சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

மங்க³லாசரணம்

मङ्गलाचरणम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 3
23px

मङ्गलाचरणम्

श्री गणेशाय नमः ॥ श्रीगुरुभ्यो नमः ॥ स जयति सिन्धुरवदनो देवो यत्पादपङ्कजस्मरणम् । वासरमणिरिव तमसां राशिं नाशयति विऽघ्नानाम् ॥ १॥ सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लंबोदरश्च विकटो विघ्ननाशो गणाधिपः ॥ २॥ धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजानानः । द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥ ३॥ विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा । सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥ ४॥ शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वाविघ्नोपशान्तये ॥ ५॥ व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ६॥ व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ ७॥ अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । अभाललोचनः शंभुर्भगवान् बादरायणः ॥ ८॥ इति मङ्गलाचरणम्
ஜப எண்ணிக்கை: 0/108