आर्याष्टोत्तरशतनामावलिः
अस्य श्री आर्यामहामन्त्रस्य मारीच काश्यप ऋषिः त्रिष्टुप् छन्दः श्री आर्या दुर्गा देवता ॥
ॐ जातवेदसे सुनवाम सोममरातीयतः निदहाति वेदः सनः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥
एवं न्यासमाचरेत् ध्यानम् विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणाम् कन्याभिः करवालखेटविलसत् हस्ताभिरासेविताम् । हस्तैश्चक्रगदाऽसिशङ्ख विशिखांश्चापं गुणं तर्जनीम् बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥
मन्त्रः ॐ जातवेदसे सुनवाम सोममरातीयतः निदहाति वेदः सनः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥॥ अथ आर्या अष्टोत्तरशतनामावलिः ॥
ॐ आर्यायै नमः । ॐ कात्यायन्यै नमः । ॐ गौर्यै नमः । ॐ कुमार्यै नमः । ॐ विन्ध्यवासिन्यै नमः । ॐ वागीश्वर्यै नमः । ॐ महादेव्यै नमः । ॐ काल्यै नमः । ॐ कङ्कालधारिण्यै नमः । ॐ घोणसाभरणायै नमः । १० ॐ उग्रायै नमः । ॐ स्थूलजङ्घायै नमः । ॐ महेश्वर्यै नमः । ॐ खट्वाङ्गधारिण्यै नमः । ॐ चण्ड्यै नमः । ॐ भीषणायै नमः । ॐ महिषान्तकायै नमः । ॐ रक्षिण्यै नमः । ॐ रमण्यै नमः । ॐ राज्ञ्यै नमः । २० ॐ रजन्यै नमः । ॐ शोषिण्यै नमः । ॐ रत्यै नमः । ॐ गभस्तिन्यै नमः । ॐ गन्धिन्यै नमः । ॐ दुर्गायै नमः । ॐ गान्धार्यै नमः । ॐ कलहप्रियायै नमः । ॐ विकराल्यै नमः । ॐ महाकाल्यै नमः । ३० ॐ भद्रकाल्यै नमः । ॐ तरङ्गिण्यै नमः । ॐ मालिन्यै नमः । ॐ दाहिन्यै नमः । ॐ कृष्णायै नमः । ॐ छेदिन्यै नमः । ॐ भेदिन्यै नमः । ॐ अग्रण्यै नमः । ॐ ग्रामण्यै नमः । ॐ निद्रायै नमः । ४० ॐ विमानिन्यै नमः । ॐ शीघ्रगामिन्यै नमः । ॐ चण्डवेगायै नमः । ॐ महानादायै नमः । ॐ वज्रिण्यै नमः । ॐ भद्रायै नमः । ॐ प्रजेश्वर्यै नमः । ॐ कराल्यै नमः । ॐ भैरव्यै नमः । ॐ रौद्र्यै नमः । ५० ॐ अट्टहासिन्यै नमः । ॐ कपालिन्यै चामुण्डायै नमः । ॐ रक्तचामुण्डायै नमः । ॐ अघोरायै नमः । ॐ घोररूपिण्यै नमः । ॐ विरूपायै नमः । ॐ महारूपायै नमः । ॐ स्वरूपायै नमः । ॐ सुप्रतेजस्विन्यै नमः । ॐ अजायै नमः । ६० ॐ विजयायै नमः । ॐ चित्रायै नमः । ॐ अजितायै नमः । ॐ अपराजितायै नमः । ॐ धरण्यै नमः । ॐ धात्र्यै नमः । ॐ पवमान्यै नमः । ॐ वसुन्धरायै नमः । ॐ सुवर्णायै नमः । ॐ रक्ताक्ष्यै नमः । ७० ॐ कपर्दिन्यै नमः । ॐ सिंहवाहिन्यै नमः । ॐ कद्रवे नमः । ॐ विजितायै नमः । ॐ सत्यवाण्यै नमः । ॐ अरुन्धत्यै नमः । ॐ कौशिक्यै नमः । ॐ महालक्ष्म्यै नमः । ॐ विद्यायै नमः । ॐ मेधायै नमः । ८० ॐ सरस्वत्यै नमः । ॐ त्र्यम्बकायै नमः । ॐ त्रिसन्ख्यायै नमः । ॐ त्रिमूर्त्यै नमः । ॐ त्रिपुरान्तकायै नमः । ॐ ब्राह्म्यै नमः । ॐ नारसिंह्यै नमः । ॐ वाराह्यै नमः । ॐ इन्द्राण्यै नमः । ॐ वेदमातृकायै नमः । ९० ॐ पार्वत्यै नमः । ॐ तामस्यै नमः । ॐ सिद्धायै नमः । ॐ गुह्यायै नमः । ॐ इज्यायै नमः । ॐ उषायै नमः । ॐ उमायै नमः । ॐ अम्बिकायै नमः । ॐ भ्रामर्यै नमः । ॐ वीरायै नमः । १०० ॐ हाहाहुङ्कारनादिन्यै नमः । ॐ नारायण्यै नमः । ॐ विश्वरूपायै नमः । ॐ मेरुमन्दिरवासिन्यै नमः । ॐ शरणागतदीनार्तपरित्राणपरायणायै नमः । ॐ त्रिनेत्रायै नमः । ॐ शशिधरायै नमः । ॐ आर्यायै नमः । १०८
॥ इति आर्या अष्टोत्तरशतनामावलिः ॥