ஸனாதன தே³வ
.. ஸூர்யப்ராத꞉ஸ்மரணஸ்தோத்ரம் ..
॥ सूर्यप्रातःस्मरणस्तोत्रम् ॥
प्रातः स्मरामि खलु तत्सवितुर्वरेण्यम् रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि। सामानि यस्य किरणाः प्रभवादिहेतुम् ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम्॥१॥
प्रातर्नमामि तरणिं तनुवाङ्मनोभि- र्ब्रह्मेन्द्रपूर्वकसुरैर्नुतमर्चितं च। वृष्टिप्रमोचनविनिग्रहहेतुभूतम् त्रैलोक्यपालनपरं त्रिगुणात्मकं च॥२॥
प्रातर्भजामि सवितारमनन्तशक्तिम् पापौघशत्रुभयरोगहरं परं च। तं सर्वलोककलनात्मककालमूर्तिम् गोकण्ठबन्धनविमोचनमादिदेवम्॥३॥
श्लोकत्रयमिदं भानोः प्रातः प्रातः पठेत्तु यः। स सर्वव्याधिनिर्मुक्तः परं सुखमवाप्नुयात् ॥
॥ इति श्रीसूर्यप्रातःस्मरणस्तोत्रं सम्पूर्णम्॥