥५४॥ यद्वाऽनुग्रहलब्ध्यर्थं किं कर्तव्यं त्वयेष्यते? । श्रीश्वेतव्यास उवाच- नारायणस्तु तच्छ्रुत्वा सर्वेषां हितकाम्यया ॥५५॥ उवाच परमप्रीत्या स्वल्पमप्यतुलार्थभृत् । येन साधारणा जीवा अपि यान्तीदृशीं गतिम् ॥५६॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वैकुण्ठे लक्ष्मीनारायणीयसभायां नारदीयद्रवीभावभक्तिचमत्कृतिनिरूपणात्मकः प्रथमोऽध्यायः ॥ १ ॥